पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्र चन्द्रिका | ता अस्य सूदीहसः सोमं श्रीणन्ति पृश्नयः | जन्मन्देवानां विशस्त्रिष्वारोचने दिवः || २६ || ७१ भाष्यम्—दिवो रोचने स्वर्गस्य प्रकाशकेऽस्य जन्मनि यजमानस्य जन्मनि निमित्त- भूते संति देवानां संबन्धिन्थो विशः प्रजारूपाः पृश्नयोऽल्पगोसदृशाः सूददोहसोऽन्नस्य दोहयित्र्यस्ता इष्टकाः सोमं श्रीणन्ति पक्कं कुर्वन्ति । कदा त्रिषु सवनेषु | तस्मादस्य समिदुपधानस्य सोमसाम्यं प्रदर्शितं भवति ॥ २६ ॥ भूर्भुवः स्वः सुप्रजाः प्रजाभिः स्यां सुवीरो वीरैः सुपोषः पोषैः ॥ २७ ॥ भाष्यम्- हे भगॠति समिन्त्रं महाव्याहृ यात्मिका । अतस्त्वां याचे शोभनप्रजाः प्रजाभिः स्यां भवेयम् । शोभनवीरश्च वीरैः शोभनपोषश्च पोपैः । पोपो भूगोहिरण्य- धान्यादिभिः । वीरैः पुत्रैरिति वा । सुवीरः शास्त्रीयमार्गवर्तिशोभनपुत्रयुक्तो भवे- यम् ॥ २७ ।। अनि दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् ||२८|| भाष्यम् –अग्नेर्दूतत्यभेतन्मन्त्रव्याख्याने तैत्तिरीय ब्राह्मणे समाम्नायते-अग्निर्देवानां दूत आसीदुशनाः काच्योऽसुराणामिति । तादृशं देवदूतमग्निमस्मिन्कर्माणि वृणीमहे संभजामः । कीदृशं होतारं देवान माह्व:तारम् । विश्ववेदसं सर्ववनोपेतम् । अस्य प्रवर्तमानस्य यज्ञस्य निष्पादकत्वेन सुक्रतुं शोभनकर्माणं शे.भनयज्ञं वा देने २८ ॥ अग्निमग्नि हवीमभिः सदाऽऽहवन्त विश्पतिम् | हव्यवाहं पुरुमियम् ॥ २९ ॥ भाष्यम् – यद्यप्यग्निः स्वरूपेणैक एत्र तथाऽपि प्रयोगभेद। दाहवनीयादिस्थानभेदात्पाव- कादिविशेषणभेदाद्वा बहुविधत्वमभिप्रेत्याग्निमग्निमिति वीप्सा । तं हवीमभिराह्न नकरणैर्म- त्रैः पेः सदाऽऽहवन्त निरन्तरमनुष्ठ तार आह्ननन्ति । कीदृशं विशतिं विशां प्रजानां होत्रा- दौनां पालकं हव्यवाहं यजमानसमर्पितस्य हविषो देवान्प्रति वोढारम् । अत एव पुरुप्रियं बहूनां प्रीत्यास्पदम् ॥ २९ ॥ अग्ने देवाँ इहाऽऽवह जज्ञानो वृक्तबर्हिषे । असि होता न ईड्यः ॥ ३० ॥ भाष्यम् --हेने जज्ञानोडरपोरुत्पन्नस्त्वं वृक्तर्हिम आस्तरणार्थं छिनेन बर्हिषा युक्ताय । तं यजमानमनुग्रहीतुमिह कर्मणि हविर्भुजो देवानावह । नोऽस्मदर्थं होता देवानामाह्वाता त्वमीड्यः स्तुत्योऽसि ॥ ३० ॥ ताँ उशतो विवोधय यदग्ने यासि दूत्यम् । देवैरासत्सि वर्हिषि ॥३१॥ भाष्यम् --हेऽग्ने यचस्मात्कारणाइये यासि देवानां दूनकर्म प्राप्नोषि तस्मात्का-