सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
४३७
बालमनोरमा ।


षाताम्। दृश्यते । अदृशि । अदशिषाताम्। सिचः कित्त्वादन्न । गिरतेर्लङि ध्वमि चतुरधिकं शतम् । तथा हि । चिण्वदिटो दीघों नेत्युक्तम् । अगारिध्वम् । िद्वतीये ित्वटि *वृतो वा' (सू २३९१) इति वा दीर्घः । अगरी ध्वम्-अगरिध्वम् । एषां त्रयाणां लत्वं चेति पञ्च वैकल्पिकानि । त्वं िद्ववत्रयं इत्थं षण्णवति । 'लिङ्सिचोः–' (सू २५२८) इति विकल्पादिडभावे


लकारे उदाहरति । दृश्यते इति । लिटि ददृशे । लुटि तासि चिण्वदिट्पक्षे दर्शिता। चिण्व त्वाभावे 'सृजिदृशो ' इत्यम् । द्रष्टा । दर्शिष्यते-द्रक्ष्यते । दर्शिषीष्ट । चिण्वदिडभावे तु लिङ्सिचावात्मनेपदेषु' इति कित्त्वात् “सृजिदृशा.' इत्यन्न । नाप लघूपधगुण । दृक्षीष्ट । अदर्शति ॥ चिणि लघूपधगुण । अदर्शिषातामिति । चिण्वदिटि रूपम् । चिण्वत्वा भाव त्वाह । सिचः कित्वादत्रेति । “लिङ्कसिचावात्मनेपदेषु' इति सिच' कित्त्वात् सृजिदृशेः' इत्यत्र भवति । अकितीति पर्युदासादित्यर्थः । अथ गृधातोः कर्मलकारे यकि ऋत इत्वे 'हलि च' इति दीर्घ,गीर्यत । जगिरे। लुटितासि विण्वत्वपक्षे, गारिता। चिण्वत्वाभाव वलादिलक्षणे इटि गुणे रपरत्व गरिता-गरीता, “वृता वा' इति वा दीर्घ । गारिष्यते गरिष्यते-गरीष्यते । गायताम् । अगायत । गीयेत । गारिषीष्ट । विण्वत्वाभावपक्षे तु लिड़सिचोरात्मनेपदेषु' इति इड़िकल्प. । इडभावपक्षे 'उश्च' इति कित्त्वम् । इत्व । रपर त्वम् । ‘हलि च' इति दीर्घः । षत्वम् । गीर्षीष्ट । इट्पक्षे तु, गिरिषीष्ट । लुडि अगारिष्ट । अगारिषाताम्-अगार्षीताम्-अगरिषाताम् । इति सिद्धवत्कृत्य आह । लुङि ध्वमि चतुरधिवकं शतमिति ॥ रूपाणीति शेषः । तदेवोपपादयति । तथाहीति ॥ अगारि ध्वमिति ॥ गृ स् ध्वम् इति स्थिते चिण्वदिटि वृद्वैौ रपरत्वे 'धि च' इति सलोपे रूपमिति भावः । द्वितीये त्विटीति ॥ विण्वदिडभावपक्षे वलादिलक्षणे सिच' इटि ऋकारस्य गुणे रपरत्वे ‘धि च' इति सलोपे 'वृतो वा' इति दीर्घविकल्पे अगरिध्वम्, अगरीध्वम्, इति रूप द्वयमित्यर्थ । एषामिति ॥ एषां त्रयाणा रूपाणा मध्य एकैकस्मिन् रेफस्य “ अचि विभाषा' इति लत्वम् । “विभाषेट:’ इति वा धस्य ढत्वम् । तथा धस्य तदादेशढस्य वस्य मस्य च द्वित्वत्रयमित्यव पञ्च वैकल्पिकानीत्यर्थ. । तत्र धढयोर्मस्य च ‘अनचि च' इति द्वित्व विकल्पः । वकारस्य तु मय इति पञ्चमीमाश्रित्य ‘यणो मय .’ इति द्वित्वविकल्प इति विवेकः । यद्यपि धढयेोर्वस्य मस्य च द्वित्वचतुष्टयमिति वक्तुमुचितम् । तथापि ढस्य धस्थानिकतया धढयेोरेकत्वमभिप्रेत्य द्वित्वत्रयमित्युक्तिः । इत्थमिति ॥ एवञ्च त्रयाणामेषा लत्वविकल्पे रेफव न्ति त्रीणि, लकारवन्ति त्रीणि, इति षट्। एषु षट्सु धस्य द्वित्वविकल्पे एकधानि षट्, द्विधानि च षडिति द्वादश । तथा रेफवत्सु त्रिषु लकारवत्सु च त्रिषु ढस्य द्वित्वविकल्पे एकढानि षट्, द्विढानि च षडिति द्वादश । उभयेषामपि द्वादशानां मळने चतुर्विशतिः । एषु वस्य द्वित्वविकल्पे एकवानि चतुर्विशतिः, द्विवानि चतुर्विंशतिरित्यष्टाचत्वारिशत् । एषु मस्य द्वित्वविकल्पे एकमान्यष्टाचत्वारि शत्, द्विमान्यष्टाचत्वारिंशदिति षण्णवतिरित्यर्थः । लिङ्कसिचोरितीति ॥ चिण्वदिडभावपक्षे