पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३६
[भावकर्मतिङ्
सिध्दान्तकौमुदीसहिता


ण्वद्भावः । आर्धधातुके सीयुटीति विशेषविहितत्वात् । घानिषीष्ट । पक्षे वधिषीष्ट । अघानि । अघानिषाताम्-अहसाताम् अवधि अवधिषाताम् । अघानिष्यत-अहनिष्यत । नच स्यादिषु चिण्वदित्यतिदे शाद्वधादेशः स्यादिति वाच्यम् । “ अङ्गस्य' (सू २००) इत्यधिकारादाङ्गस्यै वातिदेशात् । गृह्यते । चिण्वदिटो न दीर्घत्वम् । प्रकृतस्य वलादिलक्षणस्यैवेटो ग्रहोऽलिटि”– (सू २५६२) इत्यनेन दीर्घविधानात् । ग्राहिता-ग्रहीता । ग्राहिष्यते-ग्रहीष्यते । ग्राहिषीष्ट-ग्रहीषीष्ट । अग्राहि । अग्राहिषाताम्-अग्रही


ण्वन्द्रावः इति । ननु घानितेत्यादौ प्राप्तऽपि वधादेशे आरम्भात् कथ वधादेशस्य चिण्वद्रावः अपवादः स्यादित्यत आह । आर्धधातुके सीयुटीति ॥ 'स्यसिच्सीयुट्' इति सूत्रे अजन्तस्य स्ये, अजन्तस्य सिचि, अजन्तस्य आर्धधातुके सीयुटि, अजन्तस्य तासौ, इत्य जन्तस्य चत्वारि वाक्यानि । एव हनदृशामप्येकैकस्य चत्वारि वाक्यानीति स्थिति । तत्र हनः आर्धधातुके सीयुटि चिण्वदिड़िधिर्निरवकाशत्वाद्वधादेशापवाद. । अप्राप्त एव वधादेशे आरम्भात् । वधादेशस्तु न चिण्वदिटोऽपवाद । तस्य वध्यादित्यत्र कर्तरि लिडि चरितार्थ त्वादिति भावः । पक्षे इति । चिण्वत्वाभावपक्षे ‘हनेो वध लिडि’ इति वधादेशे वलादिलक्षणे इटि अतो लोपे रूपम् । वधादेशस्यादन्तत्वात् । नच हनधातोरनुदात्तत्वादुपदेशे एकाच्त्वा त्तदीयवधादेशस्यापि तथाविधत्वादिह कथ वलादिलक्षण इडिति वाच्यम् । 'एकाच उपदेशे इत्यत्र अव इत्येकत्वसामथ्र्यादेकत्वे सिद्धे पुनरेकग्रहणबलेन य उपदेशे एकाजेव नतु कदाप्यने काजिति लभ्यते । तेन वधेर्हन्त्युपदेशमादाय एकाचोऽपि न निषेध . । आदेशोपदेशे अनेका चत्वादित्युक्त प्राक् । लुङि तु सिचश्चिणि उपधावृद्धौ कुत्वेन घ । आत्मनेपदेष्वन्यतरस्यामिति वधादेशाभाव । अधानिषातामिति ॥ विण्वदिटि वधादेशाभावपक्षे रूपम् । अहसाता मिति ॥ चिण्वदिडभावपक्षे 'हनः सिञ्' इति कित्त्वादनुदात्तोपदेशत्यनुनासिकलोप पक्षे अवधीति ॥ “आत्मनेपदेष्वन्यतरस्याम्' इति वधादेशपक्षे इत्यर्थः । अवधिषा तामिति ॥ ‘आत्मनेपदेष्वन्यतरस्याम्' इति वधादेशस्यापि चिण्वत्त्वान् पाक्षिकतया अप्रा सेऽपि वधादेशे चिण्वत्वस्यारम्भान्नापवादत्वमिति भावः । ननु चिणि वधादेशस्य दृष्टत्वात् स्यादिषु चिण्वत्वाद्वधादेश. स्यादित्याशङ्कय परिहरति । नचेत्यादिना ॥ आङ्गस्यैवेति ॥ वधादेशस्तु द्वैतीयीकः । न त्वङ्गाधिकारस्थ इति भाव. । अथ 'ग्रह उपादाने' इत्यस्माददु पधात् कर्मलकारे उदाहरति । गृह्यते इति । “ग्रहिज्या' इति सम्प्रसारणम् । अथ लुटि तासि चिण्वदिटि 'ग्रहोऽलिटि” इति दीर्घमाशङ्कय आह । चिण्वदिटो न दीर्घत्वमिति ॥ कुत इत्यत आह । प्रकृतस्येति ॥ वलादिलक्षणस्य इट. “ग्रहोऽलिटि प्रकृतत्वात्तस्यवत्र इति दीर्घविधौ ग्रहणम् । नतु चिण्वदिटः इति भाष्ये स्पष्टम् । ग्राहितेति ॥ चिवण्वदिटि रूपम् । प्रहीतेति । चिण्वदिडभावपक्षे वलादिलक्षणस्य इटो दीर्घ रूपम् । अथ दृशेः कर्म