सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
४३१
बालमनोरमा ।


संख्यानपेक्षत्वाद्नभिहिते कर्तरि तृतीया । त्वया मया अन्यैश्च भूयते । बभूवे ।

२७५७ । स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झन

ग्रहदृशां वा चिण्वदिट् च । (६-४-६२)

उपदेशे योऽच् तदन्तानां हनादीनां च चिणीवाङ्गकार्य वा स्यात्स्यादिषु परेषु भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च । अयमिट् चिण्वद्भावसान्नि योगशिष्टत्वात्तदभावे न । इहार्धधातुके इत्यधिकृतं सीयुटो विशेषणं, नेतरेषा मव्यभिचारात् । चिण्वद्भावादृद्धिः । नित्यश्चायं वल्निमित्तो विघाती । भावि


व्यः । तत्र द्वित्वबहुत्वयोर्द्धिबहुवचननियमे सति तयोरविषये एकवचनमिति लभ्यते इति भाष्य स्पष्टम् । एवञ्च एकवचनस्य एकत्वमुत्स्मृज्य द्विवहुवचनान्यविपये विहितत्वेन औत्सर्गि कतया एकत्वसङ्कयानपेक्षत्वात् भावलकारस्य असत्वरूपभाववाचित्वेऽप्येकवचनमेवेति भावः । अनभिहिते इति ॥ भावलकारे कर्तुस्तिड्वाच्यत्वाभावेन अनभिहितत्वात्तृतीयेत्यर्थ । त्व या मयेति ॥ त्वत्कर्तृक, मत्कर्तृकम्, अन्यकर्तृकं, भावनमित्यर्थः। स्यसिच् । अच्हन ग्रह दृशू एषान्द्वन्द्वात् षष्ठी । उपदेश इत्यच एव विशेपणम् । नेतरेषाम् । अव्यभिचारात् । तदाह । उपदेशे योऽजिति ॥ अजित्यस्य उपदेशान्वयित्वेऽपि सौत्रः समास । अजिति लुप्तषष्ठी कम् । वा चिण्वदिति सप्तम्यन्ताद्वतिः । स्यसिच्सीयुट्तासिष्वित्युपमेयतस्सप्तमीदर्शनात् । तदाह । चिवणीवेति ॥ अङ्गकार्यमिति ॥ अङ्गस्येत्यधिकृतत्वादिति भावः । भावकमेवाचिषु स्यादि ष्विति नार्थः । सयुटो लिडागमतया भावकर्मवाचित्वेऽपि स्यसिच्तासीना भावकर्मवाचित्वा भावात् । नापि भावकर्मवाचिनि प्रत्यये परे स्यादयस्तेष्वित्यर्थ. । स्यसिच्तासीनां भावकर्मवा चिप्रत्ययपरत्वसम्भवेऽपि सयुटस्तदसम्भवात् । सीयुडागमविशिष्टस्यैव लिडो भावकर्मवाचि तया केवलसीयुटे भावकर्मवाचिप्रत्ययपरकत्वमास्ति । अतो विषयसप्तमीति मत्वा आह । भा वकर्मणोर्गम्यमानयोरिति ॥ इड़िधौ स्यसिच्सीयुट्तासिषु, इति सप्तमी षष्ठया विपरिणम्यते इति मत्वा आह । स्यादीनामिडागमञ्चेति । अत्र अज्झनग्रहदृशां स्यादीनाञ्च न यथास ङ्खयम् । व्याख्यानात् । स्यादिषु परेषु अङ्गस्य इडिति नार्थ । 'आर्धधातुकस्येडुलादेः इत्यत्र ‘आर्धधातुके' इति योग विभज्य यावानिट् स आर्धधातुकस्यैवेति भाष्ये उक्तत्वात् ििणचि यदङ्गाधिकारविहित कार्यन्तस्यैवात्रातिदेशः नतु चिणि दृष्टमात्रस्य । तेन घानिष्यते इत्यत्र 'हनो वध लिडेि, लुडि च' इति विणि दृष्टो वधादेशश्चिण्वदिति नातिदृश्यते । तस्य द्वैतीयीकत्वेन अङ्गाधिकारविहितत्वाभावात् । तथा अयिष्यते इत्यत्र इणेो गादेशो न । अध्या यिष्यते इत्यत्र इडो गाडादेशो न । द्वैतीयीकत्वात् चिण्वत्वाभावे अयमिट् नेत्याह । अय मिडिति ॥ सेटकस्य वलदित्वलक्षण इट् तु स्यादेवेति भावः । ननु भूयेतेति विधिलिडि चिण्वत्व इट् च स्यातामित्यत आह । इहाधधातुके इति ॥ नेतरेषामिति ॥ स्यसिच् तासीनां न विशेषणमित्यर्थः । अव्यभिचारादिति ॥ स्यसिच्तासीनां सर्वत्रार्धधातुकत्वनि