पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३२
[परस्मैपद्
सिध्दान्तकौमुदीसहिता


ता-भविता । भविष्यते-भविष्यते । भूयताम् । अभूयत । भूयेत । भाविः षीष्ट-भविषीष्ट

२७५८ । चिण्भावकर्मणोः । (३-१-६६)

च्लेश्चिण्स्याद्भावकर्मवाचिनि तशब्दे परे । अभावि । अभाविष्यत अभविष्यत । तिडोक्तत्वात्कर्मणि न द्वितीया । अनुभूयते आनन्दचैत्रेण त्वया मया च । अनुभूयेते । अनुभूयन्ते । त्वमनुभूयेसे। अहमनुभूये । अन्वभावि । अन्वभाविषाताम्-अन्वभविषाताम् । णिलोपः । भाव्यते । भावयाचक्रे । भावयांबभूवे । भावयामासे । इह तशब्दस्य एशि, इट एत्वे च, कृते


यमादिति भाव । अत्र वार्तिकम् । “चिण्वदृद्धिर्युक् च हन्तेश्च घत्व दीर्घश्चोक्तो यो मिता वा चिणिति इट्चासिद्धस्तेन मे लुग्यते णिर्नित्यश्वाय वल्लनिमित्तो विघाती” इति स्यसिच् सयुिडितिसूत्रस्य वृष्टद्यादिप्रयोजनमित्यर्थे । तत्र वृद्धि दर्शयति । चिण्वन्द्रावाद्वद्धिरिति ॥ लुटि भूता इति स्थिते चिण्वत्वात् 'अचोऽञ्णिति’ इति वृद्धिरित्यर्थः । इडागमश्चेत्यपि बोध्यम् । तत्फलन्तु वक्ष्यत । तथा दाधातोर्लटि ‘आतेो युक् चिण्कृतो ' इति युक् । तथा लटि घानिष्यते इत्यत्र ‘होहन्तेर्डिणन्नेषु' इति घत्व शमेर्हतुमण्यन्ताल्लुटि शामिता, शमितल्यत्र 'विण्णमुलेो इति दीघ । तथा अनेनैवात्र इटि कृते तस्य आभीयत्वेनाििसद्धत्वात् अनिटीति निषेधाभावात् णिलोपः । तथा भाविष्यते इत्यत्र भू स्य इति स्थिते परमपि वलादिलक्षण इटं बाधित्वा नित्य त्वादनेन इट् । वलुनिमित्ते इटि कृते अकृते च चिण्वदिटः प्रवृत्त्या कृताकृतप्रसङ्गित्वात् । वलादिलक्षणस्त्विट् न नित्यः । चिण्वदिटि कृते वलादित्वस्य विहतत्वेन वलादिलक्षणस्य इट : अप्रवृत्तेः । निल्यश्चायमित्यस्य चिष्वदिडिति शेषः । वलूनामत्त इत्यनन्तर इडानत्य इति शष । अनित्यत्वे हेतुः । विघातीति । चिण्वदिटो वलादिनिमित्तविघातकत्वादित्यर्थः । एवञ्च सेटकत्वेऽ प्यनेनैव इट् । एतदभावपक्षे तु सेट्कत्वे वलादिलक्षण इडिति बोध्यम्। तदाह । भवितेति ॥ चिण्वदिडभावपक्षे वलादिलक्षण इडिति भाव । चिणु भावकर्मणोः ॥ च्लेरिति ॥ च्लेस्सिच्’ इत्यतस्तदनुवृत्तरिति भावः । तशब्दे परे इति ॥ ‘ते पदः' इत्यतस्त चवणू दनुवृत्तरिति भाव । अभावीति ॥ च्लोश्वणि कृते “विणो लुक्' इति तशब्दस्य लोपः । चिण्विधौ तशब्दे किम् । अभाविषाताम् । अथ अनुपूर्वीत् भूधातोरुपभोगार्थकात्सकर्मकेभ्य कर्मणेि लकारे विशेषमाह । तिङोक्तत्वादिति ॥ कर्तुस्त्वनभिहितत्वात् तृतीयैवेति भावः । तदाह । अनुभूयन् आनन्दश्चत्रण त्वया मया चात ॥ इहानन्दस्य तिडाभिहितत्वात् प्रथमेति भाव । युष्मदस्मदुपात्तयाः कत्रस्त्वनभिहितत्वात् तृतीया । अनुभूयेते इति ॥ सुखदुखे इति शेषः । अनुभूयन्ते इति ॥ सुखानीति शष . । णिलोपः इति ॥ भूधा ताणौ वृद्धो आवादेशे भावि इति ण्यन्तात् कर्मणि लटस्तादेशे याकं णिलेोप इत्यर्थः । भावया मासे इति ॥ प्रथमपुरुषेकवचने उत्तमपुरुषेकवचने च रूपम् । इहति ॥ भावयामासे इत्यत्र