पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३०
[परस्मैपद्
सिध्दान्तकौमुदीसहिता


युष्मदस्मद्भ्यां सामानाधिकरण्याभावात्प्रथमपुरुषः। तिङ्वाच्यभावनाया असत्त्वरूपत्वेन द्वित्वाद्यप्रतीतेर्न द्विवचनादि । किं त्वेकवचनमेव । तस्यौत्सर्गिकत्वेन


मिति सिद्धान्तात् । एवञ्च फलोत्पत्त्यनुकूलव्यापारात्मिका क्रिया धात्वर्थ इति सिद्धम् । एतेन क्रियावाची धातुः धातुवाच्या क्रियेत्यन्योन्याश्रयोऽपि निरस्तः । उत्पत्त्यनुकूलव्यापारस्यैव क्रियात्वात् । तदुत्तम् । व्यापारो भावना । सैवोत्पादना सेव क्रियेति । ननु उत्पत्त्यनुकूलव्यापारस्यैव सर्वत्र धातुवाच्यत्वे सर्वेषां धातूनामेकार्थत्वापत्तिः । विक्लित्त्यादितत्तत्फलोत्पत्त्यनुकूलव्यापारार्थकत्वन्तु न सम्भवति । एकैकस्य धातोर्विक्लित्त्यादितत्तत्फलांशे तदनुकूलव्यापारात्मकव्यापारसामान्ये च वाचकत्वानुपपत्तेरित्यत आह । सा च धातुत्वेन सकलधातुवाच्येति ॥ पच्यादयो धातुत्वेन रूपेण उत्पत्त्यनुकूलव्यापारात्मिकां क्रियामाहुः । पचित्वादिविशेषरूपेण तु विक्लित्त्यादितत्तत्फलांशमाहुः । तथा च वाचकतावच्छेदकभेदाद्विक्लित्त्यादिफलविशेषस्य क्रियासामान्यस्य च वाच्यता सङ्गच्छते इति भावः । तथा च भट्टिराह । 'विभज्य सेनां परमार्थकर्मा सेनापतींश्चापि पुरन्दरोऽथ । नियोजयामास स शत्रुसैन्ये करोतिरर्थेष्विव सर्वधातून् ॥' इति । अस्तिभवतिविद्यतीनामपि सत्तानुकूलव्यापार एवार्थः । तत्र सत्ता आत्मभरणम् । तदनुकूलव्यापारस्तु जायते अस्ति विपरिणमते, वर्धते, अपक्षीयते, विनश्यति, इति वार्ष्यायणिप्रणीतषड्भावविकारेष्वन्यतमो यथायथं ज्ञेयः । भूवादिसूत्रे भाष्ये स्पष्टमेतत् । प्रपञ्चितञ्च मञ्जूषायामित्यलम् । ननु उत्पादनात्मकक्रियारूपस्य भावस्य धातुवाच्यत्वे ल: कर्मणि च भावे च इति भावे कथं लकारविधिः । अनन्यलभ्यस्यैव शब्दार्थत्वादित्यत आह । भावार्थकलकारेणानूद्यते इति ॥ द्वौ त्रयः इत्यादौ द्विवचनबहुवचनवदिति भाव । युष्मदस्मद्भ्यामिति ॥ युष्मदि अस्मदीति च तिङ्समानाधिकरणे उपपदे मध्यमोत्तमपुरुषौ विहितौ । युष्मदस्मदोस्तिङ्सामानाधिकरण्यञ्च तिङ्वाच्यकारकवाचित्वमेव । लकारे तु आस्यते त्वया आस्यते मया इत्यादौ भाव एव लकारादेस्तिङ्वाच्यः । न तु युष्मदस्मदर्थौ । अतो न मध्यमोत्तमावित्यर्थः । कर्मलकारे तु त्वं वन्द्यसे अहं वन्द्ये इत्यादौ लकारस्य युष्मदस्मदोश्च सामानाधिकरण्यसम्भवात्पुरुषत्रयमपि यथायथमुदाहरिष्यते । तिङ्वाच्येति ॥ सत्त्वं द्रव्यं लिङ्गसङ्ख्यान्वययोग्यम् । तिङ्वाच्या या भावना क्रिया सा असत्त्वरूपा लिङ्गसङ्ख्यान्वयायोग्या । शब्दशक्तिस्वभावात् । ततश्च तस्याः तिङ्वाच्यभावनायां द्वित्वबहुत्वयोरप्रतीतेः युवाभ्यां युष्मद्भिर्वा आस्यते इत्यादौ न द्विवचनं बहुवचनञ्चेत्यर्थः । तिङ्वाच्येत्यनेन कृद्वाच्यायाः क्रियायाः लिङ्गसङ्ख्यान्वयित्वात्मकं सत्त्वरूपत्वमस्तीत्युक्तम्भवति । तद्यथा । पाकौ पाकाः इत्यादि । तदुक्तम् । 'सार्वधातुके यक्' इति सूत्रे भाष्ये 'कृदभिहितो भावो द्रव्यवत्प्रकाशते' इति द्रव्यवत् लिङ्गसङ्ख्यान्वयं लभते इत्यर्थः । शब्दशक्तिस्वभावादिति भावः । ननु तिङ्वाच्यभावनाया असत्त्वरूपतया द्विबहुवचनाभावे आस्यते इत्यादौ एकवचनञ्च न स्यादित्यत आह । किन्त्वेकवचनमेवेति ॥ तिङ्वाच्यभावलकारस्येति शेषः । तस्येति ॥ 'द्व्येकयोर्द्विवचनैकवचने' 'बहुषु बहुवचनम्' इति सूत्रन्यासं भङ्क्त्वा एकवचनद्विबहुवचनेषु इति सूत्रन्यासः कर्त-