सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
[भ्वादि
सिध्दान्तकौमुदीसहिता

संहितैकपदे नित्या नित्या धातूपसर्गयोः ।

नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥

इति । सत्ताद्यर्थनिर्देशश्चोपलक्षणम् । यागात्स्वर्गो भवतीत्यादावुत्पद्यत इत्याद्यर्थात्। उपसर्गास्त्वर्थविशेपस्य द्योतकाः । प्रभवति । पराभवति । सम्भवति । अनुभवति। अभिभवति । उद्भवति । परिभवतीत्यादौ विलक्षणार्थावगतेः । उक्तं च-

उपसर्गेण धात्वर्थो बलादन्यत्र नीयते ।

प्रहाराहारसंहारविहारपरिहारवत् ॥ इति ।

। एध २ वृद्धौ' । कत्थन्ताः पट्त्रिशदनुदात्तेतः ।

२२३३ । टित आत्मनेपदानां टेरे । (३.४-७९

टितो लस्यात्मनेपदानां टेरेत्वं स्यात् । एधते ।




हरिणोति शेषः । अत्र एकपद इन्यनेन अखण्ड पद विवक्षित्तम् । नित्यासमास इति लिङ्गात् । अखण्डत्वञ्च पदभिन्नोत्तरखण्डत्वम् । तथा राजीयतीत्यादौ अतो गुण इति शपा पररूप एका देशः पक्षे न स्यात् । अर्थनिर्देशश्चेति ॥ धातुपाठे भू सत्तायामित्याद्यर्थनिर्देश इन्यर्थः । उपलक्षणमिति ॥ प्रदर्शनमात्रमित्यर्थः । नन्वर्थान्तरपरिसङ्ख्या कुतो न स्यादित्यत आह । यागादिति ॥ ननु यागात् स्वर्गो भवतीत्यादौ उत्पत्यादौ लक्षणा कुतो न स्यादिति वाच्यम् । प्रयोगप्राचुर्यसत्वात् । पाणिनिर्हि धातुपाठे धातून् कांश्चिदर्थसहितान् कांश्चिदर्थरहितान् पठतीति चुटू इति सूत्रभाष्ये स्थितम् । न चातिप्रसङ्गश्शङ्क्यः । अनेकार्था अपि धानवो भवन्तीति भाष्ये अपिशब्देन प्रयोगानुसारित्वावगतेः । सर्वेषु धातुष्वर्थनिर्देशस्त्वाधुनिकः । एवञ्च सेधतेतर्गताविति सूत्रे गतावित्युपादानात् षिधगत्यामित्यर्थनिर्देश: अपाणिनीय एवेति दिक् । ननु भूधातोः केवलस्योत्पत्याद्यर्थकत्वे उद्भवतीत्यादौ उपसर्गा व्यर्था इत्यत आह । उपसर्गास्त्विति ॥ उपसर्ग विनाऽपि भूधातोरुत्पत्याद्यर्थप्रतीतेः उद्भवतीत्यादौ प्रयुज्यमाना अप्युपसर्गा द्योतका एव न तु वाचका इति भावः । द्योतकत्व वा तेषां किमर्थें स्वीकार्यमित्यत आह । प्रभवतीत्यादि ॥ प्रभवः प्रकाशः उत्पत्तिः शक्तिर्वा । सम्भवः सम्भावना । पराभवः पराजयः । अनुभवः उपभोगः । अभिभवः हिंसा । उद्रवः उत्पात्तिः । परिभवः तिरस्कारः । उक्तञ्चेति ॥ हरिणेति शेषः । प्रहारः कशाद्याघातः । आहारो भक्षणम् । सहारः वधः । विहारः क्रीडा । परिहारः परित्यागः । इति भूधातुप्रक्रिया ॥ एधवृद्धाविति ॥ जायते, आस्ति, विपरिणमते, वर्धते; अपक्षीयते, विनश्यतीति षट् भावविकाराः । तत्र चतुर्थावस्था वृद्धिः उपचयः । कत्थन्ता इति ॥ कन्थ श्लाघायामित्यन्ता इत्यर्थः । अनुदात्तेत इति ॥ ततश्च एतेभ्य आत्मनेपदमेवेति भावः । तत्र एध् इत्यस्मात् कर्तरि लटि तस्यात्मनेपदप्रथमपुरुषैकवचने तादेशे शपि एधत इति स्थिते । टित इति ॥ टे: एरिति च्छेदः लस्येत्यधिकृतम् । तदाह । टेितो लस्येति ॥ आदेशानामिति