पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ योगमार्तण्डग्रन्थः प्रारम्भः

द्विजचोदितशंखस्य (शाखस्य) श्रुतिकल्पतरोः फलं ।
शमनं भवतापस्य योगं सेवत सत्तमाः ॥ १ ॥
आसनं प्राणसंरोधः प्रत्याहारश्च धारणा ।
ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ।। २ ।।
आसनानि च तावन्ति यावन्तो जीवजन्तवः ।
एतेषां लक्षणं भेदं विजानाति महेश्वरः ।। ३ ।।
चतुराशीतिलक्षाणामेकमेकमुदाहृतम् ।
ततः शिवेन पीठानां षोडशानो शतं कृतम् ।। ४ ।
आसनेभ्यः समस्तेभ्यः द्वयमेव विशिष्यते ।
एकं स्वस्थासनं (सिद्धासनं) प्रोक्तं द्वितीयं कमलासनम् ।। ५॥
योनिस्थानैकमंघ्रिमूलघटितं कृत्वा दृढं विन्यसेत् ।
मेढ्रे पादमथैकमेव हृदये कृत्वा समं विग्रहं ।। ६ ।।
स्थाणुः संयमितेंद्रियोऽचलदृशो सश्चद्भु (पश्येद्भु) वोरन्तरम् ।
चैतन् मोक्षकवाटभेदजनकं सिद्धासनं प्रोच्यते ।। ७ ।।
वामोरूपरि दक्षिणं च चरणं विन्यस्य वामं तथा ।
नाम्यो (दक्षो)रूपरि पश्चिमेन घटिता धृत्वा कराभ्यां दृढम् ।। ८ ।।
अङ्गुष्ठ (ष्टौ) हृदये निधाय चिबुकं नासाग्रमालोकयेत् ।
एतद् व्याधिविकारहारि यमिनां पद्मासनं प्रोच्यते ।। ९ ।।
आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् ।
योनिस्थाने तयोर्मध्ये कामरूपं निगद्यते ।। १० ।।
आधाराख्ये गुदस्थाने पङ्कजं यच्चतुर्दलम्।
तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता ॥ ११ ॥