सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१वाय त छ।थ स ६४२ शमयः यः प्रातिभाव्यार्थमिवाजुहाव महाभुजः शत्रुनरेन्द्रकीर्तिम् ॥७३॥

                     अन्वयः

महाभुजः यः युधि सैन्यं साक्षिमात्रं विधाय दासीकृतायाः प्रतिपक्ष लक्ष्म्याः प्रातिभाव्याथम् इव शत्रुनरेन्द्रकीर्तितम् आजुहाव ।

                    व्याख्या

महान् भुजो बाहुर्यस्य स दीर्घबाहुर्यस्तैलपो नाम नृपो युधि युद्धे सैन्यं सेनां साक्षिमात्रं विधाय केवलं साक्षितामापाद्य स्वयमेव वासीकृताया वशीकृतायाः प्रतिपक्षाणां शत्रूणां लक्ष्म्याः श्रियः प्रतिभूः प्रतिलग्नकः (जामिन इति भाषायाम् ) तस्य भावः प्रातिभाव्यं तदर्थ शत्रवश्चते नरेन्द्राश्च राजानस्तेषां कीर्तिर्यशा आजुहा बाऽऽहूतवान् । शत्रुनरेन्द्रकीर्तराह्वाने प्रतिभाव्यस्य फलस्वेनोत्प्रेक्षणादुत्प्रेक्षा ।

                      भाष

उस तैलप राजा ने युद्ध में सेना को केवल साक्षिमात्र बना करे स्वयं अपने पराक्रम से शत्रुओं की राजलक्ष्मी को दासी बनाकर उसकी जमानत करने के लिये विपक्षी राजाओं की को कीर्ति अपने पास बुला लिया । अर्थात् शत्रुओो की राजलक्ष्मी के साथ ही उनकी कीर्ति भी छीन ली । है

श्रथ पञ्चभिः श्लोकैः सत्याश्रयं वर्णयति कवि 

चालुक्यवंशामलमौक्तिकश्रीः सत्याश्रयोऽभूदथ भूमिपालः ॥ खङ्गन यस्य भृकुटिञ्चैव द्विषां । कषालान्यपि चूर्णितानि ॥७४॥