पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री तैलप राजा के अनन्तर चालुक्य कुल में बांस के स्वच्छ मोती की कान्ति के समान तेजस्वी सत्याश्रय नाम का राजा हुवा जिसकी कुद्धावस्था की भ्रुकुति के क्रोध स्वरूप तलवार ने शत्रुओं के मस्तकों को भी चूर २ कर दिया । यस्येषवः संयुगयामिनीषु प्रोतप्रतिद्मापतिमौलिरत्ना:। गृहीतदीपा इव विन्दते स्म खङ्गान्धकारे रिपुचक्रवालम् ॥७५॥

                 अन्वयः
  सम्युगयामिनीषु यस्य प्रोतप्रतिक्ष्मापतिमोलिरत्ना: इषवः गृहीतदीपाः

इव खङ्गान्धकारे रिपुचक्रवालं विन्दते स्म ।

                  व्याख्या
  संयुगा युद्धान्येव यामिन्यो रात्रयस्तासु युद्धरात्रिषु ‘संप्रहाराभि-सम्पातकलि

संस्फोटसंयुगाः' इत्यमरः । यस्य राज्ञः सत्याश्रयस्य प्रोतान्यनुस्यूतानि प्रतिक्ष्मा पतीनां प्रतिपक्षभूपतीनां मौलिनां मुकुटानां रत्नानि मणयो येषु त इषवो बाणा गृहीता दीपा यैस्ते गृहीत-दीपा इब, बाणेषु शत्रूणां शिरोरत्नान्यनुस्यूतानि, रत्नकिरणैश्चान्धकाराभावः । खङ्ग एवाऽन्धकारः श्यामलत्वात्तस्मिन् रिपूणां शत्रूणां चक्रवालं मण्डलम् । ‘चक्रवालन्तु मण्डलम्' इत्यमरः । विन्दते स्म जानन्ति स्म अथवा विचारयन्ति स्म ‘विद विचारणे' इति रुधादिस्थस्य विद धातोरात्मने पदे लटि प्रथमपुरुषस्य बहुवचने ‘बिन्दते' इति रूपम् । अनुस्यूत राजमौलिरत्नेषु बाणेषु गृहीतदीपकस्य सम्भावनादुत्प्रेक्षा ।