सोमनाथान्निर्गत्य स दक्षिणदेशे चिरं बभ्राम । सेतुबन्धरामेश्वरदर्शनानन्तरं स कल्याणनगरं ययौ । तत्र लब्धविद्यापतिपदवीकः सः षष्ठ-विक्रमादित्यस्य चालुक्यवंशीयस्य सभां यावज्जीवं सम्भूषयति स्म ।
सर्वस्वं गृहवर्ति कुन्तलपतिगृह्णातु तन्मे पुन भण्डागारमखण्डमेव हृदये जागर्ति सारस्वतम् । रे क्षत्रास्त्यजत प्रमोदमचिरादेष्यन्ति मन्मन्दिरं हेलान्दोलितकर्णतालकरटिस्कन्धाधिरूढाः श्रियः ।। १ ।। अयि ! किमनिशं राजद्वारे समुदुरकन्धरे कुवलयदलस्निग्धे मुग्धे विभुञ्चसि लोचने । अमरमणीलीलावल्गद्विलोचनवागुरा विषयपतितो न व्यावृत्ति करिष्यति विल्हणः ।। २ ।।
उपर्युक्तं पद्यद्वयं काश्मीररासादित-चौरीसुरतपञ्चाशिकाग्रन्थे प्रारम्भ एवाऽस्ति । एताभ्यां पद्याभ्यां बिल्हणविक्रमादित्ययोः पूर्व कादाचित्कं वैमनस्यं द्योत्यते । प्राचीनराजसभापण्डिताः स्वभावत एव नूतनमहापण्डितप्रवेशे विरोधिनो भवन्तीति नेतदसम्भवम् ।
श्री कृष्णम्माचारियरमहोदयस्त्वेतदेव वैमनस्यं पाश्चात्कालिक विमृश्य महाकाव्यस्याऽस्याऽपूर्णत्वे कारणमिति कल्पयति । तन्मते वृष्टीये १०८५ वत्सरे विक्रमादित्यस्य नर्मदातटयात्राऽत्र न वर्णितेत्यस्याऽपूर्णत्वम् । परन्तु नैतन्महा काव्यमपूर्णम् । वृष्टीय १०८५ वर्षीया घटना महाकाव्यरचनानन्तरभूतेति तस्या अत्र । समावेशोऽसम्भवः । महाकाव्यं परिसमाप्यैवाऽन्तिमेऽष्टादशसर्गे महाकविना स्ववंशवर्णनं कृतमित्यपूर्णतायाः कल्पना निराधारैव ।
एवमेव 'इण्डियन एण्टिक्वेरी' पत्रसंपादकस्य “बिल्हणः श्लेषालङ्कारस्य