सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । वाली नाम मम भ्राता ज्येष्ठः शत्रुनिघूदनः । पितुर्बहुमतो नित्यं ममापि च तथा पुरा ॥ २ ॥ पितर्युपरैतेऽस्माकं ज्येष्ठोऽयमिति मत्रिभिः ।। कपीनामीश्वरो राज्ये कृतः परमसंमतः ॥ ३ ॥ राज्यं प्रशासतस्तस्य पितृपैतामहं महत् । अहं सर्वेषु कालेषु प्रेष्यवत्स्थित प्रणतः ४ ॥ मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः । तेन तस्य महद्वैरं स्वीकृतं विश्रुतं पुरा ॥ ५ ॥ स तु सुप्तजने रात्रौ किष्किन्धाद्वारमागतः ॥ नर्दति स्म सुसंरब्धो वालिनं चाहृयद्रणे ॥ ६ ॥ प्रसुप्तस्तु मम भ्राता नैर्दितं भैरवखनम् ॥ श्रुत्वा न ममृषे वाली निष्पपात जवात्तदा ॥ ७ ॥ स तु वै निःसृतः क्रोधात्तं हन्तुमसुरोत्तमम् ॥ वार्यमाणस्ततः स्त्रीभिर्मया च प्रणतात्मना ।। ८ ।। स तु निर्धय सैर्वान्नो निर्जगाम महाबलः । ततोऽहमपि सौहार्दान्निःसृतो वालिना सह ।। ९ ।। स तु मे भ्रातरं दृष्टा मां च दूरादवस्थितम् ॥ असुरो जातसंत्रासः प्रदुद्राव ततो भृशम् ॥ १० ॥ तमिन्द्रवति संत्रस्ते ह्यावां द्रुततरं गतौ । प्रकैौशश्च कृतो मार्गश्चन्द्रेणोद्वच्छता तदा ॥ ११ ॥ स तृणैरावृतं दुर्ग धरण्या विवरं महत् । प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ ॥ १२ ॥ तं प्रविष्टं रिपुं दृष्टा बिलं रोषवशं गतः ॥ मामुवाच तैदा वाली वचनं क्षुभितेन्द्रियः ॥ १३ ॥ इह त्वं तिष्ठ सुग्रीव बिलद्वारि समाहितः । यॉवत्तत्र प्रविश्याहं निहन्मि संहंसा रिपुम् ॥ १४ ॥ मया'त्वेतद्वचः श्रुत्वा याचितः स परंतपः । शापयित्वा तुं मां पद्भद्यां प्रविवेश बिलं महत् ।। १५ ।। तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः । स्थितस्य च मम द्वारि स कैलो व्यत्यवर्तत ।। १६ ॥ अहं तु नष्टं ज्ञात्वा तं ज्ञेहादागतसंभ्रमः ॥ भ्रातरं नेच पश्यामि पापाशङ्किः च मे मनः ।। १७ ।। अथ वाल्यपराधवृत्तान्तो नवमे । वालीनामेत्यादि-|सुप्तजनः । अर्धरात्र इत्यर्थः ।। ६ । भैरवखनं षड्विंशतिश्लोकाः ॥१-२॥ अयं ज्येष्ठः अत: कपीना- | भैरवखनरूपं । नार्दतं गर्दितं ।॥७-१०॥ उद्च्छता मीश्वरइति राज्ये कृतः स्थापितः ।। ३ । पितृपैतामहं |उद्यमानेन ।। ११ । आसाद्य बिलद्वारमिति स्वपितुः ऋक्षरजसः पित्राब्रह्मणातस्मैदत्तत्वात् ॥ ४ ॥ | शेषः ।। १२-१४ । याचितः सहंप्रवेशनमिति दुन्दुभेः पूर्वजः अग्रजः । सुतः मयस्येति शेषः । |शेषः । पद्भयां स्वपदाभ्यां । * श्लाघहुङ्थाशपां वक्ष्यत्युत्तरकाण्डे मय : “मायावी प्रथमस्तात दुन्दु-| ज्ञीप्स्यमानं: 'इतिचतुर्थी ।। १५ । तस्यप्रविष्टस्य भिस्तदनन्तरः? इति । तेन मायाविना तस्य | तस्मिन्प्रविष्ट । साग्रः संपूर्ण: । स कालः संवत्सरः । वालिनः । स्त्रीकृतं स्त्रीनिमित्तं । महद्वैरमस्तीति पुरा | ममापि संवत्सरो गत इत्यर्थः ।। १६ । अहंतंनष्ट विश्रुतं ।। ५ । सुप्तजने सुप्तः जनोयमित्रात्र्यंशे स | ज्ञात्वा साग्रसंवत्सरमदृष्टंबुद्धा । रुन्नेहादागतसंभ्रमो ति० पितुः क्षेत्रिणः । मात्रैक्याचभ्रातृवंभीमार्जुनादिवत् ॥ स०पुरा कलहात् ॥२॥ ति०पितृपैतामहं आर्षत्वादुत्तरपदवृद्धिः ॥४॥ ति० मायावीयन्वर्थनाम । पूर्वज: ज्येष्ठः । स्त्रीकृतं स्रीनिमित्तं । अयमितिहासः कचित्पुराणेशोधनीयोबहुदर्शिभिः ॥५॥ ति० तृणैरावृतं छन्ने । विवरं बिलं । आसाद्य प्राप्य । विष्ठितौ स्थितैौ ॥ १२ ॥ स० क्षुभितेन्द्रियः परिवृत्तनेत्रादिः ॥ १३ ॥ ती० याचितः वालिनासहृबिलप्रवेशनमितिशेषः । शापयित्वातुमाँपश्यामिति बिलद्वार्येवतिष्ठामिनानुव्रजामीतिखपादस्पर्श नपूर्वकंशपर्थमयाकारयिखेत्यर्थः ॥१५॥ स० पापशङ्कि पापजन्यमरणशङ्कि । शि० पापशङ्कि पापात् पापिनोमायाविनः शङ्कते खभ्रातृकर्मकवर्धसंभावयतितच्छीलं । मेमनोजातमितिशेषः । अतएव तंभ्रातरंनष्टं हिंसितंज्ञात्वा लेहात् तद्विषयकातिप्रीतेर्हेतोः । [ पा०] १ क. ग. शत्रुनिबर्हणः. ख. शक्रनिघूदनः. २ क. ग. ड. च. छ. झ. श. ट. ममचापि. ३ छ. झ• ट रतेतस्मिन् ४ ड. परमसत्तमः. ५ झ. ट. वालिनःस्रीकृतंपुरा. ६ झ. ट. सुतेजने. ७ ड. झ. म. ट. नर्दती- ८ ख. निर्गत ९ क. ग. ड .-ट. तास्सर्वानिर्जगाम. १० ग. डः -ट. तदा. ११ छ. झ. ट. प्रकाशोपि. क.ङ. प्रकाशोहेि. १२ ज. तिष्ठतौ १३ ख. घ. ड. च. ज.-ट. ततो. १४ घ.-ट. तिष्ठाद्य. १५ क. ग. ड.-ट. यावदत्र. १६ क. ख. डः .--ट. समरे. १७ छ .-ट. समां. ख. ड. चमां. १८ ड.-ट, ततः. १९ छ. झ. ट. बिलंद्वारि. २० ख. घ. ज. कालोप्यत्यवर्तत. २१ क. ड. छ.-ट. तंज्ञात्वा . २२ क. ग. ड. छ.-ट. नप्रपश्यामि. ख. नहिपश्यामि. घ. तुनपश्यामि