१४
वल्मीकाग्रात् प्रभवति धनुःखण्डमाखण्डलस्य ।
येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते
रत्नेति । रत्नच्छायाव्यतिकर इति पाठः । वल्मीकाग्रात् प्रभवति, तदन्तर्गतसर्पशिरोरत्नच्छायाव्यतिकर इव प्रेक्षणीयं घनुःखण्डं वल्मीकाग्रात् प्रभवतीत्यर्थः । वल्मीकाग्रादिन्द्रघनुषः प्रादुर्भाव उक्तः संहितायां --
वल्मीके शस्त्रभयं निशि सचिववधाय धनुरैन्द्रम् ॥"
इति । अनेनार्थेनापि निमित्तं सूचितम् । तथाह महायात्रायां --
इति ॥ १५ ॥
प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः ।
सद्यःसीरोत्कषणसुरभि क्षेत्रमारुह्य मालं
त्वय्यायत्तमिति । अत्रेदमनुसन्धेयं – रामगिरेरुत्तरतः केचिद् देवमातृका जनपदाः सन्ति । तत्रत्याः स्त्रियः पामर्यः ! तस्मात् ता सां स्त्रीणां भ्रूविलासानभिज्ञत्वमुक्तम् । सद्यःसीरोत्कषणसुरभि, इदमारोहणक्रियाविशेषणम् । वर्षानन्तरं हलोत्कर्षणसुरभिगन्धमित्यर्थः । मालं पर्वतप्रायमुन्नतस्थलम् । तयोत्पलमालायां --
माला पुष्पादिबन्धे स्यान्मालमुन्नतभूतलम् ॥"
इति । मालयोगान्मालव इति प्रसिद्धो देशः । आरुह्येत्यनेनापि तस्योन्नतत्वं प्रतीयते । लघुगतिः, मालक्षेत्रे वृष्टिविसर्जनाल्लघुगतिरित्यर्थः । मालेन पश्चाद्गमनं तदुत्तरेण गमनं चाम्रकूटाख्ये पर्वते विश्रान्त्यर्थमुक्तमित्यवसेयम् ॥१६॥
१५
तामेव विश्रान्तिमाह --
वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः ।
न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय
त्वामासारेति । अनेन प्रथमोपकारः सूचितः । आसारो धारासम्पातः । मूर्ध्ना शिखरेण शिरसापीति ध्वन्यते । वक्ष्यति, वहतेरिदं रूपम् । अध्वश्रमपरिगतम् अध्वश्रमेण परिक्षीणगमनमिति व्याचक्षते । मद्वहने किं कारणमित्याशङ्क्याह -- न क्षुद्रोऽपीति । संश्रयाय निवासाय । तथोच्च इति, हृदयस्थिततद्वैभवानुसन्धानेन तथाशब्दः प्रयुक्तः। क्षुद्रोऽपि स्वस्मिन् संश्रयाय मित्रे प्राप्ते प्रथमसुकृतापेक्षया विमुखो (न) भवति । तथोञ्चः किं पुनरित्यर्थः ॥ १७ ॥
स्त्वय्यारूढे शिखरमचलः सर्पषेणीसवर्णे ।
नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां
छन्नेति । छन्नोपान्तः छादितपर्यन्तः । परिणतफलद्योतिभिः परिणतफलपाण्डुवर्णोज्ज्वलैः । पाण्डुवर्णत्वं च हरिणसमानवर्णत्वं, न तु श्वैत्यम् । आम्रफलानमनेकवर्णत्वात् ।
इति श्रीरामायणवचनदर्शनात् । अनेन वर्षासु काननाम्राः फलन्तीति सूचितम् । सर्पवेणीसवर्णे । वेणी केशबन्धः । सर्पस्य वेणी सर्पस्य वेष्टनम् । वर्णतः संस्थानतश्च सर्पवेणीसमान इत्यर्थः
मण्डले कृष्णसर्पाणां सर्पवेणी निगद्यते ॥"