सिड़ावाच्च न साध्यम् । यतः ।
सामान्येतररूपाभ्यां कममैवास्य योगिनः ।
निःश्वासोच्छासवतस्मान्न नियोगमपेक्षते ॥ ७७ ॥
अस्त ताहिँ भिन्नाभिन्नात्मकं ब्रह्म तयाच सति ज्ञानकर्मणी सम्भवतो भेदाभेदविषयावातयोः । तत्र तावदयं
पक्ष एव न सम्भवति । किं कारणम् । नहि भिन्नोऽयमित्यभेदबुद्धिमनिराकृत्य भेदबुद्धिः पदार्थमालिङ्गते ।
एवं ह्यनभ्युपगमे भिन्नाभिन्नपदार्थयोरलौकिकावं प्रसज्येत । अथ निष्प्रमाणवकमप्याश्रीयते । तदप्यूभयपक्षाभ्युपगमादभेदपक्षे दुःखि ब्रह्म स्यादत आह ।
विदुषः कर्मासम्भवे हेत्वन्तरमाह सिद्धत्वाचेति । विदुषः स्वरूपतया नित्यसिद्धत्वाच्च कर्मणो न नियोगसाध्यत्वमित्यर्थः । कथं स्वरूपतया सिद्धिरित्यत आह यतः सामान्येति । सर्व वस्तु सामान्यविशेषयोरन्तर्भतं ततश्च कर्मणोऽपि सामान्यान्तःपातित्वं विशेषान्तःपातित्वं वा स्यात् । सामान्यविशेषयोश्च ब्रह्मस्वरूपत्वात्तदात्मकत्वाञ्ध विदुषः कर्मापि तस्य स्वरूपमेव ततश्चासाध्यत्वादेव न नियोगविषयत्वम् । तदनुष्ठानं दूरत एव समुच्चयस्तु ततोऽाप दूरतर एव तस्माद्नैकान्तिकपक्षे दुरुपपादः समुच्चय इत्यर्थः ॥ ७७ ॥
एवमभेदपक्षे निराकृते पुनर्भेदाभेदपक्षमुत्थापयति तस्य स्वरूपेणैवासम्भवं दर्शयितुं अस्तु तहति । उत्तेऽर्थे कर्मज्ञानकाण्डयोः प्रामाण्यानुपपत्तिः प्रमाणमित्याह तथा च सतीति । अभेदं विना ब्रह्माहमस्मीति ज्ञानानुपपत्तेभेदं विना चानेककारकसाध्यकर्मानुपपत्तेश्च भिन्नाभिन्नात्मकं ब्रहोत्यर्थः । तिष्ठतु तावद्रह्मणो भिन्नाभिन्नत्वं लोकेऽप्ययं पक्षो न सम्भवतीत्याह तत्र तावदिति । ननु सन् घटः शुकः पटो मृच्छरावो दण्डी देवदत्त इत्यादौ सामान्यविशेषद्रव्यगुणादीनां सामानाधि-