पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७
प्रथमोऽध्यायः ।

 भिन्नाभिन्नं विशेषैश्रेडुःखि स्याब्रह्म ते धुवम् ।
 अशेषदुःखिता च स्यादहो प्रज्ञामवादिनाम् ॥७६ ॥
तस्मात्सम्यगेवाभिहितं न ज्ञानकर्मणोः समुच्चय इत्युपसंहियते ।
 तमोऽङ्गत्वं यथा भानोरः शीताङ्गता यया ।
 वारिणश्रोष्णता यद्वज्ज्ञानयैवं क्रियाङ्गता ॥ ७९ ॥


करण्यमत्यन्तमभेदे भेदे च घटोऽश्वो महिष इत्यादावदर्शनादनुपपद्यमानं भिन्नाभिन्नत्वं कल्पयतीति शङ्कते किं कारणमिति । तर्हि वक्तव्यमभेद इत्यत्र किं भेदाभावः किंवा भेदविरोधी किंवा भेदाद्न्योऽभिधीयत इति । न तावदाद्यौ तथा सति भेदाभेद्योरेकत्र युगपत्समावेशानुपपत्तेः । नापि तृतीयः रूपरसादीनामपि भेदादन्यत्वेनाभेदत्वप्रसङ्गात् । एवंविधभेदाभेद्योरभ्युपगमे चालौकिकत्वप्रसङ्गात्सामानाधिकरण्यप्रत्ययस्य कल्पितभेदेनापि सोऽयं देवदत्तः खं छिद्रमित्यादाविव सम्भवादित्यभिप्रेत्योपसंहरति न हि भिन्नोऽयमिति । भेदबुद्धिरभेदबुद्धिमनिराकृत्य न हि पदार्थमालिङ्गत इत्यर्थः । अस्तु यथा तथा लोके ब्रह्मणि पुनर्भिन्नाभिन्नत्वं सर्वथैवानुपपन्नमित्याह अथ निष्प्रमाणकमपीत्यादिना । भिन्नाभिन्नत्वं विशेषेश्धेदित्यत्र सामान्येन चेति पदद्वयमध्याहर्तव्यम् । न केवलं दुःखित्वमात्रं किंतु सर्वजीवाभेदात्तद्रतमखिलमपि दुःखित्वं ब्रह्मगतमेवेति तत्प्राप्तिरनर्थायैव स्यादिति सोपहासमाह अशेषेति । स्वाश्रितदुःखानुभव एव जीवानां ब्रह्मणस्त्वशेषजीवाश्रितदुःखानुभवप्रसङ्गान्महत्तरः संसारः स्यात्ततश्च संसारेियोऽपि हीनं ब्रह्म भवेत् । अहो माहात्म्यं प्रज्ञायाः ।

 नमोऽस्तु ब्रह्मवादिभ्यः क्षपणकशिष्येभ्य इत्यर्थः ॥ ७८ ॥ तमोऽङ्गत्वमिति । शानस्य कर्माङ्गत्वाभावे कर्मणश्च शानाङ्गत्वाभावे समसमुच्चयाभावे च दृष्टान्तत्रयमिति द्रष्टव्यम् । क्रियाङ्गतेत्यत्र क्रियां प्रत्यङ्गता क्रियाङ्गमस्येत्युभयथा द्रष्टव्यम् ॥ ७९ ॥