गौडपादीयकारिकाः। अकारो नयते विश्वमुकारश्चापि तैजसम् । मकारश्च पुनः प्राज्ञं नामात्रे विद्यते गतिः ॥ २३ ॥ (२३) अन्वयः--अकारः विश्वं नयते, उकारः च अपि तैजसं (नयते), मकारः च पुनः प्राज्ञं (नयते); अमात्रे गतिः न विद्यते। [ अमात्रश्चतुर्थोऽन्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोङ्कार आत्मैव संविशत्यात्मनात्मानं य एवं वेद ॥ १२ ॥] (अत्रैते श्लोका भवन्ति) ओंकारं पादशो विद्यात्पादा मात्रा न संशयः। ओंकारं पादशो ज्ञात्वा न किंचिदपि चिन्तयेत् ॥ २४ ॥ (२४) अन्वयः--ओंकारं पादशः विद्यात् , पादाः मात्राः [ सन्ति, अत्र] न संशयः; ओंकारं पादशः ज्ञात्वा किंचित् अपि न चिन्तयेत् । युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् । प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ॥ २५ ॥ (२५) अन्वयः---प्रणवे चेतः युञ्जीत; प्रणवः निर्भयं ब्रह्म प्रणवे नित्ययुक्तस्य क्वचित् भयं न विद्यते। (23) The syllable A leads on to Visva and the syllable U as well, to Taijasa, and the syllable M again to Prăjña. There is no course towards what has no [ syllabic ] portions. (24) One should know the letter (or, sound ] Om, quarter by quarter; the quarters ( are ) the syllabic ] portions, no doubt. Having known the Omkāra, quarter by quarter, one should meditate upon nothing [ else ] whatever. ( 25 ) One should fix the mind upon Praņava [ the syllable Om ]; Prarava [ is ] Brahman void of fear ; for him ever fixed upon Pranava, there is no fear anywhere,
पृष्ठम्:गौडपादकारिका.pdf/६७
दिखावट