पिङ्गलछन्दःसूत्रम्/द्वितीयोऽध्यायः

विकिस्रोतः तः
← अध्यायः १ पिङ्गलछन्दःसूत्रम्
अध्यायः २
अध्यायः ३ →

<poem> छन्दः । २.१ ।

गायत्री । २.२ ।

दैव्येकम् । २.3 ।

आसुरी पञ्चदश । २.४ ।

प्राजापत्याष्टौ । २.५ ।

यजुषां षट् । २.६ ।

साम्नां द्विः । २.७ ।

ऋचां त्रिः । २.८ ।

द्वौ द्वौ साम्नां वर्धेत । २.९ ।

त्रींस्त्रीनृचाम् । २.१० ।

चतुरश्चतुरः प्राजापत्यायाः । २.११ ।

एकैकं शेषे । २.१२ ।

जह्यादासुरी । २.१3 ।

तान्युष्णिगनुष्टुब्बृहती पंक्ति त्रिष्टुब्जगत्यः । २.१४ ।

तिस्रस्तिस्रस्सनाम्न्य एकैका ब्राह्म्यः। २.१५ ।

प्राग्यजुषामार्ष्य इति।। । २.१६ ।