पाराशरगीता १
२७९
[य्]
अतः परं महाबाहो यच्छ्रेयस्तद्वदस्व मे।
न तृप्याम्यमृतस्येव वससस्ते पितामह॥१॥
किं कर्म पुरुषः कृत्वा शुभं पुरुषसत्तम।
श्रेयः परमवाप्नोति प्रेत्य चेह च तद्वद॥२॥
[भी]
अत्र ते वर्तयिष्यामि यथापूर्वं महायशः।
पराशरं महात्मानं पप्रच्छ जनको नृपः॥३॥
किं श्रेयः सर्वभूतानामस्मिँल्लोके परत्र च।
यद्भवेत्प्रतिपत्तव्यं तद्भवान्प्रब्रवीतु मे॥४॥
ततः स तपसा युक्तः सर्वधर्माविधानवित्।
नृपायानुग्रह मना मुनिर्वाक्यमथाब्रवीत्॥५॥
धर्म एव कृतः श्रेयानिह लोके परत्र च।
तस्माद्धि परमं नास्ति यथा प्राहुर्मनीषिणः॥६॥
प्रतिपद्य नरो धर्मं स्वर्गलोके महीयते।
धर्मात्मकः कर्म विधिर्देहिनां नृपसत्तम।
तस्मिन्नाश्रमिणः सन्तः स्वकर्माणीह कुर्वते॥७॥
चतुर्विधा हि लोकस्य यात्रा तात विधीयते।
मर्त्या यत्रावतिष्ठन्ते सा च कामात्प्रवर्तते॥८॥
सुकृतासुकृतं कर्म निषेव्य विविधैः क्रमैः।
दशार्ध प्रविभक्तानां भूतानां बहुधा गतिः॥९॥
सौवर्णं राजतं वापि यथा भान्दं निषिच्यते।
तथा निषिच्यते जन्तुः पूर्वकर्म वशानुगः॥१०॥
नाबीजाज्जायते किं चिन्नाकृत्वा सुखमेधते।
सुकृती विन्दति सुखं प्राप्य देहक्षयं नरः॥११॥
दैवं तात न पश्यामि नास्ति दैवस्य साधनम्।
स्वभावतो हि संसिद्धा देवगन्धर्वदानवाः॥१२॥
प्रेत्य जातिकृतं कर्म न स्मरन्ति सदा जनाः।
ते वै तस्य फलप्राप्तौ कर्म चापि चतुर्विधम्॥१३॥
लोकयात्राश्रयश्चैव शब्दो वेदाश्रयः कृतः।
शान्त्यर्थं मनसस्तात नैतद्वृद्धानुशासनम्॥१४॥
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्।
कुरुते यादृशं कर्म तादृशं प्रतिपद्यते॥१५॥
निरन्तरं च मिश्रं च फलते कर्म पार्थिव।
कल्यानं यदि वा पापं न तु नाशोऽस्य विद्यते॥१६॥
कदा चित्सुकृतं तात कूतस्थमिव तिष्ठति।
मज्जमानस्य संसारे यावद्दुःखाद्विमुच्यते॥१७॥
ततो दुःखक्षयं कृत्वा सुकृतं कर्म सेवते।
सुकृतक्षयाद्दुष्कृतं च तद्विद्धि मनुजाधिप॥१८॥
दमः क्षमा धृतिस्तेजः सन्तोषः सत्यवादिता।
ह्रीरहिंसाव्यसनिता दाक्ष्यं चेति सुखावहाः॥१९॥
दुष्कृते सुकृते वापि न जन्तुरयतो भवेत्।
नित्यं मनः समाधाने प्रयतेत विचक्षणः॥२०॥
नायं परस्य सुकृतं दुष्कृतं वापि सेवते।
करोति यादृशं कर्म तादृशं प्रतिपद्यते॥२१॥
सुखदुःखे समाधाय पुमानन्येन गच्छति।
अन्येनैव जनः सर्वः सङ्गतो यश्च पार्थिव॥२२॥
परेषां यदसूयेत न तत्कुर्यात्स्वयं नरः।
यो ह्यसूयुस्तथायुक्तः सोऽवहासं नियच्छति॥२३॥
भीरू राजन्यो ब्राह्मणः सर्वभक्षो वैश्योऽनीहावान्हीनवर्णोऽलसश् च।
विद्वांश्चाशीलो वृत्तहीनः कुलीनः सत्याद्भ्रष्टो ब्राह्मणः स्त्री च दुष्टा॥२४॥
रागी मुक्तः पचमानोऽऽत्महेतोर् मूर्खो वक्ता नृप हीनं च रास्त्रम्।
एते सर्वे शोच्यतां यान्ति राजन् यश्चायुक्तः स्नेहहीनः प्रजासु॥२५॥