पातञ्जलयोगसूत्रभाष्यविवरणम्/समाधिपादः

विकिस्रोतः तः

श्रीः

॥ पातञ्जलयोगसूत्रभाष्यविवरणम् ॥

॥ साधनपादो द्वितीय: ॥

[ व्यासभाष्यम् ]

 उद्दिष्टः समाहितचित्तस्य योगः । कथं व्युत्थितचित्तोऽपि योगयुक्तः स्यादित्येतदारभ्यते--

[ पातञ्जलयोगसूत्रम् ]

तपस्स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ १ ॥

[ विवरणम् ]

 अथेदानीं द्वितीयः साधनपाद आरभ्यते । कैवल्यस्य साधनं सम्यग्दर्शनम् । योगसाधनानि च योगद्वारेण सम्यग्दर्शनसाधनान्येव । तानि च प्राधान्येनास्मिन्पादे प्रतिपाद्यन्त इति साधनपाद इत्युच्यते ॥

 तथा, योगसाधनानुष्ठानप्रवृत्तस्यानुषङ्गिकविभूतेः प्राधान्येन प्रतिपादनाद्विभूतिपाद इत्युच्यते तृतीयः ॥

 तथा, सकलयोगैश्वर्यविभूतिभ्यो विरक्तस्य सर्वोपसंहारद्वारेण कैवल्यस्य प्राधान्येन प्रदर्शनात् कैवल्यपाद इत्युच्यते चतुर्थः ॥

 तथा, समाधिः प्राधान्येनादावुपाख्यात इति प्रथमः समाधिपाद इत्युच्यते ॥

 तदेतदाह--उद्दिष्टः समाहितचित्तस्य योग इति--कर्मण्यचित्तस्येत्यर्थः । मैत्रीकरुणादिभावनाद्युपा(ख्या)यलब्धस्थितिपदस्य योगिनः परवैराग्यविरामप्रत्ययसाधनो निर्बीजः समाधिरुद्दिष्टः । कथं व्युत्थितचित्तोऽपि योगयुक्तः स्यादिति । विक्षिप्तचित्तोऽपि कथं नाम समाधियोग्यो भवेदित्यत इदमारभ्यते ।

 तपआदिसाधनमनुक्रम्यते--तपस्स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ।

 ननु च तपस्स्वाध्यायेश्वरप्रणिधानानि नियमेषु वदिष्यमाणानि किमर्थमिहोच्यन्ते ॥  ननु चैतदेव प्रयोजनं--यदुक्तं व्युत्थितचित्तोऽपि योगयुक्तः स्यादिति ॥

 नैतदस्ति--यत्र नियमाः पठ्यन्ते तत्रैवेदं प्रयोजनं सिध्यति ॥

 अथ क्लेशतनूकरणार्थमिति चेन्न--तस्यापि तत्रैवाभिधानात् । यथा [१]"योगाङ्गानुष्ठानादशुद्धिक्षये"इति । अशुद्धिश्च क्लेशादिः । समाधिभावनार्थञ्च योगाङ्गानुष्ठानमाम्नायिष्यत एव । यथा "[२]समाधिसिद्धिरीश्वरप्रणिधानात्"इति । तस्मादिह तपआदिसमाम्नानमनर्थकम् ॥

 न--योगाङ्गानुष्ठानस्य सम्यग्दर्शनोपायस्य सम्यग्दर्शनपूर्वत्वप्रतिपादनार्थत्वात् । सर्वाणि च योगाङ्गानि सम्यग्दर्शनोपायत्वात्सम्यग्दर्शनप्राक्कालानि । तेषां च नियमैकदेश इह पठितः सर्वोपायप्राक्कालत्वे निदर्शनाय । यद्यप्युपायत्वादेव प्राक्कालत्वमर्थात्सिद्धम्, तथाऽपि स्पष्टत्वमेवं सति स्यादिति ॥

 ननु चैवमपि प्राक् सम्यग्दर्शनादनन्तरं पठितव्यम्--उच्यते--न--सम्यग्दर्शनस्यैव साक्षात्क्लेशादिप्रतिपक्षत्वात् । अविद्या हि समस्तानर्थमूलम् । सा च साक्षात्प्रत्यनीकभूतसम्यग्दर्शनेन निवर्त्यते । तपआदेस्तदनन्तरं पाठे सत्यविद्यासम्यग्दर्शनयोर्व्यवधानं भवेत् । ततोऽभिशंकेन--किं अविद्यायास्तपआदिः साक्षात्प्रतिपक्षः ? किं वा सम्यग्दर्शनमेवेति ॥

 किञ्च--विषयश्च प्रथमं दर्शनीयः सम्यग्दर्शनशास्त्रस्य । स च क्लेशकर्मविपाकाशयाभिभूतः पुरुषः । यथा रोगार्तः चिकित्साशास्त्रस्य विषयः । तपआदेस्तदनन्तरं समाम्नाने विषयविषयिणौ व्यवधीयेयातां, ततश्चायं विषयोऽयञ्च विषयीति न विविच्येत ॥

 पादादौ च पाठे सम्यग्दर्शनोपायत्वं च प्रतिपादितं भवति, प्रथमपादसम्बन्धश्च व्याख्यातः स्यात्--समाहितचित्तस्य योग उद्दिष्टः, व्युत्थितचित्तोऽपि तपआदिसाधनः कथं योगयुक्तः स्यादिति ॥

 किञ्च--समाधिभावनक्लेशतनूकरणार्थत्वञ्च तपआदीनां दर्शयितव्यम् ॥




[ भाष्यम् ]

 नातपस्विनो योगः सिद्ध्यति । अनादिकर्मक्लेशवासनाचित्रा प्रत्युपस्थितविषयजाला चाशुद्धिः ।

[ विवरणम् ]

 ननु परस्तादेवैतद्वक्ष्यति--"समाधिसिद्धिरीश्वरप्रणिधानात्[३]" "कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः[४]" इत्येवम् । प्रत्येकसाधनानां सिद्धिं च वक्ष्यति ॥

 नैतदस्ति--सिद्धानामिह तत्र साधनस्तुत्यर्थमनुवादात् । अत्र हि तादर्थ्यमुच्यते । तथा चाह--"समाधिभावनार्थः क्लेशतनूकरणार्थश्च[५]" इति । तत्र ह्यनूद्यन्ते साधनस्तुतये ॥

 सम्प्रति सूत्राक्षराणि व्याख्यायन्ते--तपश्च स्वाध्यायश्चेश्वरप्रणिधानञ्च तपस्स्वाध्यायेश्वरप्रणिधानानि । तान्येव क्रियारूपो योगः क्रियायोगः । तपआदिक्रिया च योगार्थत्वाद्योग इत्युच्यते । चित्तधर्मो हि समाधिर्योगः । तदर्थश्चायं क्रियायोगः । तस्मादनेन क्रियायोगेन योगीति ॥

 तप इति कृच्छ्रचान्द्रायणादि, शीतोष्णादिद्वन्द्वसहत्वम् । स्वाध्यायः--प्रणवस्य मोक्षशास्त्राणां चोपनिषत्प्रभृतीनां पवित्राणां जपः । "ईश्चरप्रणिधानं--क्रियाणां परमगुरावीश्वरे समर्पणम् । तासां वा फलसंन्यासः परमेश्वरे संन्यसनम् ॥

 कथं पुनश्चित्तसमाधानं प्रति विप्रकृष्टस्य कायक्लेशादिरूपस्य तपसो योगत्वम् ? स्वाध्यायेश्वरप्रणिधानयोस्तु युक्तमन्तरङ्गत्वाद्योगत्वमिति, तदर्थमाह--नातपस्विनो योगः सिध्यतीति ॥

 शरीरादिपोषणाभिरतचित्तस्य कायेन्द्रियमनःखेदपरिहारपरायणस्यात्यन्तशरीराद्यात्मत्वदर्शिनः सुकुमारतरंमन्यस्य न योगः सिध्यतीति तपस उपादानम् ॥

 किञ्च--अनादिवासनाचित्रा--विषयग्रहणवासनाभिरनादिकालभिरुपरचितविचित्रभावा । तथा प्रत्युपस्थितविषयजाला--वर्तमानकाला विषया एव जाले, तेन च वर्तमानविषयाख्येन जालेन आनायेन झषानिव चित्तं अशुद्धिः पाशयति या सा प्रत्युपस्थितविषयजाला सती यस्मात्


[भाष्यम् ]

नान्तरेण तपः सम्भेदमापद्यत इति तपस उपादानम् । तच्च चित्तप्रसादनमबाधमानमनेनासेव्यमिति मन्यते ।

 स्वाध्यायः प्रणवादिपवित्राणां जपः, मोक्षशास्त्राध्ययनं वा । ईश्वरप्रणिधानं सर्वक्रियाणां परमगुरावर्पणं, तत्फलसंन्यासो वा ॥ १ ॥  स हि क्रियायोगः

[ सूत्रम् ]

समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ २ ॥

[ भाष्यम् ]

 स ह्यासेव्यमानः समाधिं भावयति, क्लेशांश्च प्रतनूकरोति । प्रतनूकृतान् क्लेशान् प्रसंख्यानग्निना दग्धबीजकल्पानप्रसवधर्मिणः करिष्यतीति ।

[ विवरणम् ]

नान्तरेण तपः तपसा विना सम्भेदं विनाशम् आपद्यते, असम्भिन्नाशुद्धेश्चित्तस्य कुतः समाधिः इति तत्सम्भेदनाय च तपस उपादानम् । तच्च तपः चित्तप्रसादनं समाध्यन्तरङ्गं अबाधमानमनेनासेव्यमिति योगो मन्यन्ते । चित्तप्रसादार्थत्वात्तपसस्तमेव चेद्बाधेत तादर्थ्यमेव हीयेत ॥ १ ॥

 स हि क्रियायोगः किमर्थं इति तस्य पारार्थ्यप्रतिपादनार्थमाह--समाधिभावनार्थः क्लेशतनूकरणार्थश्च

 कथं पुनरुभयार्थत्वमित्याह--स हि आसेव्यमानः समाधिं भावयति । इतरयोगाङ्गसहितः समाधिं भावयति क्लेशांश्च तनूकरोति । वक्ष्यति च--"[६]योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः" इति । तदेतदाह--तनूकृतान्क्लेशान्प्रसंख्यानेन क्लेशतनूकरणात् सञ्जातसम्यग्दर्शनशीलनेन, दग्धबीजकल्पान् बीजानीव दग्धप्रसवशक्तीन्, अत एव अप्रसवधर्मिणः अविद्यमानः प्रसवो येषां ते अप्रसवाः, अप्रसवाश्च ते धर्मिणश्चेत्यप्रसवधर्मिणः, (सर्वबीजादिषु वा द्रष्टव्यम्) तानप्रसवधर्मिणः करिष्यति प्रसवशक्तिरहितान् करिष्यति ॥  तेषां तनूकरणात्पुनः क्लेशैरपरामृष्टा सत्वपुरुषान्यतामात्रख्यातिः सूक्ष्मा प्रज्ञा समाप्ताधिकारा प्रतिप्रसवाय कल्पिष्यत इति ॥ २ ॥

 अथ के ते क्लेशाः ? कियन्तो वा ? इति--

[ सूत्रम् ]

 

॥ अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ ३ ॥

[ विवरणम् ]

 तेषां तनूकरणानुजन्मा पुनः क्लेशैरपरामृष्टा सत्वपुरुषान्यतामात्रख्यातिः समाप्ताधिकारा प्रज्ञा प्रतिप्रसवाय [कल्पिष्यते] संसाराभिमुखतायै पुनर्न कल्पिष्यते ॥

 यद्यपि शास्त्राचार्योपदेशेन योगाङ्गानुष्ठानादृतेऽपि सत्वपुरुषान्यतामात्रख्यातिरुपजायते, तथाऽपि न क्लेशाधर्मादीनतीवातिरस्कृत्य सा जायेतेति पुनः पुनः क्लेशादिभिः परामृश्यत इत्येतद्दर्शयति पुनः क्लेशैरपरामृष्टेत्यनेन ॥ २ ॥

 के ते क्लेशाः स्वरूपेण, कियन्तो वा संख्यया इति संख्यास्वरूपप्रतिपादनार्थं सूत्रं प्रणीयते-- अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाःएषामेकैकस्य लक्षणं सूत्रैरेव व्याख्यायिष्यत इति [न] व्याख्येयत्वे यत्नः क्रियते, व्याख्येयं त्वेतावदेव ॥

 यथा प्रमाणविपर्ययविकल्पादयः परस्परभिन्नाः, न तथा क्लेशानां विपर्ययाद्भेदः । केिन्तर्हि ? विपर्ययस्यैवैते भेदा इति । कस्मात् ? विपर्ययभावभावित्वादित्येतदाह--पञ्च विपर्यया इत्यर्थः ॥

 ननु च यथा वृत्तिभेदव्याख्याने प्रमाणवृत्तेः "[७]प्रत्यक्षानुमानागमाः प्रमाणानि" इति त्रिधा भेदस्तत्रैव व्याख्यातः, तथा कस्मात्तत्रैवास्य विपर्ययस्यापि भेदः पञ्चधा नोपव्याख्यातः ? चित्तवृत्तिरेव च विपर्यय इत्युक्तम् । तथा चोदाहृतं, "सद्विषयेणैकचन्द्रदर्शनेन द्विचन्द्रदर्शनं बाध्यते इति ॥

[ भाष्यम् ]

 क्लेशा इति पञ्च विपर्यया इत्यर्थः । ते स्पन्दमाना गुणाधिकारं द्रढयन्ति, परिणाममवस्थापयन्ति, कार्यकरणस्रोत उन्नमयन्ति, परस्परानुग्रहतन्त्रीभूत्वा कर्मविपाकञ्चाभिनिर्हरन्तीति ॥ ३ ॥

[ विवरणम् ]

 नैष दोषः--क्लेशानामवृत्तित्वात् । न हि क्लेशाः प्रत्ययमात्राः, प्रत्ययमात्रा हि वृत्तयः । क्लेशास्तु चित्तस्य मलं, यथा चक्षुषस्तिमिरम् ।क्लेशमलवियोगे चित्तस्य विपर्ययप्रत्ययाभावात् ॥

 यदि हि प्रत्यय एव विपर्ययः, तदा यथा क्लेशनिरोधेऽपि योगिनः स्मृतिप्रमाणप्रत्ययाः भवन्ति, तथा विपर्ययोऽपि भवेत् । न तु विपर्ययः क्षीणक्लेशानाम् । तस्माच्चक्षुष इव अयथार्थग्रहणनिमित्तं प्रत्ययस्य मलं विपर्यय इत्युच्यते ॥

 तत्पुनः प्रत्ययव्यतिरेकेण प्रतिपत्तुमाख्यातुं चाशक्यमिति प्रत्ययेनैवाख्यायते 'विपर्ययो वृत्तिः'इति । तथा च वृत्तयः क्लिष्टाक्लिष्टश्चेति क्लेशेन विशेषिताः । न च वृत्तिभिरेव वृत्तीनां विशेषणं युक्तम् । तथा 'क्लेशहेतुका' इति च व्याख्यातम् । न च वृत्तय एव वृत्तिहेतुका इति युक्तम् ॥

 तस्माच्चावृत्तित्वाद्वृत्तिभेदत्वेन न तत्र क्लेशा व्याख्याताः । तथा चोक्त्तम्--"चित्तमलप्रसङ्गेनभिधायिष्यन्ते इति क्लेशानां न वृत्तित्वं, मलत्वमेवेत्यभिप्रायेण । अभेदोपचारेण तु प्रत्ययेन सामानाधिकरण्यं, यथा धूमो मलैरग्निं गर्भादशान्तवृत्तास्तथा ज्ञानमेतेनेति, (?) तथैवात्रापि ॥

 प्रत्ययविपरीतत्वमाह--ते स्पन्दमाना इत्यादिना । स्पन्दमानाः प्रत्ययद्वारेणोद्भासमानाः, न हि स्वतस्तेषाञ्चलनमस्ति, वस्त्रादिरागवत् ।गुणाधिकारं द्रढयन्ति गुणानामधिकारं प्रवृत्तिं (सं)कर्तव्यत्वं स्थिरीकुर्वान्ति । न हि तेषु परिस्पन्दमानेषु कर्तव्यताशून्यं चित्तं भवति ।

 परीणाममवस्थापयन्ति पुनः पुनः परिणमयन्तीति यावत् । कार्यकरणस्रोत उन्नमयन्ति शरीरस्य करणादीनां चक्षुरादीनां प्रवृत्तिस्रोत उच्छ्रा(व)ययन्ति । कथमित्याह--परस्परानुग्रहतन्त्रीभूत्वा अविद्यादय इतरेतरनिमित्तनैमित्तिकभावेनेति ॥

[ सूत्रम ]

अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ ४ ॥

[ भाष्यम् ]

 अत्र अविद्या क्षेत्रं प्रसवभूमिः उत्तरेषां अस्मितादीनां चतुर्विधविकल्पानां प्रसुप्ततनुविच्छिन्नोदाराणाम् ।

 तत्र का प्रसुप्तिः ? । चेतसि शक्तिमात्रप्रतिष्ठानां बीजभावोपगमः । तस्य प्रबोध आलम्बने संमुखीभावः ।

[विवरणम् ]

 किञ्च--कर्मविपाकांश्चाभिनिर्वर्तयन्ति । कर्म त्रिविधं, तद्विपाकांश्च जात्यायुर्भोगानिति ॥ ३ ॥

 अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् । कथमस्मितादयो विपर्यया इति, तत्प्रदर्श्यते सूत्रेणैव । अविद्या क्षेत्रं प्रसवभूमिः आत्मलाभक्षेत्रं यथा पृथिवी तृणलतागुल्मवीरुघां स्वात्मनोऽनतिरिक्तानां, एवमविद्यातो विपर्ययादव्यतिरिक्तानां अस्मितादीनां चतुर्णामेकैकशः प्रसुप्ततनुविच्छिन्नोदारतया चतुर्विकल्पानां प्रसवभूमिरविद्या ॥

 विपर्ययप्रत्यया हि तामाश्रित्यात्मानं प्रतिलभन्ते ।तस्मादविद्यैवास्मितादिचतुष्टयरूपेण विपरिणमते ॥

 तत्र का प्रसुप्तिरिति । अस्मितादीनां प्रसुप्तिर्नाम धर्म उच्यते, नाविद्यायाः । कारणत्वात् । सर्वास्मितादिविकल्पेष्वनुगमात्सर्वदा प्रबुद्धैव सा, न प्रसुप्ता । प्रस्वपने व्यवहाराभावात् । अस्मितादीनामन्यतमस्य प्रसुप्तावन्यतमस्यावस्थानमवश्यमेव । अन्यथा क्लेशान्तरस्योद्भव एव न स्यात् । तस्मादस्मितादीनामेव चतुर्णां प्रसुप्तादिचतुर्विकल्पत्वम् ॥

 चेतसि शक्तिमात्रप्रतिष्ठानमित्यस्य व्याख्यानं करोति--बीजभावोपगम इति । यथा बीजं सदेवानङ्कुरीभवदपि भूमिगतं तिष्ठति, तथा चेतस्यस्मितादयः शक्तिरूपेणानभिव्यक्तस्वरूपाङ्कुरा व्यवतिष्ठन्ते ॥

 तस्य प्रबोधइति--तस्य क्लेशस्यास्मितादेः प्रबोध उद्भवः आलम्बने विषये सम्मुखीभावः स्वव्यञ्जकाञ्जनस्य ॥

[ भाष्यम् ]

 प्रसंख्यानवतोऽदग्धक्लेशबीजस्य संमुखीभूतेऽप्यालम्बने नासौ पुनरस्ति, दग्धबीजस्य कुतः प्ररोहः इति । अतः क्षीणक्लेशः कुशल: चरमदेह इत्युच्यते । तत्र सा दग्धबीजभावा पञ्चमी क्लेशावस्था नान्यत्रेति । सतां क्लेशानां तदा बीजसामर्थ्यं दग्धमिति विषयस्य संमुखीभावेऽपि सति न भवत्येषां प्रबोध इत्युक्ता प्रसुप्तिः दग्धबीजानामप्ररोहश्च ।

 तनुत्वमुच्यते--प्रतिपक्षभावनोपहताः क्लेशास्तनवो भवन्ति । तथा विच्छिद्य विच्छिद्य तेन तेनात्मना पुनः पुनः समुदाचरन्तीति

[ विवरणम् ]

 तत्रैतत् स्यात्, सर्वदैव क्लेशस्य बीजभावोपगमः प्रबोधश्च नियमेन स्यादिति । तत आह--प्रसंख्यानवतः सम्यग्दर्शनाभ्यासक्तः अदग्धक्लेशबीजस्य योगिनः संमुखीभूतेऽप्यालम्बने नासौबीजभावोपगमः । दग्धस्य दग्धत्वादेव कुतः पुनः प्रबोधः उद्भवः । विद्यमानस्य हि बीजस्य क्षितिजलादिसंयोगनिमित्तप्राप्तावङ्कुरीभावो न दग्धबीजशक्तेः, तथा क्लेशस्यापि ॥

 यद्येवम्, एषा पञ्चमी कस्मादवस्था नोक्ता दग्धप्रसुप्ततनुविच्छिन्नोदाराणामिति--न--असाधारणत्वात् । न हि सर्वदेहिनां साधारणी पञ्चमी क्लेशावस्था । योगिन एव हि सा, तते नाम्नायते ॥

 कथं वा असाधारणीति ? तत आह--तत्रैव सा सम्यग्दर्शनाभ्यासवत्येव दग्धा नान्यत्र । क्षीणक्लेशः कुशलश्चरमदेह इति सम्यग्दर्शन उच्यते योगी । तत्रैव सा दग्धबीजभावा पञ्चमी क्लेशावस्था । सतां क्लेशानां तदानीं दग्धं बीजसामर्थ्यम् । यथा विद्यमानानां यवादिबीजानां भर्जितानां बीजसामर्थ्यं दग्धम् । विषयस्य सम्मुखीभावेऽपि न भवत्येषां प्रबोधः, सम्यग्दर्शिनः संस्कारशेषावस्थत्वादिषोरिव लक्ष्यविमुक्तस्य ॥

 उक्ता प्रसुप्तिः । किञ्च दग्धबीजानां च क्लेशानामप्रबोधो योगिन उक्त इति । तनुत्वं इदानीं उच्यते--प्रतिपक्षभावनोपहताः प्रतिपक्षस्य शरीराद्यवद्यदर्शनादेः भावनयोपहताः अबलीकृता मन्दप्रभावाः क्लेशास्तनव उच्यन्ते ॥

 तथा विच्छिद्य विच्छिद्यार्थान्तरोपजनकालान्तरालेषु स्वात्मानमप्रदर्शयन्तः तेन तेनात्मना येन रूपेण पूर्वमुपलब्धास्तेनैवात्मना समुदाचरन्ति पुनरुद्भवन्तीति विच्छिन्नाः ॥

[ भाष्यम् ]

विच्छिन्नाः । कथम् ? रागकाले क्रोधस्यादर्शनात् । न हि रागकाले क्रोधः समुदाचरति । रागश्च क्वचित् दृश्यमानो न विषयान्तरे नास्ति । नैकस्यां स्त्रियां चैत्रो रक्त इत्यन्यासु स्त्रीषु विरक्तः । किं तु तत्र रागो लब्धवृत्तिः, अन्यत्र तु भविष्यद्वृतिरिति । स हि तदा [८]प्रसुप्ततनुविच्छिन्नो भवति ।

[ विवरणम् ]

 यदि वा विच्छिद्य विच्छिद्य विच्छेदकाले ते व्यक्तेनात्मना स्वरूपेण पूर्वोत्तरकालवत् समुदाचरन्ति ॥

 तत्रोदाहरणम्--कथं ? रागकाले क्रोधस्यादर्शनात् । न हि रागकाले क्रोधः समुदाचरति । कुत: रूपातिशयानां वृत्त्यतिशयानां च विरोधात् । स हि रागोदयात्तिरोभूतोऽन्येनाव्यक्तेनात्मना वर्तत इति विच्छिन्नः ॥

 तथारागश्च क्वचिद्दृश्यमानो न विषयान्तरे नास्ति । । कुतः ? विषयविरोधादत्र । पूर्वत्र रागेण विरोधादसमुदाचरणं क्रोधस्य । अत्र तु विषयाणामन्योन्यविरोधात् । न हि विषय एकस्मिन्नुपजनयति रागं विषयान्तरमपि तस्यैव रागस्योत्पादकम् ॥

 तद्यथा--नैकस्यां स्त्रियां चैत्रो रक्त इत्यन्यासु विरक्तः ।किन्तु तत्र रागो लब्धवृत्तिः। यस्यां रक्तः । अन्यत्र भविष्यद्वृत्तिः अन्यासु स्त्रीषु स हि भविष्यद्रागव्यक्तिविशेषः तदा प्रसुप्तस्तनुर्वेति ॥

 ननु च 'रागश्च कचित् दृश्यमान' इत्यादि भाष्यं किमर्थं ? ननु रागस्वभावाख्यानं, इत्थं विषयभेदाल्लब्धभविष्यद्वृत्तिस्वभावो राग इति--सत्यम्--तथाऽपि प्रक्रान्तानुपयोगः । प्रक्रान्तं हि विच्छेदव्याख्यानं । न चैतद्विच्छेदव्याख्यानम् । नापि वक्ष्यमाणोदारव्याख्यानेन सम्बन्धः । तस्य निराकाङ्क्षत्वात्।

 एवं तर्हि पूर्वशेष एवायम् । कथम् ? एवं मन्यते, प्रसुप्ततनूदारत्वव्यतिरेकेण विच्छित्तिर्नाम धर्म एव नास्ति । कथम् ? यावन्न लब्धवृत्तिस्तावत्प्रसुप्त इत्युक्तम् । प्रतिपक्षभावनोपहतो मन्दप्रवृत्तिस्तनुरित्युच्यते ॥  यश्चापि लब्धवृत्तिः स उदार इत्याख्यायते । विच्छिन्नो नाम स भवति, यः क्वचिदुपलब्धः पुनरुपलभ्यते । यथा सरस्वतीस्रोतः । न हि रागोदये क्रोधः क्वचिदपि दृश्यते । तस्मान्न विच्छित्तिर्नाम धर्मोऽस्ति । अदर्शनात् ॥

 अत्रोच्यते--यद्यदर्शनाद्विच्छेदो नास्ति, तदा रागस्य क्वचिद्दृश्यमानस्यान्यत्रादर्शनादभावोऽस्तु । नन्वस्त्वेवाभावः, अन्यत्रादर्शनात् । न हि । कस्मात् ? क्वचित् दृश्यमानत्वादेव । न हि विषयान्तराभिमुखो न भवतीति धर्मिण्यपि चेतसि नास्ति । न हि चक्षुः कदाचिद्गजाभिमुखं न भवतीति घटाभिमुखप्रवृत्तं सन्नास्ति । घटाभिमुखदर्शनादेव । तदेतदाह--क्वचित् दृश्यमानो न विषयान्तरे नास्तीत्यादि

 तथा क्रोधोऽपि रागेणोद्भूतेनाभिभूतत्वाद्विच्छिन्नदर्शनो भविष्यति,सरस्वतीस्रोतोवदेव । स हि रागो विषयान्तरे प्रसुप्तः तनुर्वा । तदाभिमुख्येनादृश्यमानविशेषत्वात् ॥

 कः पुनः प्रसुप्तिविच्छेदयोर्विशेषः ? यावतोभयत्रादर्शनमविशिष्टम् ।उच्यते--प्रवृत्तदर्शनप्रबन्धस्यान्तराविरोधिनाऽनुबद्धत्वाददर्शनं विच्छित्तिरदग्धस्य ॥

 प्रसुप्तिः पुनर्निमित्तेषु सत्स्वप्यदग्धबीजस्यैवासत्यपि विरोधिनाऽभिभवे न्यग्भूततया बीजरूपेणावस्थानम् ॥

 ननु चैवं सति "स(न)हि तदा प्रसुप्तस्तनुर्वे"ति विरुद्धं, प्रवृत्तेरदर्शनप्रबन्धो हि विषयान्तरेण दृश्यते--न--विषयान्तराभिमुख्यस्य विवक्षितत्वात् । विषयान्तराभिमुख्यं नाम यो रागस्य धर्मेः स हि तदा प्रसुप्तः तनुर्वा | न रागः सर्वेदा आमनैव प्रसुप्तस्तनुर्वा । क्वचित् दृश्यमानत्वादेव । क्रोधः प्रसुप्तस्तनुर्वा आत्मनैव रागकाले सर्वविषयेषु न दृश्यते ॥

 अथवा विछिन्नोदाहरणान्तरप्रतिपादनार्थमेव 'रागश्च क्वचि'दित्यादि भाष्यम् । कथं ? द्विप्रकारो विच्छेदः प्रदर्शयिष्य(ति) ते । एकस्तावत्प्रवृत्तदर्शनप्रबन्धस्य विरोधिनाऽभिभवात्सर्वत्रादर्शनम् । यथा दर्शितं'रागकाले क्रोधस्यादर्शना'दिति ॥

 तथाऽयमन्यो विषयविशेषे दृश्यमानस्यैव विषयान्तरे प्राप्तिनिमित्तस्यादर्शनम् । यथा चैत्रस्य एकस्यां स्त्रियां रक्तस्य अन्यासु सतीष्वपि रागस्यादर्शनं

[ भाष्यम् ]

 विषये यो लब्धवृत्तिः स उदारः । सर्व एवैते क्लेशविषयत्वं नातिक्रामन्ति ।

 कस्तर्हि विच्छिन्नः प्रसुप्तः तनुरुदारो वा क्लेशः ? इति--उच्यते--सत्यमेवैतत्, किन्तु विशिष्टानामेवैतेषां विच्छिन्नादित्वम् । यथैव प्रतिपक्षभावनातो निवृत्तः, तथैव स्वव्यञ्जकाञ्जनेनाभिव्यक्त इति ।

[ विवरणम् ]

तत्र लब्धवृत्तिरिति क्वचिद्विषये दृश्यमानस्यैव यत्र भविष्यद्वृत्तिविषये यददर्शनं, स चापि विच्छेद इति ॥

 कस्मात्पुनरन्यत्र न दृश्यत इत्याह--स हि तदा प्रसुप्तस्तनुर्वा । न हि प्रसुप्तिस्तानवं वा विवक्ष्यते । यथा तथा वा भवतु । तत्रादर्शनं विच्छेदत्वेन विवक्षितम् ॥

 विषये यो लब्धवृत्तिः स उदारः । । ननु च प्रसुप्ततनुविच्छिन्नानां कार्यासमर्थानां न क्लेशता । न हि प्रसुप्तस्तनुर्विच्छिन्नो वा प्रसुप्तिविच्छित्तितन्नियमावस्थायां कार्यं कर्तुं क्षमते । न ह्यजातश्शत्रुरुपघातायालम् । विच्छिन्ने वा प्रदेशे स्रोतसि स्नातुं शक्यम् । तस्मादविद्या क्षेत्रमुत्तरेषामित्येतावदेवास्तु । किन्तैरकार्यक्षमैः प्रसुप्ततनुविच्छिन्नैरुपदिष्टैः । एतदाशंक्याह--सर्वे चैते क्लेशविषयत्वन्नातिक्रामन्तीति । न हि शत्रुः प्रसुप्तो जनिष्यमाणो वा नापकरिष्यति ॥

 कस्तर्हि विच्छिन्नः प्रसुप्तस्तनुरुदारो वा क्लेशः । न युक्तमेवं भेदेन वचनम् । एकमेवोदाहरणमस्तु । न चोदारावस्थाया अन्यत्र कार्यं करिष्यति ॥

 सत्यमेवमेतत् । तथाऽपि परिहार उच्यते, किं तु विशिष्टानामेवैतेषां अपरित्यक्तक्लेशत्वधर्मकाणामेव विच्छिन्नादित्वम् । विच्छिन्नाद्यवस्थायामपि नापागमदपकर्तृत्वशक्तिरित्यदोषः ॥

 तत्काले कार्याक्षमत्वमिति चेत्--न--प्रतिपक्षविधानार्थत्वाद्वचनस्य । न हि शत्रोरदृश्यमानस्य प्रसुप्तस्य जनिष्यमाणस्य वा न प्रतिविधातव्यम् ॥

 श्रूयते चेन्द्रः प्रतिपक्षभयेन सप्तधा दितेर्गर्भमभिनदिति । तत्र कारणं स्वयमेव प्रकटयति--यथैव प्रतिपक्षभावनातो निवृत्तस्तथैव स्वव्यञ्जकाञ्जनेन विषयादिना अभिव्यक्त इति ॥

[ भाष्यम् ]

 सर्व एवामी क्लेशाः अविद्याभेदाः । कस्मात् ? सर्वेष्वविद्यैवाभिप्लवते । यदविद्यया वस्त्वाकार्यते । तदेवानुशेरते क्लेशाः विपर्यासप्रत्ययकाले उपलभ्यन्ते क्षीयमाणाञ्चाविद्यामनु क्षीयन्त इति ॥ ४ ॥

 तत्राविद्यास्वरूपमुच्यते--

[ सूत्रम् ]

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ ५ ॥

[ विवरणम् ]

 यस्मात्ते पुनरभिव्यक्ताः पुनश्च तिरोहिताः पुनरप्यभिव्यञ्जिष्यन्ते च, तस्मात्प्रसुप्ताद्यवस्था अपि प्रतिपक्षविधानाय वक्तव्या एव, क्लेशत्वानतिक्रान्तत्वात् ।

 इदानीमुपसंहरति--सर्व एवामी क्लेशा अविद्याभेदाः ।कस्मात् ? यस्मात् सर्वेषु अस्मितादिषु अविद्यैवाभिप्लवते प्रतरति, उद्भूता दृश्यते ॥

 किञ्च--यदविद्यया वस्त्वाकार्यतेप्रकल्प्यते तदनुशेरते तद्विषया उपजायन्ते क्लेशाः रागादयः । यथा स्त्र्यादिपिण्डे हेयेऽपि भोग्योऽयमित्यविद्यया परिकल्प्यात्माभिमानं कृत्वा रज्यते । धर्मज्ञाने विपरीतं परिकल्प्य द्वेष्टि ॥

 कथं पुनस्तदेवानुशेरते इति--यस्मात्विपर्यासप्रत्ययकाल एवोपलभ्यन्ते । इतश्चाविद्याभेदाः, यस्मात्क्षीयमाणामविद्यामनु क्षीयन्त इति ।अविद्याप्रणाशानुप्रणाशिनो हि क्लेशा अस्मितादयः । न ह्यसत्यामविद्यायां कश्चिदपि क्लेशः सम्भवति ॥ ४ ॥

 तत्राविद्यास्वरूपमुच्यते । किं पुनरविद्यास्वरूपाख्याने प्रयोजनं ? तत्स्वयमेव भाष्यकृदाख्यास्यते 'अविद्या मूलमस्य क्लेशसन्तानस्य'इत्यादिना । अज्ञाते च क्लेशसन्तानमूलस्वरूपे तन्मूलोन्मूलनं न शक्यं कर्तुमिति तत्स्वरूपमाख्यायते ॥

[ भाष्यम् ]

 अनित्ये कार्ये नित्यख्यातिः । तद्यथा--ध्रुवा पृथिवी, ध्रुवा सचन्द्रतारका द्यौः, अमृता दिवौकसः, इति ।

तथा अशुचौ परमबीभत्से काये--
"[९]स्थानाद्बीजादुपष्टम्भान्निष्यन्दान्निधनादपि ।
कायमाधेयशौचत्वात्पण्डिता ह्यशुचिं विदुः ॥"
इत्यशुचौ शुचिख्यातिर्द्दश्यते ।

[ विवरणम् ]

 अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या । कथम् ? अनित्ये कार्ये नित्यख्यातिः नित्यमिति विपर्ययबुद्धिः यथ ध्रुवा पृथिवी, ध्रुवा सचन्द्रतारका द्यौः, अमृता दिवौकस इति ॥

 ननु चैतस्मान्मन्त्रात्पृथिव्यादीनां ध्रुवत्वं प्रतीयते । तत्र कथमेषां कार्यत्वमुच्यते ? आपेक्षिकत्वाददोषः । मनुष्याद्यपेक्षया पृथिव्यादयो ध्रुवाः । कार्यत्वमनित्यत्वं च सर्वेप्रमाणसिद्धं श्रुतिषु वचनात् 'द्यौरासीन्न पृथिवी नान्तरिक्ष'मित्यादिषु सिद्धम् ।

 तथा अशुचौ परमबीभत्से परमोद्वेगकरेऽत्यन्तघृणास्पदे कारात्मसद्मनीवाशुचौ काये । कथम(पि)स्य बीभत्सकत्वमित्याह--स्थानादशुचिः--गर्भाशयस्थानत्वादशुचिः ।बीजादशुचिः --शुक्लशोणितबीजो हि कायः । उपष्टम्भात्--वातपित्तश्लेष्मोपष्टम्भात् । तेषां चाशुचित्वं प्रसिद्धम् ।निष्यन्दात्--प्रस्वेदमूत्रपुरीषादिमलाजस्रनिष्यन्दात् । निधनादपि--मरणात् । मृतसंबन्धिनां दशाहाद्याशौचस्मरणम् ॥

 ननु च स्वभावतो यद्यशुचिः कायस्तस्य शौचविधानमनर्थकं प्राप्नोतीत्यत आह--कायमाधेयशौचत्वादिति । शास्त्रत आधातव्यमेव शौचमस्मिन्न स्वतोऽस्तीति यावत् ॥

 यद्वा, करणानि बुद्धिसत्वादीनि सत्वात्मकतया शुचीन्याधेयान्यस्मिन्निति, तच्छुचित्वादस्यापि शौचम् । बुद्धिसत्वाद्याधेयविप्रयोगे चात्यन्ताशुचित्वदर्शनात् ॥

 तस्मात्पण्डिता ह्यशुचिं विदुः । पण्डितग्रहणं विपर्यस्तधियां शुचित्वग्रहणख्यापनार्थम् । अशुचौ शुचिख्यातिर्दृश्यते विपरीतचेतसाम् ॥

[ भाष्यम् ]

 नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्वमृतावयवनिर्मितेव, चन्द्रं भित्त्वा निःसृतेव ज्ञायते, नीलोत्पलपत्रायताक्षी हावगर्भाभ्यां लोचनाभ्यां जीवलोकमाश्वासयन्तीवेति, कस्य केनाभिसम्बन्धः । भवति चैवमशुचौ शुचिविपर्यासप्रत्यय इति ।

 एतेन अपुण्ये पुण्यप्रत्ययः, तथैवानर्थे चार्थप्रत्ययो व्याख्यातः ।

 तथा दुःखे सुखख्यातिं वक्ष्यति--"[१०]परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः" इति । तत्र सुखख्यातिरविद्या ।

 तथा अनात्मन्यात्मख्यातिः--बाह्योपकरणेषु चेतनाचेतनेषु, भोगाधिष्ठाने वा शरीरे, पुरुषोपकरणे वा मनसि, अनात्मनि आत्मख्यातिः,इति ।

[ विवरणम् ]

 नवेव शशाङ्कलेखा कमनीयेयं कन्या अमृतावयवनिर्मितेव चन्द्रं भित्त्वेव निस्सृता ज्ञायते नीलोत्पलपत्राक्षी भावगर्भाभ्यां लोचनाभ्यां जीवलोकं समाश्वासयन्तीति कस्य केनाभिसंबन्धो भवतीति । क्व शरीरादियाथात्म्यं, क्व भवत्येवमशुचौ (क्वचिद्वि) शुचिविपर्यास इति ॥

 एतेनापुण्ये पुण्यप्रत्ययः, यथा संसारमोचकानां, तथैवानर्थे चार्थप्रत्ययो व्याख्यातः, यथा तस्कराणाम् ॥

 तथा दुःखे सुखख्यातिं वक्ष्यति । 'परिणाम[११] तापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः' इति । तत्र सर्वस्मिन् संसारे दुःखे सुखख्यातिरविद्या ॥

 तथा अनात्मन्यात्मख्यातिर्बाह्योपकरणेषु चेतनाचेतनेषु गवादिघटादिषु भोगाधिष्ठाने वा शरीरे पुरुषोपकरणे वा मनस्यनात्मन्यात्मख्यातिरिति ॥

 अत्रोच्यते--कस्य पुनर्मनस्यनात्मन्यात्मख्यातिरिति ? ननु मनस एव ख्यातिः, किं चोद्यते--यावता अविद्या विपर्ययश्चित्तवृत्तिरिति ह्युक्तम् । चित्तमेव प्राप्तचैतन्योपग्रहणरूपत्वादात्मानं चेतनमभिमन्यते 'अहं द्रष्टृ श्रोतृ वा अहमिदं ममे'ति चाविशेषेण ॥

[ भाष्यम् ]

 तथैतदत्रोक्तम्[१२]--"व्यक्तमव्यक्तं वा सत्वमात्मत्वेनाभिप्रतीत्य तस्य सम्पदमनु नन्दत्यात्मसम्पदं मन्वानः, तस्य व्यापदमनु शोचत्यात्मव्यापदं मन्वानः, स सर्वोऽप्रतिबुद्धः" इति ।

 एषा चतुष्पदा भवत्यविद्या मूलमस्य क्लेशसन्तानस्य कर्माशयस्य च सविपाकस्येति ।

 तस्याश्च अमित्रागोष्पदवत् वस्तुसतत्वं विज्ञेयम् ।

[ विवरणम् ]

 तथैतदत्र एतस्मिन्नर्थे उक्तं व्यक्तमव्यक्तं वा प्रधानादिकं शरीरेन्द्रियादि विषयविशेषपर्यन्तं किंचित् व्यक्तं आनुभाविकं,किंचिदानुमानिकमागमिकं अव्यक्तं वा सत्वमात्मत्वेनाभिप्रतीतः प्रतिपन्नः तस्य सम्पदमनु नन्दति तस्य व्यक्ताव्यक्त्तात्मकस्यात्मत्वेनावगतस्य सम्पदं समृद्धिं विभूतिमनु नन्दति अनु हृष्यति, आत्मसम्पदं मन्वानः 'सम्पन्नोऽहमनया सम्पदा, ममैषा सम्पदि'ति मन्यमानः । तस्य व्यापदं तस्य क्षयं अनु शोचति 'ममैषा व्यापदहमेव व्यापन्न' इति । स सर्व एवाभिमानी अप्रतिबुद्धः अज्ञ इति ॥

 एषा चतुष्पदी भवत्यविद्या । ननु चापुण्ये पुण्यख्यातिः पुण्ये अपुण्यख्यातिः इत्याभ्यां सह षट्पदीत्वम्--न--चतुर्ष्वेव पादेषु यथासंभवमन्तर्भावात् । अविद्या मूलं प्रभवबीजम् अस्यक्लेशसन्तानस्य अभिनिवेशान्तक्लेशानामनवरतप्रवर्तनस्य । किं च--कर्माशयस्य च त्रिविधस्य जात्यायुर्भोगलक्षणविपाकत्रयसहितस्य सकलस्य संसारस्येत्यर्थेः ॥

 तस्याश्च अविद्यायाः अमित्रागोष्पदवद्वस्तुसतत्वं वस्त्वन्तरत्वं विज्ञेयम् । किमर्थमिदमुच्यते । यावता विपरीतख्यातिरिति वस्तुसतत्वमुक्तमेव ॥

 अयमभिप्रायः--अविद्या इति नञ्समासोऽयं तत्पुरुषः, स चोत्तरपदार्थप्रधानो वा स्यात्, यथा राजपुरुष इति । यद्वा, पूर्वपदार्थप्रधानः, अर्धपिप्पलीति ॥

 तत्र यदि पूर्वपदार्थप्रधानस्तदानीं विद्यायाः प्रमाणस्याभाव (वादि) इति, यत्रैव विद्याप्रसङ्गो वृत्तिसामान्यात्तत्रैव (स्मृत्य)वृत्त्यन्तरादौ प्रतीतिरिति, अनिर्धारित

[ भाष्यम् ]

 यथा नामित्रो मित्राभावः, न मित्रमात्रं, किंतु तद्विरुद्धः सपत्नः । यथा वा अगोष्पदं न गोष्पदाभावः, न गोष्पदमात्रं, किंतु देश एव

[ विवरणम् ]

विशेषतत्वोऽर्थः प्रज्ञायेत । या तु विपरीतख्यातिः पूर्वोक्ता अविद्येति सा पारिभाषिकी स्यात् ॥

 ततः को दोषः स्यात् ? अविद्याशब्दश्रवणे सन्देहः स्यात् । किं प्रसिद्ध एव शब्दार्थः परिभाषितः शास्त्रसंव्यवहारार्थं, यथा लोके येष्वर्थेषु प्रसिद्धानि पदानि तानि सति सम्भवे तदर्थान्येव सूत्रेष्वित्यवगन्तव्यं इति । अथाशब्दार्थ एव, यथा 'इको गुणवृद्धी' इति । ततश्चानिश्चिते पदार्थे नाविद्याशब्देन व्यवहारः क्रियेत ॥

 अथोत्तरपदार्थप्राधान्यं समानाधिकरणत्वान्नीलोत्पलवत्, तत्रापि नीलोत्पलशब्दार्थयोरविरोधद्विशेष्यविशेषणभावेन संबन्धो युक्तः ॥

 इह नञा निवृत्तिरुच्यते । विद्याशब्देनापि विद्या । तत्र यद्युत्तरपदस्यार्थं प्रधानं प्रति गुणभूतो नञ् तस्यैवोत्तरपदार्थस्याभावं कुर्यात्, तदा तद्गुणत्वमेव ह्रीयेत । नापीतरस्य प्राधान्यम् ॥

 यो हि कञ्चिन्निर्वर्तयितुं अनुप्रस्थितो निर्वर्त्यमेव व्यापादयेत्, न तस्य निर्वर्त्य प्रति गुणत्वम् । नापि निर्वर्त्यस्य प्रधानता, तद्वत् । तस्मात् प्रधानवशवर्तिना गुणेन भवितव्यमिति विद्यायामन्यस्याभाव एवेति केवलो नञ् नित्यानुवादीति विद्यामात्रं प्रतीयेत ॥

 तदेतदेवं कृत्वोच्यते । 'तस्याश्चामित्रागोष्पदवद्वस्तुसतत्वं विज्ञेयम्' इति । यथा अमित्रो न मित्राभावः यथा पूर्वपदार्थप्राधान्ये अर्धपिप्पलीति । न मित्रमात्रम् । यथोक्तं उत्तरपदार्थप्राधान्ये प्रधानवशवर्तिना गुणेन भवितव्यं, न प्रधानविनाशेनेति । तथा चोक्तम--"[१३]अब्राह्मणमानयेत्युक्ते ब्राह्मणमात्रस्यानयनं प्राप्नोती"ति नञ्वार्तिके । उत्तरपदार्थप्राधान्यपक्षे नञो नित्यानुवादत्वात् । एवममित्र इति । एवमविद्यादि ॥

 यथा वा अगोष्पदं न गोष्पदाभावो न गोष्पदमात्रं, किन्तु देश एव ताभ्यां गोष्पदाभावगोष्पदमात्राभ्याम् अन्यद्वस्त्वन्तरम् । [कथमेवम् ?]


[ भाष्यम् ]

 भोक्तृभोग्यशक्त्योरत्यन्तविभक्तयोरत्यन्तासङ्कीर्णयोरविभागप्राप्ताविव सत्यां भोगः कल्पते । स्वरूपप्रतिलम्भे तु तयोः कैवल्यमेव भवति, कुतो भोग इति ।

 तथा चोक्तम्[१४]--"बुद्धितः परं पुरुषमाकारशीलविद्यादिभिर्विभक्तमपश्यन् कुर्यात्तत्रात्मबुद्धिं मोहेन" इति ॥ ६ ॥

[ विवरणम् ]

ध्यवसायस्वरूपयोः एकात्मतेव एकश्चासावात्माच तस्य भाव एकात्मता । इवशब्देनात्यन्तविविक्ततामाचष्टे । एकस्वरूपापत्तिरिवास्मिता क्लेश उच्यते ॥

 यस्मिन्नहंप्रत्यये चित्तपुरुषयोर्विवेको नोपलभ्यते सोऽयमहंप्रत्ययोऽस्मिताख्यः क्लेश उच्यते ।

 पूर्वत्र तु पुरुषोपकरणेऽन्तःकरणेऽनात्मन्यात्मख्यतिरिति विपरीतदर्शनमेवाविद्येत्युक्तम् । इह तु पुनर्बुद्धिपुरुषयोरविशेषदर्शनमेकस्वरूपापत्तिरिव दर्शनमस्मितेति विशेषः ॥

 तदेतदुक्तं भवति--भोक्तृभोग्यशक्त्योरत्यन्तविविक्तयोः अत्यन्तासङ्कीर्णयोः अविभागप्राप्ताविव सत्यां भोगः कल्पते । भोगहेतुरस्मिताभिधानक्लेश इत्यर्थः । सति ह्यहंप्रत्यये सुखितोऽहं दु:खितोऽहमिति सुखदुःखादिसम्बन्धो भवति ।तस्मादेतदेवमिति ।

 स्वरूपप्रतिलम्भे तु तयोः विवेके नाहं ममेति स्वरूपोपलब्धौ सत्यां बुद्धिपुरुषयोः कैवल्यमेव अविमिश्रतैव भवति । कुतो भोग इति । कारणे ह्यविशेषाहंप्रत्ययात्मनि सति कार्यं भोगः, तस्मिन्नसति कारणे न भोग इति ॥

 न हि मनसि चेतनावत्वमनध्यारोप्य सुखित्वं दुःखित्वं वा शक्यं प्रत्येतुम् । अहंप्रत्ययविषयो हि सुखदुःखप्रत्ययाधिकरणम् । 'अहं सुखी दुःखी चाहम्' इति सामानाधिकरण्यात् । तस्मादस्मिताख्योऽहङ्कारो भोगहेतुः ॥

 तथा चोक्तं--बुद्धितः परं पुरुषं बुद्धितः सकाशात् विभक्तं विलक्षणमन्यम् । कैर्गुणैर्विभाग इत्याह--आकारशीलविद्याभिः आकारेण वृत्तिसारूप्येण, शीलेन बुद्धिप्रतिसंवेदितथा । विद्यया चैतन्यस्वरूपतया । अथवा आकारेण शुद्धानन्तस्वरूपत्वेन, शीलेन अपरिणामित्वादप्रतिसंक्रमत्वेन, विद्यया चितिशक्तिस्वरूपतया । तदेतैर्धर्मैर्बुद्धितो विभागः ॥


[ सूत्रम् ]

 [१५]सुखानुजन्मा रागः ॥ ७ ॥

[ भाष्यम् ]

 सुखाभिज्ञस्य सुखानुस्मृतिपूर्वः सुखे तत्साधने वा यो गर्धः, तृष्णा, लोभः, स राग इति ॥ ७ ॥

[ विवरणम् ]

 तथा बुद्धेरपि आकारेण सुखदुःखमोहात्मकत्वेन, शीलेन प्रख्याप्रवृत्तिस्थित्यात्मना, विद्यया सर्वार्थाध्यवसायात्मकत्वेन पुरुषात् विभागः । इत्थमन्योन्यमाकारशीलविद्याभिर्विभक्तं पुरुषं अपश्यन् कुर्यात्तत्र तस्यां बुद्धौ आत्मबुद्धिं आत्मप्रत्ययं मोहेन लोक इति । विद्याशीलाकारैरत्यन्तविभक्तयोर्बुद्धिपुरुषयोरविभाग इव तद्दर्शनमित्यनेनांशेनोदाहरणम् ॥

 यत्तु विभक्तमपश्यन् कुर्यातत्रात्मबुद्धिम् इति । सा पूर्वोक्तैवाविद्या । यद्वा अस्मिताया अविद्याभेदत्वात् सर्वमुदाहरणमिति । अपश्यन् कुर्यादिति पुरुषस्वरूपादर्शनमविद्यायाः, अस्मितायाश्च हेतुः कारणं चित्तस्य द्रष्टृदृश्योपरक्तता । पुरुषस्य त्वदर्शनं द्रष्टृत्त्वादेव ॥ ६ ॥

 सुखानुजन्मा सुखानुशयी रागः । अनु जन्म, अनु उत्पत्तिर्यस्य सः । सुखानुशयी तथा दुःखानुशयीति अन्येषां पाठः । सुखानुशयी रागः दुःखानुशयी द्वेष इति ते व्याचक्षते, सुखमनुभवितुं शीलमस्य स सुखानुशयी, तथा दुःखानुशयीति । उभयधाऽप्यनुजन्मतैव । तदेव ताच्छील्यम् । तथा च वक्ष्यति--'धर्मात्सुखं सुखाद्रागः' इति ॥

 कथं सुखानुशयित्वमिति तदाह--सुखाभिज्ञस्य सुखे आभिज्ञानमभिज्ञा यस्य स सुखाभिज्ञः सुखं य उपलब्धवांस्तस्य, सुखाभिज्ञस्य सुखानुस्मृतिपूर्वः सुखं पूर्वानुभूतमनुस्मरन् सुखे ह्लादे तत्साधने वा अगरुचन्दनादावनुरज्यते । तत्र योऽसौ गर्धः स उच्यते तृष्णा लोभो राग इति ॥ ७ ॥


[ सूत्रम् ]

[१६]दुःखानुजन्मा द्वेषः ॥ ८ ॥

[ भाष्यम् ]

दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वा [१७]यो मन्युः, उञ्जिहासा, क्रोधः, स द्वेषः ॥ ८ ॥

[ सूत्रम् ]

स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः ॥ ९ ॥

[ भाष्यम् ]

॥ सर्वस्य प्राणिन इयमात्माशीर्नित्या भवति '[१८]मरणं माऽन्वभूवं, भूयासम्' इति । ॥

[ विवरणम् ]

{{gap}}दुःखानुजन्मा दुःखानुशयी द्वेषः । दुःखमुक्तम् '[१९]येनाभिहताः प्राणिनस्तदपघाताय प्रयतन्ते' इति । दुःखाभिज्ञस्यति पूर्ववद्व्याख्यानम् । दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वा सतस्करादौ यो मन्युरुञ्जिहासा उद्धातुमिच्छा क्रोधः स द्वेषः । रागेण तुल्यं व्याख्यानं सर्वम् ॥ ८ ॥

 स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः स्वरसेन स्वभावेन चित्तस्याविद्यामात्रेण वोढुं प्रवर्तितुं शीलमस्य । वहतेरकर्मकस्यापि दर्शनात् यथा नदी वहतीति । अथवा स्वरसं स्वभावं वोढुं शीलमस्य स्वरसवाही विदुषोऽपि सम्यग्दर्शनस्यापि । अपिशब्दादविदुष एव युक्तो मरणत्रास आत्मोच्छेदमानिन इत्यभिप्रायः । सम्यग्दर्शनस्यात्मानुच्छेदमानिनोऽयुक्त इति । तथा विमूढतरबुद्धिष्वात्मोच्छेददर्शिष्वयमभिप्रायो मरणत्रासो रूढोऽभिनिविष्टः स्थिरो यथा तथैव विदुषोऽप्यात्मानुच्छेददर्शित्वादयुक्तोऽपि रूढः ॥


 कस्मात् पुनरयं मरणत्रासः स्वरसेनैव रूढ इति ? यतः सर्वस्य प्राणिनः इयमात्माशीर्नित्या भवति, यदसौ मरणं मान्वभूवम् उच्छेदं मा प्रापम् । इयमाशीर्वा, भूयासं गुणैः शुभात्मभिः सम्पत्सीयेति न तैर्वियोगो भूयादिति । मूढेषु भोगसम्पदामात्मनश्चानुच्छेदः प्रार्थनीयः ॥


[ भाष्यम् ]

 न चाननुभूतमरणधर्मकस्यैषा भवत्यात्माशीः । एतया च पूर्वजन्मानुभवः प्रतीयते । स चायमभिनिवेशः क्लेशः स्वरसवाही कृमेरपि जातमात्रस्य प्रत्यक्षानुमानागमैरसम्भावितो मरणत्रास उच्छेददृष्ट्यात्मकः पूर्वजन्मानुभूतं मरणदु:खमनुमापयति ।

 यथा चायमत्यन्तमूढेषु दृश्यते क्लेशः, तथा विदुषोऽपि विज्ञातपूर्वापरान्तस्य रूढः । कस्मात् ? समाना हि तयोः कुशलाकुशलयोर्मरणदु:खानुभवादियं वासनेति ॥ ९ ॥

[ विवरणम् ]

 किमेतयाऽऽशिषा अवगम्यत इत्याह-न चाननुभूतमरणधर्मकस्य भवत्येषा आत्माशीरिति । एतया च आत्माशिषा पूर्वजन्मानुभवः प्रतीयते । तदेतदुक्तं भवति-न ह्यननुभूते सुखे भवति प्रार्थना, नाप्यननुभूते दुःखे तत्परिहारवाञ्छा भवतीति । येनापि प्रत्यक्षानुमानाभ्यामननुभूतं मरणदुःखं तस्याप्यनयात्माशिषा पूर्वो मरणानुभवः प्रतीयते, सोऽपि नान्तरेण जन्मेति जन्मानुभवः । तया पूर्वः पूर्वो जन्ममरणानुभवोऽनादिरिति मतः । स चायमभिनिवेशः क्लेशः कृमेरपि जातमात्रस्येति ॥

 मरणानुभवकारणमाचष्टे-प्रत्यक्षानुमानागमैरसम्भावितो मरणत्रास उच्छेददृष्ट्यात्मक आत्मभोगोच्छेदप्रतिपत्तिहेतुः पूर्वजन्मानुभूतं मरणदु:खमनुमापयति । यथा चायमत्यन्तमूढेषु दृश्यते कृमिप्रभृतिषु क्लेशस्तथा विदुषोऽपि विज्ञातपूर्वापरान्तिकस्यापि पूर्वान्तिकं बन्धः अपरान्तिकं मुक्तिः । ज्ञातजन्ममरणान्तिकस्य वा रूढः । कस्मात् पुनर्मूढस्येव विदुषो रूढ इति, तत आह-समाना हि कुशलाकुशलयोर्विद्वदविदुषोर्मरणानुभवादियं वासना मरणभयवासना ॥ ९ ॥

 'क्लेशमूलः[२०] कर्माशयः' ‘सति[२१]मूले तद्विपाकः' इति वक्ष्यते । तस्मात्ते क्लेशा हातव्याः । हानार्थेश्च ते प्रदर्शिताः । तदवहानौ चोपायं वक्ष्यति--'ध्यान


[ सूत्रम् ]

॥ ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ १० ॥

[ भाष्यम् ]

। ते पञ्च क्लेशाः दग्धबीजकल्पा योगिनश्वरिताधिकारे चेतसि प्रलीने सह तेनैवास्तं गच्छन्ति ॥ १० ॥ ।

। स्थितानान्तु बीजभावोपगतानाम्-

[ सूत्रम् ]

॥ ध्यानहेयास्तद्वृत्तयः ॥ ११ ॥

[ भाष्यम् ]

 क्लेशानां या वृत्तयः स्थूलास्ताः क्रियायोगेन तनूकृताः सत्यः प्रसंख्यानेन ध्यानेन हातव्याः यावत्सूक्ष्मीकृता यावद्दग्धबीजकल्पाः इति ।

[ विवरणम् ]

हेया[२२]स्तद्वृत्तयः' इति। तत्र न ज्ञायते किंविषयो ध्यानप्रयोगः, किं दग्धबीजकर्मक्लेशविषयः ? किं सर्वविषयः ? इति । तद्विषयविभजनार्थमिदं सूत्रमारभ्यते-- ते प्रतिप्रसवहेयाः सूक्ष्मा इति ॥

 ते पञ्च क्लेशाः दग्धबीजकल्पाः योगिनश्चरिताधिकारे चेतसि प्रलीने सह तेनास्तं गच्छन्ति । एतदुक्तं भवति--सम्यग्दर्शनाभ्यासानलदग्धबीजसामर्थ्यानां क्लेशानां कृताशेषपुरुषप्रयोजनस्य चेतसः प्रतिप्रसवेनैव प्रलयेनैव प्रलयोत्पत्तेर्न ध्यानसाधनापेक्षा । न हि दग्धं दाहमपेक्षते, पिष्टं वा पेषणमिति । चेतस्तु साधितपुरुषार्थत्वात् स्थितिप्रयोजनाभावाच्च स्वयमेव निवर्तते ॥ १० ॥

 कीदृशानां पुनर्ध्यानादिसाधनापेक्षेत्यत उच्यते-स्थितानां तु बीजभावोपगतानामिति ॥

{{gap}}ध्यानहेयास्तद्वृत्तयः । क्लेशानां या वृत्तयः स्थूलास्ताः क्रियायोगेन तपस्स्वाध्यायेश्वरप्रणिधानाख्येन स्थूलप्रतिपक्षेण तनूकृताः पूर्वम् । तत इदानीं तनूकरणाद्बीजशक्त्यवस्थाः प्रसैख्यानेन सम्यग्दर्शनशीलनतो नैपुणविशेषेण ध्यानेन महता बलीयसा प्रतिपक्षेण हातव्याः, ततोऽपि यावत्सूक्ष्मीकृताः । किमुक्तम् भवति । यावद्दग्धबीजकल्पाः यावन्निर्बीजीकृता इति ॥




[ भाष्यम् ]

 यथा वस्त्राणां स्थूलो मलः पूर्वं निर्धूयते, पश्चात्सूक्ष्मो यत्नेनोपायेन चापनीयते, तथा स्वल्पप्रतिपक्षाः स्थूला वृत्तयः क्लेशानां, सूक्ष्मास्तु महाप्रतिपक्षा इति ॥ ११ ॥

[ सूत्रम् ]

॥ क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ १२ ॥॥

[ भाष्यम् ]

 तत्र पुण्यापुण्यकर्माशयः कामलोभमोहक्रोधभयः।

[ विवरणम् ]

 तत् किमिवेति ? यथा वस्त्राणां स्थूलो मलः पूर्वं निर्धूयते, पश्चात्सूक्ष्मो मलः स्नेहनादिनिमित्तो यत्नेन चोपायेन क्षारादिविशिष्टोपायेन अपनीयते, तथा स्वल्पप्रतिपक्षाः तपस्स्वाध्यायेश्वरप्रणिधानयमनियमादियोगाङ्गानुष्ठानादिप्रतिपक्षाः स्थूला वृत्तयः क्लेशानाम् । सूक्ष्मास्तु महाप्रतिपक्षा इति । तपस्स्वाध्यायाद्यनुष्ठानप्रतिलब्धदीप्तिप्रकर्षविप्लवसम्यग्दर्शनमहाप्रतिपक्षा: सूक्ष्मा बीजशक्त्यपेक्षा इति ॥ ११ ॥

 किमर्थं पुनः क्लेशहानाय प्रयतत इत्याह--यतः क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः । क्लेशा अविद्यादयो मूलं जन्मकारणं यस्य कर्माशयस्य स क्लेशमूल: कर्माशय इति । आकर्मफलप्रदानादन्तःकरणे शेत इति कर्माशयः शुक्लकृष्णात्मकः । दृष्टं चादृष्टं च दृष्टादृष्टे जन्मनी तयोर्वेदनीयमनुभवनीयं फलं यस्य स दृष्टादृष्टजन्मवेदनीयः कर्माशयः । यो दृष्टादृष्टकर्मानुभवितव्यफलः कर्माशयः स क्लेशमूल इति सूत्रार्थः ।

 यस्य पुण्यापुण्यरूपस्य कर्माशयस्य यस्मिन् जन्मनि निष्पत्तिस्तस्य तस्मिन्नेव जन्मनि वेदनीयं फलं स दृष्टजन्मवेदनीयः । यस्य तु जन्मान्तरे वेदनीयं फलं सोऽदृष्टजन्मवेदनीयः कर्माशय इति ॥

 भाष्यमिदानीं व्याख्यायते-तत्र पुण्यापुण्यकर्माशयो लोभक्रोधमोहप्रभव इति, क्लेशमूलत्वं तस्याचष्टे । पुण्यकर्माशयो लोभप्रभवो यथा-स्वर्गे वा अत्र वा शुभं फलमनुभविष्यामीति स्वर्गकामपुत्रकामयागादिः । क्रोधप्रभवो यथा-विश्वामित्रस्याम्बायाश्च । मोहप्रभवो यथा-द्रौपद्याः कुम्भकर्णस्य च

[ भाष्यम् ]

 स दृष्टजन्मवेदनीयश्चादृष्टजन्मवेदनीयश्च । तत्र तीव्रसंवेगेन मन्त्रतपस्समाधिभिर्निर्वर्तितः, ईश्वरदेवतामहर्षिमहानुभावानामाराधनाद्वा यः परिनिष्पन्नः स सद्यः परिपच्यते पुण्यकर्माशय इति ।

[ विवरणम् ]

अपुण्यकर्माशयोऽपि लोभप्रभवो यथा---चर्मणि द्वीपिनं हन्ति कुञ्जरं हन्ति दन्तयोः । कर्णस्य चास्त्रज्ञानलोभादनृतवचने । क्रोधप्रभवो यथा-ब्रह्महत्या । भारते(भाव)sप्यश्वत्थाम्नश्च । मोहप्रभवो यथा-संसारमोचकादीनां नहुषस्य च॥

 अस्मिताविद्ययोर्लोभक्रोधमोहैः प्रत्येकं सम्बन्धः । कथम् ? अहमधिक्षिप्तोऽस्मीति क्रुध्यति । अहं सुखमनुभविष्यामीति लुभ्यति । अहं मुह्यामीति मुह्मति ।|

 अविद्याऽपि सर्वत्रैव विपरीतदर्शन लक्षणा सम्बध्यते । नह्यसत्यामविद्यायामस्मितादीनां सम्भवोऽस्ति । रागस्तु लोभ एव । द्वेषस्तु क्रोधः । अभिनिवेशो विमोह एवान्तर्भवति ॥

 यत्तु मोहः पुनरविद्येति, तदविवेकसामान्यादुक्तम् । लोभक्रोधमोहास्तु परस्परनिरपेक्षा धर्मधर्मोत्पत्तिद्वारम् । तथा च वक्ष्यति--लोभक्रोधमोहपूर्विका इति ॥

 स दृष्टजन्मवेदनीयश्च स लोभक्रोधमोहप्रभवः कर्माशयो दृष्टजन्मवेदनीयश्च अदृष्टजन्मवेदनीयश्च ।

 कथं पुनः कर्मणां स्वरूपनिमित्ततुल्यत्वे कस्यचिद्दृष्टजन्मवेदनयित्वं कस्यचिददृष्टजन्मवेदनीयत्वञ्चेत्याह--यथा तीव्रसंयोगेन तीव्रोद्यमेन मन्त्रतपस्समाधिभिर्यथाप्रसिद्धरूपैस्तीव्रसंवेगानुष्ठितैर्निर्वर्तितः, ईश्वरदेवतामहर्षिमहानुभावानामाराधनाद्वा । ईश्वर उक्तः, देवता अदित्यादयः, महर्षयो भृग्वादयः, महानुभावा धर्मज्ञाननिरतमतयः, एत एव वा (तदेषां वा) । तीव्रतराराधनपरिनिष्पन्नः सद्यः परिपच्यते स तस्मिन्नेव जन्मनि । यथा नन्दीश्वरकुमारस्य ॥ 

[ भाष्यम् ]

 तथा तीव्रक्लेशेन भीतव्याधितकृपणेषु, विश्वासोपगतेषु वा, महानुभावेषु वा तपस्विषु [यः] कृतः पुनः पुनरपकारः, स चापि पापकर्माशयः सद्य एव परिपच्यते ।

 यथा नन्दीश्चरः कुमारो मनुष्यपरिणामं हित्वा देवत्वेन परिणतः । तथा नहुषोऽपि देवानामिन्द्रः स्वकं परिणामं हित्वा तिर्यक्त्वेन परिणतः इति ।

 तत्र नारकाणां नास्ति दृष्टजन्मवेदनीयः कर्माशयः ।

[ विवरणम् ]

 तथा तीव्रक्लेशेन लोभादिप्रकर्षेण भीतव्याधितकृपणेषु विस्रम्भोपगतेषु महानुभावेषु वा तपस्विषु ज्ञानधर्मनिरतमतिषु तपस्विषु पुनः पुनः आभीक्ष्ण्येन कृतोऽपकार:, स चापि पापकर्माशयः सद्य एव परिपच्यते फलति । यथा नहुषस्य ॥

 लोकेऽपि क्षेत्रबीजसंस्कारविशेषेण वृक्षादिफलसन्निकर्षः प्रसिद्धः वृक्षायुर्वेदप्रसिद्ध्या । तथा क्रियासु फलसन्निकर्षविप्रकर्षदर्शनं गमिपच्यादिषु तीव्रमन्दानुष्ठानविशेषतः ।

 तत्र पुण्यकर्माशयस्योदाहरणमाह---यथा नन्दीश्वरः कुमारो मनुष्यपरिणामं स्वकं हित्वा महेश्वराराधनपरिनिष्पन्नेन तीव्रतरक्लेशानुष्ठानेन जन्मना देवतात्वेन परिणतः ।

 तथा नहुषोऽपुण्यकर्माशयस्योदाहरणम् । स देवानामिन्द्रः । स स्वकं परिणामं हित्वा तीव्रतरमोहानुष्ठानजेन कर्माशयेन तिर्यक्त्वेन परिणत इति ॥

 क्रोधादीनां तु यथासंख्यं दृष्टादृष्टजन्मवेदनीयत्वेनोदाहरणानि व्याख्यातानि पूर्वमेव। एतेन च मन्दमन्दतरलेभादिक्लेशानुष्ठानजन्मानौ पुण्यपापकर्माशयावदृष्टजन्मवेदनीयौ व्याख्यातौ लोकवदेव । तत्रापि तावदुच्यते ॥

 तत्र नारकाणां नास्ति-यैर्नरकप्राप्त्यर्थमेव कर्मानुष्ठितं ब्रह्महत्यागुरुदारगमनादिलक्षणं, तेषां नारकाणां नारकत्वस्याशुभावित्वमाश्रित्य तेषां नारकाणां नास्ति दृष्टजन्मवेदनीयफलः कर्माशयः [येन फलं] आरभ्यते ॥ 

[ भाष्यम् ]

क्षीणक्लेशानामपि नास्त्यदृष्टजन्मवेदनीयः कर्माशय इति ॥ १२ ॥

[ सूत्रम् ]

   । सति मूले तद्विपाको जात्यायुर्भोगाः ॥ १३ ॥

[ भाष्यम् ]

 सत्सु क्लेशेषु कर्माशयो विपाकारम्भी भवति नोच्छिन्नक्लेशमूल: । यथा तुषावनद्धाः शालितण्डुलाः अदग्धबीजभावाः प्ररोहसमर्था भवन्ति,

[ विवरणम् ]

 कथं पुनर्नारकाणां कर्मारम्भस्तिर्यगादीनां देवतानां च ? मनुष्याणां हि कर्माधिकारः । एषा च कर्मभूमिर्न नरकादिरित्युच्यते---न-नहुषादीनां कर्मदर्शनात् । श्रूयते च शतक्रतोरपि वृत्रादिवधेन ब्रह्महत्याप्राप्तिर्योगाद्यनुष्ठानश्रवणं च ।

 यन्मनुष्याणां कर्माधिकार: इयं च कर्मभूमिरिति, तत्क्षिप्रफलसिद्ध्यपेक्षम् । तदुक्तम्-'[२३]क्षिप्रे हि मानुषे लोके सिद्धिर्भवति कर्मजा” इति । व्यासेन कीटोपाख्यान(श्रव)स्मरणाच्च तिरश्चामपि कर्मोपपत्तिः ॥

 किञ्च-देहेन्द्रियादिमतः क्रियोपपत्तेः । क्रियाणां च कायवाङ्मनःप्रभवानां फलारम्भकत्वे, क्लेशपूर्वकत्वात् ।

 क्षीणक्लेशानामपि सम्यग्दर्शिनामपि नास्त्यदृष्टजन्मवेदनीयः कर्माशयः क्लेशाभावादेव। न हि वीतरागो जातो दृश्यते । क्लेशानां कर्मारम्भ इव कर्मफलारम्भेऽपि हेतुत्वात् । क्षीणक्लेशस्यापि ज्ञानप्राप्तेः प्रागारब्धो दृष्टजन्मवेदनीयः सम्भवति कर्माशयः प्रवृत्तफलत्वान्मुक्तशरवदिति ॥ १२ ॥

 किञ्च-सति मूले तद्विपाको जात्यायुर्भोगाः । मूलं हि कर्मणां क्लेशः । अस्मिन् सति मूले क्लेशेषु सत्स्वित्यर्थः । तस्य लोभक्रोधप्रभवस्य पुण्यापुण्यकर्माशयस्य विपाकः फलनिष्पत्तिः तद्विपाकः । किं पुनस्तत्फलमित्याह-- जात्यायुर्भोगाः

 भाष्यं 'सत्सु क्लेशेषु कर्माशयो विपाकारम्भी भवति नोच्छिन्नक्लेशमूल' इति, मूलस्य व्याख्यानम् । तत्र सत्सु क्लेशेषु कर्माशयो विपाकारम्भीत्यस्य दृष्टान्तमाह-यथा तुषावनद्धाः शालितण्डुला अदग्धबीजभावाः ॥


[ भाष्यम् ]

नापनीततुषा दग्धबीजभावा वा, तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवति, नापनीतक्लेशो न प्रसंख्यानदग्धक्लेशबीजभावो वेति । स च विपाकस्त्रिविधो जातिरायुर्भोग इति ।

तत्रेदं विचार्यते---

[ विवरणम् ]

 तुषावनद्धा अपि कदाचिद्दग्धबीजभावा न प्ररोहसमर्था भवन्ति । अदग्धबीजभावा अपेि व्यपनीततुषा न प्ररोहायालं भवन्ति । उभयथा च दार्ष्टान्तिकप्रतिपादनार्थं दृष्ठान्तविकल्प: ।

 कथम् ? तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवति क्लेशोपबन्धः तुषावनद्धशालितण्डुलवत् । नापनीतक्लेशो {न प्रसंख्यान} दग्धक्लेशबीजभावो वेति । अपनीततुषशालितण्डुलवदपनीतक्लेशो न विपाकप्ररोही ॥

 योगाङ्गानुष्ठानक्लेशक्षयपूर्वसम्यग्दर्शनानां योगिनाम[न]पनीतक्लेशोऽप्य न] पनीततुषदग्धबीजशक्तिशालिवद्योगाङ्गानुष्ठानप्रणालिकेवलसम्यग्दर्शनानलदग्धबीजसामर्थ्यो न विपाकप्ररोही भवति ।

 तथा च व्यासः सांख्यानां योगिनां च पृथङ्मोक्षं दर्शयति ॥

 "बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः ।  ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः ॥” इति ।

 तथा “योगैश्वर्यमतिक्रान्तो योगी मुच्येत" इत्यादि । वक्ष्यति चात्रापि प्राप्ताप्राप्तैश्वर्येयोगयोः कैवल्यम् ॥

 कतिप्रकारोऽसौ विपाक इत्याह-स च विपाकस्त्रिविधः जातिरायुर्भोग इति ।

 तत्रेदं विचार्यते । किं पुनर्विचारफलम् ? उच्यते-एकैकेन प्राणिना विरुद्धफलानि भूयिष्ठान्येकस्मिन्नेव जन्मनि कर्मणि क्रियन्ते । तद्यथा

 "शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ।

 वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥"

[ भाष्यम् ]

किमेकङ्कर्मैकस्य जन्मनः कारणम् ? अथैकं कर्मानेकं जन्माऽऽक्षिपतीति ।

 द्वितीया विचारणा-किमनेकं कर्मानेकं जन्म निर्वर्तयति ? अथानेकं कर्मैकं जन्म निर्वर्तयतीति ।

[ विवरणम् ]

 स्वर्गार्थानि च तावदनुतिष्ठति । नरकप्रापीणि च कर्माणि । तत्रैकस्य ब्रह्महत्यादिकर्मणोऽनेकजन्मकारकत्वं श्रूयते [२४]श्वसूकरखरोष्ट्राणामेत्यादिस्मृतेः ॥

 तत्र विरुद्धदेशकालनिमित्तविपाकानां कर्मणामेकजन्मारम्भे विरुद्धविपाकतादर्थ्यं ह्रीयेत । ततश्च तादर्थ्यचोदनाः कर्मणां बाध्येरन् ॥

 अथ पर्योयेण जन्मारम्भित्वं, कर्मणामसंख्येयत्वात् केनचिदेव फलमारब्धं नान्यैरिति, तत्र नियमानुपपत्तिः, केनारब्धः केन वा नेति । तथा च कर्तॄणां कर्मफलं प्रत्य(प्य)विस्रम्भादुत्साहविभङ्गः स्यात् अभ्युदयनिश्रेयसप्रवृतिषु ।

 अथान्यतमेनारम्भे विनाश एवान्येषामिति, तथाऽपि स एव दोषः, किं विनष्टं किमारम्भकमित्यनियमात् ।

 अथाविनाश एव, तथाप्यवशिष्टस्यारम्भकालाभावो मोक्षाभावश्चेति । तस्मात्प्रवृत्तिनिवृत्तिशास्त्रार्थवत्वप्रतिपादनार्थमिदं विचार्यते ॥

किमेकं कर्म एकस्य जन्मनः कारणं स्वर्गादिप्राप्तिनिमित्तेषु बहुषु कर्मसु सत्सु । अथैकं कर्मानेकं जन्माक्षिपतीति प्रथमा विचारणा । विरुद्धपक्षद्वयालम्बिनी हि विचारणा एकैव स्यात् ॥

 द्वितीया विचारणा-किमनेकं कर्मानेकं जन्म निर्वर्तयति विरुद्धफलमविरुद्धफलं वा । अथानेकं कर्मैकं जन्म निर्वर्तयति विरुद्धफलमविरुद्धफलं वा ॥


[ भाष्यम् ]

 न तावदेकं कर्मैकस्य जन्मनः कारणम् । कस्मात् ? अनादिकालप्रचितस्यासंख्येयस्यावशिष्टस्य कर्मणः सांप्रतिकस्य च फलक्रमानियमादनाश्वासो लोकस्य प्रसक्तः, स चानिष्ट इति । नचैकं कर्मानेकस्य जन्मनः कारणम्

[ विवरणम् ]

 किञ्चात: ? न तावदेकं कर्मैकस्य जन्मनः कारणम् । कस्मात्? बहुषु कर्मसु सत्स्वेकमेव कर्म जन्मैकं नारभत इति ॥

 यद्येकस्यैव जन्मारम्भित्वं, तदा अनादिकालप्रचितस्य संसारानादित्वादेकैकेन पुरुषेणासंख्येयमेकैकस्मिन् जन्मनेि कर्म प्रचीयते विरुद्धफलमविरुद्धफलं च ॥

 तत्र अवशिष्टस्य जन्मारम्भिकर्मव्यतिरिक्तस्य असङ्ख्येयस्य अनेकजन्मान्तरप्रचितस्य कर्मणः कर्मकलापस्य साम्प्रतस्य च वर्तमानजन्मप्रचितस्यानारब्धकार्यस्य फलक्रमानियमात् किं पूर्वजन्मोपचितकर्मराशिगतस्य कस्यचिदेव भविष्यज्जन्मारम्भित्वं, आहोस्विदिदानीन्तनजन्मकर्मराशिगतस्य कस्यचिदिति फलक्रमो न नियम्येतेति अनाश्वासो लोकस्य ॥

 किं पूर्वजन्मकर्मणा दुष्टेनादुष्टेन वा फलमारब्धव्यम् ? अथेदानीन्तनकर्मणा दुष्टेनादुष्टेन वा? इत्यविस्रम्भात् न कश्चिदग्निहोत्रादि कुर्वीत । नापि मोक्षाय समीहेतेत्यनाश्चासः प्रसक्तः, स चानिष्टः ।

 इदानीं प्रथमविचारणायां द्वितीयं पक्षं निराकरोति-न चैकं कर्मानेकस्य जन्मनः कारणम् । कस्मात् ? एकैकस्मिंस्तावज्जन्मनि अनेकं कर्मानुष्टीयते, तत्रैकैकमेव चेत्कर्मानेकस्य जन्मविपाकस्य जन्मपरिणामस्य निमित्तं भवेत्, ततोऽवशिष्टस्य आरब्ध कार्यादन्यस्य विपाककालाभावः प्रसक्तः, स चाप्यनिष्टः । फलक्रमानियमश्चेति पूर्वदोषोऽपि । नैवंभूतमनिष्टमभ्युपगन्तव्यम् । यत्तु ब्रह्महत्यादिकर्मणामेकैकस्यानेकजन्मारम्भित्वं, तस्य शास्त्रगोचरत्वात् ब्रह्महत्यादिविषयत्वमेवाभ्युपगम्यते ॥ 

[ भाष्यम् ]

। न चानेकं कर्मानेकस्य जन्मनः कारणम् । कस्मात् ? तदनेकं जन्म युगपन्न सम्भवतीति क्रमणैव वाच्यम् । तथा च पूर्वदोषानुषङ्गः ॥ ।

 तस्माज्जन्मप्रायणान्तरे कृतः पुण्यापुण्यकर्माश[२५]यप्रचयो विचित्रः प्रधानोपसर्जनभावेनावस्थितः प्रायणाभिव्यक्त एकप्रघट्टकेन मरणं प्रसाध्य संमूर्छित एकमेव जन्म करोति । तच्च जन्म तेनैव कर्मणा लब्धायुष्कं भवति । तस्मिन्नायुषि तेनैव कर्मणा भोगः सम्पद्यत इति ।

[ विवरणम् ]

 द्वितीयविचारणायामिदानीं प्रथम: पक्षो निराक्रियते-न चानेकं कर्मानेकस्य जन्मनः कारणम् । कस्मादेवं नाभ्युपगम्यते ? तदुच्यते, तदेवानेकं जन्म युगपन्न सम्भवति एकस्यानीश्वरस्य । ततश्च क्रमेण वाच्यमाने किमेकमनेकं जन्मारभत इति । तथा च पूर्वदोषानुषङ्गः सर्वत्र प्रथमदोषानुषङ्गः फलक्रमानियमादनाश्वास इति ॥

 तस्मात् एवं पक्षत्रयानुपपत्ताविदानीं सिद्धान्तमुपसंहरति-—जन्मप्रायणान्तरे जन्ममरणयोरन्तरे मध्ये कृतः पुण्यपापकर्माशयः अविरुद्धजन्मदेशनिमित्त इति वाक्यशेषः । विरुद्धजन्मदेशनिमित्तः पुनः अदृष्टजन्मवेदनीयः अप्रतिनियतविपाकः । तस्य त्रिधा विनियोगं वक्ष्यति । तस्मादविरुद्धफलस्यैव पुण्यापुण्यकर्माशयस्यायं नियम उच्यते |

{{gap}}प्रचयविचित्रः तुल्यातुल्यानेककर्मप्रचितत्वात्प्रचयेन विचित्रः । प्रधानोपसर्जनभावेनावस्थितः किञ्चित्कर्म कस्यचित्कर्मणः प्रधानमपि कस्यचिदन्यस्योपसर्जनमुपसर्जनमपि प्रधानमित्येवमनेककर्मशबलिम्नाऽवस्थितः ॥

{{gap}}प्रायणाभिव्यक्तः यथा बीजक्षेत्रसंस्कारसंयोगोऽङ्कुरभावाभिव्यक्तिकारणं, तथा प्रायणमप्यविरुद्धानां कर्मणामभिव्यक्तिनिमित्तम् । एकप्रघट्टकेन एकलोलीभावेन समुच्चितः एकीभूतः एकमेव जन्म करोति ॥

{{gap}}तच्च जन्म तेनैव प्रायणाभिव्यक्तात्मना कर्मणा लब्धायुष्कं भवति । तस्मिन्नायुषि तेनैव कर्मणा भोगः सम्पद्यते, येन जन्मायुषी कृते । यथा येन बीजेनाङ्कुरो निर्वृत्तस्तेनैव फलपुष्पादयोऽपि ॥


[ भाष्यम् ]

 असौ कर्माशयो जन्मायुर्भोगहेतुत्वात्रिविपाकोऽभिधीयत इति । अत एकभविकः कर्माशय उक्त इति ।

 दृष्टजन्मवेदनीयस्त्वकविपाकारम्भी भोगहेतुत्वात्, द्विविपाकारम्भी वा आयुर्भोगहेतुत्वात् , [२६]नन्दीश्वरवत्, नहुषवद्वेति । क्लेशकर्मविपाकानु-

[ विवरणम् ]

 तेन च कर्मणा भोगायुर्नेिर्वृत्तिर्भवत्येवेत्येवधार्यते । न पुनरन्यस्यायुर्भोगादिनिमित्तस्य पुत्रपशुकामादियागादेः पुत्रायुरादिप्राप्तेर्हेतुत्वं निराक्रियते । इतरथा हि सर्वश्रुतिस्मृतिविप्रकोपः स्यात् । तस्मात्तेनैव कर्मणेति जन्ममात्रमारभ्य कृतकार्यत्वाद्विनिवृत्त्याशङ्कानिषेधमात्रं क्रियते ॥

 असौ कर्माशयो जन्मायुर्भोगहेतुत्वात् त्रयो विपाका जन्मादयो यस्य स त्रिविपाकोऽभिधीयते । अयमैकभविकः कर्माशय उक्तः एक(एव)- जन्मप्रयोजन एकभविकः ।

{{gap}}दृष्टजन्मवेदनीयस्त्वेकविपाकारम्भी यथा-पुत्रग्रामादिकामयागः । द्विविपाकारम्भी वा भोगायुर्हेतुत्वात् । यथा आयुरादिकामयागः । त्रिविपाकारम्भी वा नन्दीश्वरनहुषवत् ॥

 ननु च नन्दीश्वरनहुषयोर्दृष्टजन्मवेदनीयत्वं त्रिविपाकारम्भित्वं च विरुद्धम् । दृष्टं हि जन्म नन्दीश्वरस्य मनुष्यत्वम् । यत्पुनर्नन्दीश्वरस्य देवत्वं, नहुषस्य चाजगरत्वं तत् द्वयमप्यदृष्टं, न हि मनुष्यत्व एव देवत्वं संवेद्यं नन्दीश्वरस्य, नापि देवत्व एव नहुषस्याजगरत्वं संवेद्यमिति, कथं त्रिविपाकारम्भित्वं दृष्टजन्मवेदनीयत्वं चेति ॥

 नैष दोषः । दृश्यमानजातिविशिष्टमेव शरीरं तयोर्जात्यन्तरत्वेन परिणतम् । न च यथाऽन्येषां दृष्टजातिविशिष्टशरीरोपमर्देन जात्यन्तरोपादाननिषेकादिनिमित्तापेक्षया जात्यन्तरप्राप्तिः, तथा नन्दीश्चरनहुषयोः । तस्मात् त्रिविपाकारम्भित्वं दृष्टजन्मवेदनीयत्वं चेत्युदाहृतम् ।

 तत्र त्रिविध: कर्मराशिर्दृष्टजन्मवेदनीयश्चादृष्टजन्मवेदनीयश्च । दृष्टजन्मवेदनीयस्त्वनियतविपाक: कदाचिद्भोगहेतुरित्येकविपाकः । कदाचिद्भोगायुर्हेतुत्वात् द्विविपाकः । कदाचित् जात्यायुर्भेगहेतुत्वात् त्रिविपाको नन्दीश्वरनहुषयोरिव ॥


[ भाष्यम् ]

 भवनिर्वर्तिताभिस्तु वासनाभिरनादिकालसंमूर्छितमिदं चित्तं विचित्रीकृतमिव सर्वतो मत्स्यजालं ग्रन्थिभिरिवाऽऽततमित्येता अनेकभवपूर्विका वासनाः । यस्त्वयं कर्माशय एष एवैकभविक उक्त इति । ये संस्काराः स्मृतिहेतवस्ता वासनाः, ताश्चानादिकालीना इति ।

 यस्त्वसावेकभविकः कर्माशयः स नियतविपाकश्चानियतविपाकश्च ।

[ विवरणम् ]

 अदृष्टजन्मवेदनीयस्तु द्विविधो नियतविपाकश्चानियतविपाकश्च । नियतविपाकस्तु प्रदर्शितः तस्माज्जन्मप्रायणान्तरे कृत इत्यादिना । यस्त्वनियतविपाकः स त्रिविधो वक्ष्यते ॥

 इदानीं तु कर्मविपाकजनितो वासनाराशिरपर आख्यायते-—क्लेशकर्मविपाकानुभवनिर्वर्तिताभिः क्लेशानुभवश्व कर्मानुभवश्च विपाकानुभवश्च क्लेशकर्मविपाकानुभवाः, तैर्निर्वर्तिताभिः वसनाभिः संस्कारैः अनादिकालसंमूर्छितमिदं चित्तं चित्रीकृतमिव पटकुड्यादिवत् सर्वतो मत्स्यजालं ग्रन्थिभिरिवाततं व्याप्तम् ॥

 अथैकैकस्मिन् जन्मनि अनेकभवपूर्विका वासनाः कर्मणि विपाके च तदङ्गीभावेन व्याप्रियन्ते । न हि वासनायाः कर्मविपाकानङ्गभावे सति जातमात्रस्य पृषदंशदारकस्य वृषयुवानं प्रति स्फुरितपरिकोपस्यावस्कन्दनं जाघटीति । न च सकृदनुभववासनामात्रतया तेन शक्यं भवितुम् ॥

{{gap}}यत्स्वयं कर्माशयः यस्त्वयं जन्मप्रायणान्तरे कृतोऽविरुद्धजन्मदेशनिमित्तः प्रधानोपसर्जनीभावेन त्रिविपाकारम्भी एष एवैकभविक उक्तः । न दृष्टजन्मवेदनीयः, नाप्यनियतविपक्तिरदृष्टजन्मवेदनीयः, नापि च वासनाः ।

 तासां तावत्स्वरूपमाह---ये संस्काराः स्मृतिहेतवस्ता वासनास्ताश्चानादिकालीनाः, संसारस्य क्लेशकर्मविपाकानुभवरूपस्यानादित्वात् ।

 यस्त्वसावेकभविकः कर्माशयः पूर्वोक्तस्तस्यापवाद उच्यते एकदेशस्य । कथं ? स नियतविपाकश्चानियतविपाकश्च । कोऽसौ नियतविपाकः ? यः प्रायणाभिव्यक्तः कार्यमारभते । स एव चैकभविकः ॥  यस्तु विरुद्धजन्मदेशकालनिमित्तः सोऽदृष्टजन्मवेदनीयत्वसामान्ये सत्यप्यनियतविपाकः । कस्मात्? नियतविपाकेन विरोधात् । न चायमेकभविक, विरोधादेव । यत्त्वस्यैकभविकत्वमुक्तं, यस्त्वसावेकभविक: कर्माशय इति तददृष्टजन्मवेदनीयत्वसामान्येन ॥

 ननु च यद्येवं जन्मप्रायणान्तरे कृतः पुण्यपापकर्माशयः प्रचयविचित्रः प्रधानोपसर्जनभावेनावस्थितः प्रायणाभिव्यक्तः 'एकप्रघट्टेन सम्मूर्छित एकजन्म करोतीत्येवमादिनियमो विरुध्येत । कुतः ? प्रायणस्य सर्वपूर्वकर्माभिव्यञ्जकत्वात्, आशयाधारोपमर्देन चाशयान्तरोत्पत्तेः, मानुष्यकाशयाधारे पूर्वं दैवतैर्यग्योनाशयानां समवस्थानं, तदाधारोपमर्दनकाले च प्रायणे साधारणे सर्वकर्मभिव्यक्तिकारणे दैवतैर्यग्योनाशयानां कस्यचिदेवाभिव्यक्तिर्नेतरेषामिति नास्ति हेतुः । न हि स्वगोचरापन्नं व्यङ्ग्यमेकदेशपरित्यागेनाभिव्यनक्ति प्रदीपः ॥

 अत्रोच्यते-नैतद्युक्तं, कर्मानर्थक्यप्रसङ्गात् | बहुप्रकाराणि हि कर्माणि परस्परविरुद्धानि क्रियन्ते । यो हि स्वर्गार्थं कर्म कृतवान् स एव पशुग्रामाद्यर्थं कर्मानुष्ठाय पुनर्ब्रह्महत्यां वा स्थावरादिप्राप्यर्थं वा बलवत्कर्मानुतिष्ठेत् । तत्र नरकस्थावरादिप्राप्तस्य न हि पशुग्रामादिलाभसंभवः । ततश्च तत्कर्मणामानर्थक्यं प्रसज्येत ॥

 अथ तत्रापि ग्रामादिलाभसुखं भवतीति चेत्-न हि ग्रामकाम इत्युक्ते ग्रामसुखत्वमभिप्रेतम् । न हि ग्रामसुखं प्राप्तो ग्रामं प्राप्तवान् ॥

 किञ्च-सर्वशास्त्रविप्रकोपश्च स्यात् । अदृष्टानां च स्वर्गनरकादीनां सुखदुःखमात्रप्रसङ्गः । ‘ततः[२७] शेषेण' इति शेषसद्भावज्ञापनश्रुतिस्मृतयो बाध्येरन् । तस्मान्न सर्वं कर्म प्रायणेऽभिव्यज्यते । अत्यन्तविरुद्वानां कर्मणामानर्थक्यप्राप्तेः । कर्मशास्त्रानर्थक्ये च मोक्षशास्त्रेऽप्यनाश्वासप्रसङ्गः ॥

 अभिव्यञ्जकानामपि कस्यचिदभिव्यञ्जकत्वं कस्यचिन्नेति दृश्यते व्यभिचारः । यथा चक्षुषो रूपाभिव्यञ्जकत्वेऽपि चैत्रोलूकचक्षुषोरहोरात्रयोरितरेतरव्यभिचारः । आलोकस्य च समाने सर्वचक्षुस्सहकारित्वे, नोलूकचक्षुस्सहकारित्वम् । एकस्मिंश्च स्त्र्यादिपिण्डे सुखदुःखमोहानां सर्वेषामभिव्यक्तिनिमित्तेऽपि कस्यचिदेवाभिव्यक्तिः ॥


 तत्र कर्माद्यपेक्षया विरोधाददोष इति चेत्-इहापि विरोधादनभिव्यक्तिः सर्वकर्मणाम् । न चापि बीजाधारे क्षेत्रे उपमर्द्यमाने जलादिनिमित्तसंयोगे सत्यपि तद्गतानां बीजानां विरुद्धजातीयानामङ्कुरादिकार्यारम्भित्वम् । एवं मानुष्यकालीनाशयाधारेऽप्युपमर्द्यमाने, न विरुद्धजातीयदेवतैर्यग्योनाशयानां सर्वेषां युगपद्वृत्तिलाभः ॥

 न च प्रायणमेव कर्मणामभिव्यञ्जकम् । दृष्टजन्मवेदनीयानां भोगार्थानां दर्शनात् । येषां प्रायणमेवाभिव्यञ्जकं तेषां सर्वेषां भवत्वभिव्यक्तिरिति चेत्--न--विरोधाद्दैवतैर्यग्योनमानुष्यकाशयानाम् ॥

 प्रायणानां च भूतभविष्यत्कालविशेषैर्वेि(षावि)शेषोपपत्तेर्न सर्वकर्माभिव्यञ्जकत्वम् । प्रायणविशेषश्रवणाच्च प्रायणभेदः यथा-‘यं यं [२८]वापि स्मरन्भावं त्यजत्यन्ते कळेबरम्' इति स्मरणविशेषभेदात् प्रायणभेदः । तस्मान्न सर्वकर्माभिव्यञ्जकत्वं प्रायणस्य । अन्यथा विशेषणानर्थक्यप्रसङ्गात् ॥

 न च स्मरणादिविशेषणेन प्रकृतस्यान्यथात्वं नाशो वा स्यात् । तन्नाशान्यथात्वकरणे हि स्मरणस्य प्रकृतकर्मसहकारित्वं न स्यात् । स्वतन्त्रं हि स्मरणं स्यात् । तथा चानुष्ठितकर्मनैरर्थक्यं भवेत् ।

 किंच-कललाद्यवस्थासु मृतानां मोक्षप्रसङ्गः । कर्मनारम्भात् । तासां फलत्ववत्त्कर्मत्वमपीति चेत्---न--करणाव्यूहात् । करणेषु हि व्यूहितेषु कर्मणां वृत्तिलाभः फलत्वं च । न तदा तद्व्यूह उपपद्यते ॥

 स्वप्नवदिति चेन्न । तत्रापि कर्मानभ्युपगमात् । श्रुतिश्च ‘स यत्तत्र किंचित्पश्यत्यनन्वागतस्तेन[२९] भवति' इति कर्मणा स्वप्नदर्शनजेनासम्बन्धं दर्शयति । न कश्चित्स्वप्नैरपराधवानस्ति । ब्रह्महत्यादिकरणदर्शनात् । अथ स्कन्नप्रायश्चित्तादिदर्शनान्नेति चेन्न, रेतस्स्कन्दननिमित्तत्वात्प्रायश्चित्तस्य ॥

 तस्माद्यद्यपि स्वप्नाद्यवस्थायामिव कललाद्यवस्थासु फलमभ्युपगम्यते, तथाऽपि करणव्यापाराभावात् स्वप्नावस्थावदेव फलमात्रं तत्, न कर्मकर्तृत्वमिति मोक्षप्रसङ्ग एव गर्भप्रसृतानामापतित इति ॥


[ भाष्यम् ]

 तत्रादृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायं नियमो, न त्वदृष्टजन्मवेदनीयस्यानियतविपाकस्य । कस्मात्? यो ह्यदृष्टजन्मवेदनीयोऽनियतविपाकस्तस्य त्रयी गतिः-कृतस्याविक्वस्य नाशः, प्रधानकर्मण्यावापगमनं वा, नियतविपाकप्रधानकर्मणाऽभिभूतस्य वा चिरमवस्थानमिति । तत्र कृतस्याविपक्वस्य नाशो यथा- शुक्लकर्मोदयादिहैव नाशः कृष्णस्य ॥

[ विवरणम् ]

 तस्मान्न सर्वकर्माभिव्यञ्जकत्वं प्रायणानां, तेषां च विशेषोपपत्तेरित्यत इदमुच्यते--तत्रादृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायं नियमो योऽसौ ‘जन्मप्रायणान्तरे कृत' इत्येवमादिभाष्येण त्रिविपाकारम्भित्वनियम उक्तः, न तु अदृष्टजन्मवेदनीयस्य अनियतविपाकस्य । कस्मात् ? यस्त्वदृष्टजन्मवेदनीयः अनियतविपाकस्तस्य त्रयी गतिः ॥

 कथम् ? कृतस्याविपक्वस्य विनाशः नाशकालमप्राप्तस्यैव नाश: । यथा---प्रायश्चित्तादिना प्रतिषिद्धस्य कृतस्य नाशः ॥

 प्रधानकर्मण्यावापगमनं प्रधानकर्मणि नियतवेदनीये आवापापत्तिः प्रधानकर्मफलातिरस्कारेण स्वयमपि मन्दमन्दं फलं मध्यमनुप्रविश्य प्रयच्छति । यथा-सकलेषु तण्डुलेषु विपच्यमानेषु असकला अपि तण्डुलकणा उप्ता अल्पीयांसमर्थं साधयन्त्येव । नियतविपाकप्रधानकर्माभिभूतस्य वाऽप्यवस्थानं नियतविपाकं यत्प्रधानकर्म प्रारब्धफलं तेनाभिभूतस्य न्यक्कृतस्य विरुद्धदेशकालनिमित्तविपाकत्वादवस्थानमू । यथा-विजिगीषमाणयोरन्यतरेण प्रवृत्तराज्येनाभिभूतस्येतरस्यावस्थानं देशकालनिमित्तापेक्षया ॥

 तत्र कृतस्याविपक्वस्य नाशो यथा शुक्लकर्मोदयादिहैव तपस्स्वाध्याययोगादिलक्षणस्य शुद्धस्योदयात् प्रायश्चित्तादिलक्षणस्य च, कृष्णस्य अशुद्धिरूपस्य हिंसादिलक्षणस्य प्रागेव वृत्तिलाभात् नाशः । इहैवेति त्वविवक्षितम् । जन्मान्तरेऽपि प्राग्वृत्तिलाभान्नाशोपपत्ते: । यथा कौनख्यादिनिमित्तपापविशेषाणां कौनख्यादिचिह्नैरवगम्य प्रायश्वित्तेन नाश: क्रियते ॥

[ भाष्यम् ]

 यत्रेदमुक्तम्-"द्वे द्वे ह वै कर्मणी वेदितव्ये पापकस्यैको राशिः पुण्यकृतोऽपहन्ति । तदिच्छस्व कर्माणि सुकृतानि कर्तुमिहैव ते कर्म कवयो वेदयन्ते" ।

 प्रधानकर्मण्यावापगमनम् । यत्रेदमुक्तम् -ं"स्यात्स्वल्पः संकरः सपरिहारः सप्रत्यवमर्षः कुशलस्य नापकर्षयालम् । कस्मात् ? कुशलं हि मे बह्वन्यदस्ति यत्रायमावापं गतः स्वर्गेऽप्यपकर्षमल्पं करिष्यति" इति |

[ विवरणम ]

 तदेतत्तन्त्रान्तरप्रसिद्धेनोदाहरणेन व्याचष्टे---यत्रेदमुक्तं द्वे द्वे ह वै कर्मणी शुक्लकृष्णे जन्मनि जन्मनि साधकस्य पुरुषस्याधिकृतस्य । एको राशिः स्वाध्यायादिपुण्येन कृतः पुण्यकृतः अपहन्तीतरमपुण्येन कृतं राशिम् । अथ वा पुण्यकृतः पुरुषस्य शुक्लकर्मराशिः कृष्णकर्मराशिमपहन्ति । तदिच्छस्व तस्मात् स्वच्छकर्माणि स्वकीयानि कर्माणि शुक्लानि सुकृतानि कर्तुम् । कुतः ? यतः इहैव अत्रैव तव शर्म सुखं शान्तिं कवयो वेदयन्ते कर्मविपाकविभागज्ञाः ज्ञापयन्ति ॥

 प्रधानकर्मण्यावापगमनमुदाहरणेन प्रदर्श्यते-स्वल्पसङ्करः अल्पीयान्, दोषावकरः । कुतः ? सपरिहारः परिहारसहितः । परिहारमपेक्षते, न तु परिहृतः । परिहारशक्त्युणयविज्ञानसमानाश्रय इत्यर्थः । सप्रत्यवमर्शः सप्रत्यवेक्षणः । कथमकार्यं मया क्रियते कदा नु निस्तरिष्याम्येतत् न पुनः करिष्यामीत्यापदि प्रवृत्तस्याकार्यं कुर्वतः प्राणस्थित्यादिनिमित्तम् ॥

{{gap}}कुशलस्य कर्मफलदोषपरिहारादिविभागविशारदस्य विदुषः । नायमपकर्षाय नायं स्वल्पः संकरः पुण्यफलात्प्रवृत्ताद्बहुतरादपक्रष्टुं, अपकृष्य च स्वकार्ये नियोक्तुं पर्याप्तः । अथ वा, कुशलस्य कर्मण एव नायमपकर्षाय पर्याप्तः । कस्मात् ? कुशलं हि मे । साधक एवं मन्यते । शुभं यस्मान्मम बह्वन्यदस्ति यत्रायं यस्मिन् बहुनि शुभे अयं सङ्कर आवापगतः स्वर्गेऽप्यपकर्षमल्पं करिष्यतीति

[ भाष्यम् ]

 नियतविपाकप्रधानकर्मणाऽभिभूतस्य वा चिरमवस्थानम् । कथमिति ? अदृष्टजन्मवेदनीयस्यैव नियतविपाकस्य कर्मणः समानं मरणमभिव्यक्तिकारणमुक्तम्, न तु [३०]अदृष्टजन्मवेदनीयस्यानियतविपाकस्य ।  यत्त्वदृष्टजन्मवेदनीयं कर्मानियतविपाकं तन्नश्येदावापं वा गच्छेदभिभूतं वा चिरमप्युपासीत, यावत्समानं कर्माभिव्यञ्जकं निमित्तमस्य न विपाकाभिमुखं करोतीति । तद्विपाकस्यैव देशकालनिमित्तानवधारणादियं कर्मगतिश्चित्रा दुर्वेिज्ञाना चेति । [३१]न चोत्सर्गस्यापवादान्निवृत्तिरित्येकभविकः कर्माशयोऽनुज्ञायत इति ॥ १३ ॥

[ विवरणम् ]

{{gap}}नियतविपाकप्रधानकर्मभिभूतस्य वाऽप्यवस्थानम् । कथमिति दुष्टाभिप्रायः प्रश्नः । कथं ? प्रवृत्तराज्येनापरस्याप्रवृत्तराज्यस्याभिभवे युक्तो निमित्तभेदेन राज्यप्रवृत्तेः । इह तु निमित्तमाभिव्यञ्जकं मरणं सर्वेषां कर्मणां तुल्यं तस्मिंस्तु निमित्ते सति सर्वेषां कर्मणां वृत्तिलाभो युक्त इति प्रधानकर्माभिभवो न युक्त इतरस्येति मन्यते । ततश्चावापगमनमेवास्त्विति ॥

 अत्रोच्यते-तत्रादृष्टजन्मवेदनीयस्यैव अविरुद्धदेशकालविपाकादि निमित्तस्य नियतविपाकस्य पुण्यापुण्यरूपस्यानेकस्य कर्मणः समानं मरणमभिव्यक्तिकारणमुक्तम् । न तु दृष्टजन्मवेदनीयस्य पुत्रग्रामादिविषयस्य, अनियतविपाकस्य वा अदृष्टजन्मवेदनीयस्य यथाकृतव्याख्यानस्य ॥

 यत्त्वदृष्टजन्मवेदनीयमनियतविपाकं तन्नश्येदावापं वा गच्छेदभिभूतं वा चिरमप्युपासीत उदासीत, यावत्समानमविरुद्धं तुल्यजातीयमभिव्यञ्जकं निमित्तं कर्म । समानजातीयं हि कर्म विपच्यमानमेतदभिमुखं करोति ॥

 तद्विपाकस्यैव तस्यानियतविपाकस्य कर्मणो विपाकस्यैव । देशकालनिमित्तानवधारणात्कस्मिन्वा देशे कस्मिन्वा निमित्ते कस्मिन्काले वा तत्कर्म


[ सूत्रम् ]

  ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ १४ ॥

[ भाष्यम् ]

 ते जन्मायुर्भोगाः पुण्यहेतुकाः सुखफलाः, अपुण्यहेतुका दुःखफला इति । यथा चेदं दु:खं प्रतिकूलात्मकमेवं विषयसुखकालेऽपि दु:खमस्त्येव प्रतिकूलात्मकं योगिनः ॥ १४ ॥

[ विवरणम् ]

विपाकाभिमुखं भविष्यतीत्यनवधारणात् । इयं गतिश्चित्रा दुर्ज्ञाना च भवति । चित्रा नाशावापाभिभवादिवैचित्र्यात् । दुर्ज्ञाना देशकालनिमित्तानवधारणात् ॥

 ननु चादृष्टजन्मवेदनीयस्य प्रायणेऽभिव्यक्तस्य एकमेव जन्म करोतीत्येकजन्मारम्भित्वमुक्तम् - तदिदानीं नाशावापाभिभवावस्थानादिवचनाद्वाध्येतेति चेत-न-उपपादितोत्तरत्वात् अदृष्टजन्मवेदनीयस्य नियतविपाकस्येवायं नियम इति । न तस्योत्सर्गस्य अस्मादनियमापवादान्निवृत्तिरिति । कथं[न] निवृत्तिः ? एकभविकः कर्माशयो दुर्ज्ञान इत्येवं न निवृत्तिः । अनियतविपाकस्याप्येकजन्मारम्भित्वं न प्रतिषिद्धमित्यर्थ: ।

 अथवा, उत्सर्गस्यापवादान्निवृत्तिरिति मत्वा नैकभविकः कर्माशयो दुर्ज्ञान इत्यनेन नञ् संबध्यते । यस्मादुत्सर्गस्यैकदेशस्यापवादो निवर्तको न सर्वस्य, तस्मान्नियतविपाक एकभविकः कर्माशयः सुज्ञान एव ॥

 अपरः कल्पः--इह कर्मगतिर्ज्ञातव्येति प्रकृतं, तस्यायमपवाद एकभविकः कर्माशयो दुर्ज्ञान इति । तत्रेतिशब्दो हेत्वर्थे । यस्माद्धेतोरौत्सर्गिकस्य कर्मगतिज्ञानस्य प्रकृतस्य एतस्मादपवादान्न निवृत्तिरिति, तस्माद्यथा ज्ञेया कर्मगतिस्तथा ज्ञातव्यैव । दुर्ज्ञाना इति दुःखेन ज्ञेयत्वमुच्यते क्लेशेन ॥ १३ ॥

 कर्माशय उपव्याख्यातो दृष्टजन्मवेदनीयश्च अदृष्टजन्मवेदनीयश्च । तस्यापि त्रिविधा विपाका जात्यायुर्भोगाः ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् । ह्वाद: सुखं, परितापो दु:खं, ह्लादश्च परितापश्च ह्वाद परितापौ, तौ फलं येषां ते ह्लादपरितापफलाः । तथा पुण्यं च अपुण्यञ्च पुण्यापुण्ये, ते एव हेतू येषां ते पुण्यापुण्यहेतवः, तेषां भावः पुण्यापुण्यहेतुत्वं, तस्मात्पुण्यापुण्यहेतुत्वात् । ते जात्यायुर्भोगाः पुण्यहेतुका: सुखफलाः । अपुण्यहेतुका दुःखफलाः । यथेदं दुःखं प्रतिकूलात्मकमेवं विषयसुखकालेऽपि दु:खमस्त्येव प्रतिकूलात्मकं योगिनः ॥ १४ ॥

[ भाष्यम् ]

 कथं ? तदुपपाद्यते--

[ सूत्रम् ]

 परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥ १५ ॥

[ भाष्यम् ]

 सर्वस्यायं रागानुविद्धश्चेतनाचेतनसाधनाधीनः सुखानुभव इति तत्रास्ति रागजः कर्माशयः ।

[ विवरणम् ]

 कथं विषयसुखकाले योगिन: दु:खमस्ति ? तथा पूर्वत्र चोक्तं[३२] दु:खे सुखख्यातिं वक्ष्यतीति। तदुपपाद्यते प्रतिपाद्यते । तत्र चैतन्न प्रतिपादितम् । दुःखस्य कर्मकार्यत्वात्, कर्मानन्तरं प्रतिपादनं युक्तमिति, बहुवक्तव्यत्वाच्च । परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥

 परिणतिः परिणामः, तप्तिस्तापः, संस्कृतिः संस्कारः, तापश्च संस्कारश्च तापसंस्कारौ, परिणामश्च तापसंस्कारौ च परिणामतापसंस्कारा:, त एव दुःखा दुःखनिमित्तानि, एतैः परिणामतापसंस्कारदुःखैर्हेतुभिः सर्वमेव दुःखम् । किन्तत्सर्वं ? क्लेशा दुःखकारणत्वादेव हेतो: | कर्माणि ह्लादपरितापफलत्वात् जात्यायुर्भोगाश्च क्लेशादीनामाश्रयनिमित्तविषयाश्च दुःखहेतुत्वादित्येतत्सर्वमेव दुःखम् ॥

 किं सर्वस्यैव ? नेत्याह- विवेकिन इति । क्लेशादीनां विभागविवेको यस्य विद्यते स विवेकी ; तस्य क्लेशकर्मविपाकाभिज्ञस्य परिणामतापसंस्कारगुणवृत्तिविरोधात्मक(धाच्च)सर्वदुःखत्वोपपादक(प्रतिपादक)हेत्वभिदर्शिन इत्यर्थ: । नेतरस्यानित्यंदर्शिनः ॥

 तस्य तु तप्तिमात्रं दुःखम् । तदपि'अहं तप्य' इत्यात्मत्वेन प्रतिपद्यमानः तत्रापि संशयानोऽसौ ममेदं दुःखमित्येतावन्मात्रमपि विविङ्क्ते । यदि ह्येतावदप्यन्तरं विविञ्चीत, ततो दुःखसाधनमप्येतद्दुःख(साधन)मिति मन्वीत ।


[ भाष्यम् ]

 तथा च द्वेष्टि दुःखसाधनानि मुह्यति चेति द्वेषमोहकृतोऽप्यस्ति कर्माशयः । तथा, नानुपहत्य भूतान्युपभोगः सम्भवतीति हिंसाकृतोऽप्यस्ति शारीरः कर्माशय इति । विषयसुखं चाविद्येत्युक्तम् ।

[ विवरणम् ]

 तथा च सर्वमिदं दुःखमिति तितिक्षेदिति सोऽपि विवेकी स्यात् । तस्माद्यद्यपि तापकाले दुःखमात्रं पश्यन्ति, तथाऽपि न तत्साधनादि सर्वं दुःखमिति मन्यन्ते निर्विवेकिनः । यस्य पुनः परिणामदुःखहेतुदर्शनं तस्य विवेकिनः सर्वमेव दुःखम् ।

 तत्र तावत्परिणामदुःखतां व्याचष्टे--सर्वस्यायं रागानुविद्धः । सर्वस्येत्यनेन सर्वप्राणिप्रसिद्धत्वादव्यभिचारिप्रत्यक्षावगम्यत्वं दर्शयति । चेतनाचेतनाधीनः पुत्रपशुहिरण्यादिसाधनायत्तः सुखानुभव इति । सुखानुभवकाले रागो मनोव्यापार: तद्विशिष्टो हि सुखमनुभवति । स सर्वो व्यापार: क्लेशोपसंहितत्वाद्धर्माधर्महेतुः । तत्पूर्वश्च कर्माशयः प्रारब्धफल उपभुज्यते, भोगकाले चापर उपचीयते । ततश्च क्लेशमूल: कर्माशयः सति मूले तद्विपाक इत्युपपन्ने भवति ।

 तथा, सुखवेलायां सुखप्रत्यनीकभूतानि दुःखसाधनानि उपलभमानो द्वेष्टि, तथा सुखोपभोगपरिपालनव्यग्रतरमानसो मुह्यति चेति द्वेषमोहपूर्वव्यापार जनितोऽप्यस्ति कर्माशयः । अथवा द्वेषमोहावेव व्यापाररूपाविति तत्कृत एव |

 तथा, यश्चासौ सुखोपभोगः स नानुपहत्य नानुपहिंस्य भूतान्युपभोगः सम्भवतीति । उपभोग एवोपघातहेतुत्वादुपहन्तृत्वेन विवक्षित इति, समानकर्तकत्वम् । अन्योऽपि मदीयमेवोपभोक्ष्यत इति मन्यते, तत्रापि सर्वोपभोगसामर्थ्ययुक्तं धनमिति तस्मिन्नुपादीयमाने ध्रुवं परपीडा स्यात् । किमुत पीडयित्वैव यदुपादीयते । ततश्च हिंसाकृतोऽप्यस्ति कर्माशय: शारीरः । तदुपादानव्यापारस्य शरीरनिर्वर्त्यत्वात् ।

 एवमेकस्मिन्नुपभोगकाले बहुधा कर्माशयो लोभक्रोधमोहनिमित्त उपचीयते । तथा च रागद्वेषमोहविशिष्टत्वादनेकमुखकर्माशयविशिष्टः सुखानुभवः परिणममानः सन्ननुबन्धे दुःखीभवतीति परिणामदुःखतेत्युच्यते । विवेकिनस्त्वेवं पश्यतः सुखानुभवकालेऽपि दुःखमस्त्येव । तद्यथा-विषदिग्धतां ज्ञात्वा दध्योदनं भुञ्जानस्य ॥

[ भाष्यम् ]

 या भोगेष्विन्द्रियाणां तृप्तेरुपशान्तिस्तत्सुखम् । या लौल्यादनुपशान्तिस्तद्दुःखम् । न चेन्द्रियाणां भोगाभ्यासेन वैतृष्ण्यं कर्तुं शक्यम् । कस्मात् ? यतो भोगाभ्यासमनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणामिति ।

[ विवरणम् ]

 इतश्च सर्वं दुःखमेव, अविद्यात्वाद्विषयसुखस्य । अविवेकप्रत्ययात्मको हि विषयसुखानुभवः । तदेतदाह--विषयसुखं चाविद्येत्युक्तमिति । क्वोक्तम् ? इहैव पर्यायशब्देन "[३३]अत्यन्तविवि[भ]क्तयोरत्यन्तासङ्कीर्णयोरविवेकप्राप्ताविव सत्यां भोगः कल्पते । स्वरूपप्रतिलम्भे तु तयोः कैवल्यमेव भवति कुतो भोग इति"' इत्यनेन भाष्येण ॥

 यद्वा, सूत्रकारेणोक्तमुपरिष्टात् “[३४]प्रत्ययाविशेषो भोगः” इति । अविद्या च परिणममाना सर्वमनर्थं करोति । ततश्च दुःखबीजत्वाद्दुःखमेव विषयसुखम् । यथा व्याधिनिमित्तत्वात् स्वादुतरमपि भक्ष्यमाणम् । विषयसुखं चाविद्येत्यस्यैवार्थस्य प्रकाशनार्थं तन्त्रसिद्धमुदाहरणं दर्शयति--या भोगोष्विन्द्रियाणां भुज्यन्त इति भोगाः शब्दादयः तेषु निमित्तेषु या तृप्तिः तत इन्द्रियाणां उपशान्तिः उपशमः किमनर्थायासहेतुकया वृत्त्येति निराकुलतयावस्थानं तत् सुखम् ॥

 या तु लौल्यादीप्सया तृष्णात: सकाशादनुपशान्तिः अनुपरतिः तद्दुःखम् । तदुक्तम्-

"नास्ति तृष्णासमं दुःखं नास्त्यतृष्णासमं सुखम्' इति ॥

 ननु चोपभोगेनैव वैतृष्ण्यं भवति उपभोगान्ते । उपभोगश्व सुखं भविष्यति । तत आह--न चेन्द्रियाणां भोगाभ्यासेन शक्यं वैतृष्ण्यं कर्तुम् । कस्मात् ? अत आह--यतो भोगाभ्यासमनु विवर्धन्ते इन्द्रियाणां रागाः । तथा चोक्तम्

 “न जातु कामः कामानामुपभोगेन शाम्यति ।
 हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥" इति ।


[ भाष्यम् ]

 तस्मादनुपायः सुखस्य भोगाभ्यास इति । स खल्वयं वृश्विकविषभीत इवाऽऽशीविषेण दष्टः, यः सुखार्थी विषयानुवासितो महति दुःखपङ्के निमग्न इति । एषा परिणामदुःखता नाम प्रतिकूला सुखावस्थायामपि योगिनमेव क्लिश्नाति|

 अथ का तापदुःखता? सर्वस्य द्वेषानुविद्धश्चेतनाचेतनसाधनाधीनस्तापानुभव इति तत्रास्ति द्वेषजः कर्माशयः ।

[ विवरणम् ]

{{gap}}कौशलानि नैपुणानि च भोगाभ्यासेष्विन्द्रियाणामनु विवर्धन्ते । यद्यपि मन:कौशलपूर्वकमिन्द्रियाणां कौशलं, तथाऽपि दृश्यत एव भिक्षा[क्ष्वा]दीनामिन्द्रियस्यापि कौशलम् । तस्मादनुपायः सुखस्य भोगाभ्यास इति भोगाभ्यासान्निवृत्तिरेव सुखम् ॥

 स खल्वयं वृश्चिकभीत इवाशीविषेण दष्टो यः सुखार्थी विषयानन्ववसितः अन्ववबद्धः अनुप्रवृत्तोऽनुव्यवसितो वा, यथा मन्दविषाद्वृश्चिकादुपजातभीति: पटुतरेणाशीविषेण ग्रस्तो महतरं दु:खमभिप्रपद्यते,

 तथाऽयमप्रदुःखाभासायाः परिणाममहासुखाया निवृत्तो दुःखबुद्ध्या भीतः सन्नपारे महति दुखपङ्के मग्न इत्येषा परिणामदु:खता सुखस्य प्रतिकूला सुखावस्थायामपि योगिनः । स हि योगी प्रवृत्तवेपथुनैव हृदयेन प्रतिनियतवेदनीयस्य कुर्मणो बलीयस्त्वादनुभुङ्क्ते सुखम् । तस्मात् सर्वं दुःखं विवेकिनः ॥

 अथ तापदुःखता व्याख्यायते-सुखोपभोगस्तु परिणममानः सन्ननुबन्धे विज्ञाते विषदिग्धस्वादुदध्योदनोपभोगवद्द्दुःखीभवति, स्वरूपतः पुनरविद्यारूपोऽनुकूलवेदनागन्धोऽपि । इह पुनः स्वरूपत__एव दुःखता तापस्य प्रतिकूलात्मकत्वात् ॥

 कथम् ? सर्वस्य द्वेषानुविद्धः द्वेषानुगतः चेतनाचेतनसाधनाधीनः शत्रुकण्टकादिसाधनायंत्त: तापानुभवः पूर्ववदेवधर्मफलमनुभवतेि अपूर्वश्चोपचीयमानः तत्रास्ति द्वेषजः कर्माशयः ॥

[ भाष्यम् ]

 सुखसाधनानि च प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते, ततः परमनुगृहात्यपहन्ति चेति परानुग्रहपीडाभ्यां धर्माधर्मावुपचिनोति । स कर्माशयो लोभान्मोहाच्च भवतीत्येषा तापदुःखतोच्यते ।  का पुनः संस्कारदु:खता ? सुखानुभवात्सुखसंस्काराशयो दु:खानुभवादपि दुःखसंस्काराशय इति । एवं कर्मभ्यो विपाकेऽनुभूयमाने सुखे दु:खे वा पुनः कर्माशयप्रचय इति ।  एवमिदमनादि दु:खस्रोतो विप्रसृतं योगिनमेव प्रतिकूलात्मकत्वादुद्वेजयति ।

[ विवरणम् ]

 तेन च दुःखेन परितप्यमानः सुखसाधनानि चन्दनादीनि प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते चेष्टते । तच्च परिस्पन्दनं परानुग्रहाय परपीडनाय वा भवति । ततः परानुग्रहपीडाभ्यां धर्माधर्मावुपचिनोति । स च परानुग्रहपीडाकृतो धर्माधर्माख्यः कर्माशयो लोभान्मोहाच्च प्रभवतीत्येषा तावत् तापदु:खता द्राघीयसी विप्रसृता । एवं पश्यतो विवेकिनः सर्वमेवाश्रयविषयनिमित्तैर्दुःखमिति |

 अधुना ह्लादपरितापानुभवजनितसंस्कारदुःखमुच्यते---का पुनः संस्कारदु:खता? सुखानुभवात् सुखसंस्काराशय, दुखानुभवादपि दुःखसंस्काराशयः । सुखदुःखयो रागद्वेषानुविद्धत्वात्तत्संस्काराशयावपि रागद्वेषानुविद्धौ । एवं कर्मणो विपाके जात्यायुर्भोगाख्येऽनुभूयमाने सुखदुःखे भवतः ॥

 ततोऽपि सुखदु:खानुभवसंस्काराशय: यथा नैरन्तर्येण सुखदु:खानुभवस्तथैव तदनुभवसंस्कारावपि रागद्वेषानुविद्धौ निरन्तरतया भवतः । तौ च संस्काराशयौ क्रियाया उपभोगस्य चाङ्गीभवतः । एवं संस्काराशयस्य दुःखहेतुत्वम्। संस्कारहेतुकं संस्कारदु:खं, तथा च तत्संस्कारदुःखता । न ह्यस्मरन्नुपभोगाय क्रियायै वा साधनमुपादत्ते । स्मृतेश्च संस्कारनिमित्तत्वमुपपादितम् |

 यद्यपि संस्कारस्य स्वरूपतो दुःखता नास्ति, तथापि संस्कारस्य दु:खहेतुतां जानतो विवेकिन: सत्तामात्रेण दु:खत्वं, भक्षितमात्रविषवत् |इत्थमेतैः परिणामतापसंस्कारहेतुभिः सर्वमेव दुःखमित्यनादिदुःखस्रोतो योगिनमेव प्रतिकूलात्मकत्वादुद्वेजयति ॥

[ भाष्यम् ]

 कस्मात् ? अक्षिपात्रकल्पो हि विद्वानिति । यथोर्णातन्तुरक्षिपात्रे न्यस्तः स्पर्शेन दुःखयति, न चान्येषु गात्रावयवेषु, एवमेतानि दुःखान्यक्षिपात्रकल्पं योगिनमेव क्लिश्नन्ति, नेतरं प्रतिपत्तारम् । इतरं तु [३५]स्वकर्मोपहृतं दु:खमुपात्तमुपात्तं त्यजन्तं त्यक्तं त्यक्तमुपाददानमनादिवासनाविचित्रया चित्तवृत्या समन्ततोऽनुविद्धमिवविद्यया हातव्य[३६] एवाहङ्कारममकारानुपातिनं जातं जातं बाह्माध्यात्मिकोभयनिमित्तास्त्रिपर्वाणस्तापा अनुप्लवन्ते ।

[ विवरणम् ]

 ननु चेतरस्यापि प्रतिकूलात्मकमेव, कस्मान्न तमुद्वेजयति । नात्यन्तक्लेशादिकालुष्याविवेककिणीकृतचेतस्त्वादितरमुद्वेजयति । न प्रतिकूलात्मकता प्रभाव्यते । यो हि दयितामुष्टिघातं मुद्गराभिघातदेशीयमपि मस्तकेन प्रतीच्छति । पुत्रस्य वा मूत्रपुरीषमुरसा धारयति । असावानन्दमहोदन्वत्तरङ्गायमाणः [णं] स्वात्मन्यपि न वातितराम् [स्वात्मानमपि न वेति तराम्] । न हि तस्य तत्प्रतिकूलात्मकम् । रागमेव हि तदितरस्य प्रतिपत्तृत्वादभिवर्धयति तराम् ॥

 ननु च योगिनोऽपि तत्समानं निमित्तं, कस्मात्तमुद्वेजयतीति । उद्वेजयत्येव तम् । कस्मात् ? अक्षिपात्रकल्पो हि सः । प्रसन्नत्वाद्विरक्तत्वादित्यर्थः । तस्मान्न समानं निमित्तं तस्य, यतोऽसौ विद्वानिति । न हि विदुषः क्लेशादिकालुष्याविवेकाकिणीकृतचेतस्त्वम् । न च तत्किर्णीकृतचेतस्त्वतिरस्कारादृते विद्वत्ता । तस्मादक्षिपात्रकल्पत्वाद्विद्वांसमेवोद्वेजयति, नेतरम् ॥

 तत्र दृष्टान्ताभ्यां विद्वदविदुषोरन्तरमाचष्टे--यथोर्णातन्तुरतिमृदुस्पर्शोऽप्यक्षिपात्रे न्यस्तः स्पर्शेन दुःखयति स्वच्छतरत्वादक्षिपात्रस्य, तथा योगिनं विविक्ततरप्रज्ञानमकलुषहृदयमुद्वेजयति दुःखम् । स एवोर्णातन्तुरन्येषु गात्रेषु क्षिप्तः खरतरसंस्पर्शेनापि न दुःखयति, तथा नेतरं प्रतिपक्षारं दुःखं पीडयति, क्लेशादिकिर्णीकृतचेतस्त्वात् कठिनतरेतरगात्रावयवकल्पो हि सः ॥

 तदिदमाह--एवमेतानि दु:खानि अक्षिपात्रकल्पं योगिनमेव क्लिश्नन्ति नेतरं प्रतिपत्तारम् । इतरस्य तु प्रतिपत्तुरितरगात्रावयवस्वभावतां दर्शयन्नाह--इतरं त्विति । तापा अनुप्लवन्त इत्येवमन्तेन वाक्यसमाप्तिः ॥




[ भाष्यम् ]

 तमे(दे)वमनादिना दुःखस्रोतसा व्युह्यमानमात्मानं भूतग्रामं च दृष्ट्वा योगी सर्वदुःखक्षयकारणं सम्यग्दर्शनं शरणं प्रपद्यते इति ।

[ विवरणम् ]

 स्वकारणोपहृत् दुःखप्राप्तिनिमितैश्वेतनाचेतनादिभिरुपहृतमुपनीतं बुद्धिवृत्तिद्वोरण पुरुषस्य कर्मतामापादितं, दुःखमुपात्तं त्यजन्तं शरीरत्यागेन, अन्यत्र च त्यक्तं पुनरन्यं शरीरादिलक्षणमेव दु:खसमुदायमुपाददानमनादिवासनाचित्रया अविद्यया चित्तवृत्या सर्वतोऽनुविद्धमिव ॥

 इतरं प्रतिपत्तारं किंविशिष्टम् ? हातव्याहङ्कारममकारानुपातिनम् । कार्यकरणेषु तद्धर्मषु च क्रियागुणफलेषु विपर्ययेण प्रतिपत्तिरहङ्कारः । ममकारस्तु तेषु बाह्येषु च चेतनाचेतनेषु ममेति प्रत्ययः । तौ च विपर्ययत्वात् समस्तक्लेशकर्मविपाकबीजत्वाच्च हातव्यौ । न हि तावन्तरेण रागादयः कर्मविपाका वा समुदाचरन्ति । तस्माद्धातव्यौ तौ तावनुपतितुं शीलमस्येति हातव्याहङ्कारममकारानुपाती, तम् ॥

 जातं जातं अन्यगात्रावयवकल्पं बाह्याध्यात्मिकोभयनिमित्ताः बाह्यं देवता भूतानि च, आध्यात्मिकं कार्यं कारणं च, बाह्याध्यात्मिकानि चोभयानि च निमित्तं येषां ते बाह्याध्यात्मिकोभयनिमित्ताः ।

 त्रिपर्वाणः बाह्यादिनिमित्तमेव त्रिपर्वत्वम् । भूतभविष्यद्वर्तमानत्वं वा त्रिपर्वत्वम् । वक्ष्यति च “हेयं दुः[३७]खमनागतम्" इति । यद्वा, क्लेशकर्मविपाकात्मकत्वम् । यद्वा, परिणामतापसंस्कारदुःखत्वम् । अतस्ते त्रिपर्वाणस्तापा अनुप्लवन्ते अनुषज्यन्ति ।

 त(मे)देवं अविवेकं प्रतिपत्तारम् अनादिदु:खस्रोतसोह्यमानमात्मानं च दुःखमस्त्रोतसि मग्नं तथा भूतग्रामं च दृष्ट्वा योगी सर्वदु:खक्षयकरं सम्यग्दर्शनं शरणं प्रपद्यत इति ॥

 ननु च योगित्वादेव सम्यग्दर्शनं प्रतिपक्षः । उच्यते-योगाङ्गानुष्ठानादेव योगित्वं, ऋतेऽपि सम्यग्दर्शनात् । तस्मात् सम्यग्दर्शनसाधनत्वं योगस्य


[ भाष्यम् ]

 गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः । प्रख्याप्रवृत्तिस्थितिरूपा बुद्धिगुणाः परस्परानुग्रहतन्त्रीभूत्वा शान्तं घोरं मूढं वा प्रत्ययं त्रिगुणमेवाऽऽरभन्ते । चलं च गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तम् । रूपातिशया वृतिशयाश्च परस्परेण विरुध्यन्ते, सामान्यानि त्वतिशयैः सह प्रवर्तन्ते ।

[ विवरणम् ]

 दर्शयति । योगं योगफलं च सर्वमेव दुःखं पश्यन् सम्यग्दर्शनैकशरणं प्रतिपद्यते । तथा च वक्ष्यति--"[३८]तद्वैराग्यादपि दोषबीजक्षये कैवल्यम्" इति ॥

 इतश्च सर्वं दुःखं विवेकिनः । कुतश्च १ गुणवृत्तिविरोधाच्चापि। ननु च किमर्थं सूत्रे पृथग्विभक्तिक्रिया ? यावता परिणामतापसंस्कारगुणवृत्तिर्विरोधैरित्येव कर्तव्यम् । नैष दोषः । सुखदुःखानुभवतद्वासनाः सर्वाजनप्रसिद्धा इति परिणामतापसंस्कारदुःखैरिति निर्दिष्टाः । तत्कारणविभागज्ञानविशारदस्यैव विवेकप्रकर्षवतो गुणवृत्तिविरोधा विज्ञेया इति पृथक्करणम् । सर्वदुःखहेतुत्वसामान्यात्चेकसूत्रविन्यासः ॥

 गुणाः सत्त्वादयः , तेषां वृत्तयो गुणवृत्तयः, तासां विरोधाद्गुणवृत्ति- विरोधात् । ते च गुणा अन्तःकरणाद्याकारसन्निविष्टाः । तेषां गुणप्रधानभावेनाभिन्नपरिणामत्वाच्च विरुद्धवृत्तित्वं भवति । अन्यतमवृत्तिरुद्भवन्त्याऽन्यतमव्यृत्त्याऽभिभूयते ॥

 एवं त्रयाणामपि प्रतिक्षण(पक्ष)मन्योन्यवृत्तितिरस्कार इतरेतरवृत्त्युद्भावित्वं च । न सुखदुःखमोहात्मकानां गुणानामन्यतमवृत्तिलाभोऽन्यतमाननुसंहितः । तत एतत्सिद्धं भवति-यदा दुःखात्मकं रज उद्भवति, तदा दुःखत्वादेव तद्वृतेर्न दुःखमिति वक्तव्यम् । सत्त्वतमसोरपि रजोऽनुगतिरस्त्येवेतेि तयोरपि दुःखत्वमेव । सत्त्वतम-प्रवृत्तिनिवृत्त्योरपि रजोव्यापारानुजत्वाद्दुःखत्वमेव सर्वस्येति ।

 एतदुपव्याचष्टे--प्रख्याप्रवृत्तिस्थितिशीलाभिर्वृत्तिभिर्गुणाः परस्परानुग्रहतन्त्राः परस्परविरुद्धा अपि परस्परोपकार्योपकारकभावेन तैलवर्त्यग्निवत् शान्तं सात्त्विकं घोरं राजसं मूढं तामसं प्रत्ययं त्रिगुणमेवारभन्ते । इ(तरे)तरयोरङ्गभावेनानुगतत्वाद्यदा सात्त्विकः शान्तः प्रत्यय उद्भूतः सोऽनन्तरमेवोद्बुभूषता तमोऽनुसंहितेन घोरेण राजसेन प्रत्ययेन हन्यते ॥


[ भाष्यम् ]

 एवमेते गुणा इतरेतराश्रयेणोपार्जितसुखदुःखमोहप्रत्ययाः सर्वे सर्वरूपा भवन्तीति, गुणप्रधानभावकृतस्त्वेषां विशेष इति । तस्माद्दुःखमेव सर्वं विवेकिन इति ।

[विवरणम्]

 यदा च राजसो घोरः प्रत्यय इतरगुणानुगत उद्भूतो भवति सोऽनन्तरमेवोद्बुभूषता तामसेन प्रत्ययेन मूढेन सत्त्वानुगतेन सात्त्विकेन वा तमोऽनुगतेन हन्यते । तथा तामसोऽपीतरप्रत्ययाभ्यां पर्यायेण । तथा सात्त्विकेन इतरावित्यन्योन्योदयाभिभवप्रवृत्तया गुणाः ॥

 कस्मात्? यतः चलं गुणवृत्तं गुणस्वभावत्वं चित्ताकारेण गुणाः सन्निविष्ठा इति क्षिप्रपरिणामं चित्तमुक्तम् । क्व ? तन्त्रे ॥

 कस्मात् पुनर्गुणा विरुध्यन्त इति । अनेकातिशयानामेकत्रासम्भवात् । यथा अपवरके तमःप्रकाशयोरतिशयवतोः, एवमन्तःकरणाकारसन्निवेशिनां सुखदुःखमोहरूपाणां प्रकाशप्रवृत्तिनियमवृत्तीनां गुणानां रूपेण वा सुखादिना वृत्त्या वा ज्ञानादिलक्षणया युगपदतिशयो न सम्भवति ॥

 सामान्यानां त्वविरोधादव्यक्तरूपाणामतिशयैर्व्यक्तैः सह वृत्तिर्युक्ता । तेन 'रूपातिशया वृत्यतिशयाश्च विरुध्यन्ते । सामान्यानि त्वतिशयैः सह वर्तन्ते' इत्युच्यते । यदा सुखरूपातिशयस्तदा न दुःखरूपातिशयो मोहरूपातिशयो वा तथा इतरातिशये नेतरातिशयः । तथा, ज्ञानवृत्त्यतिशये न लोभप्रत्ययवृत्त्यतिशयः । तथा, अन्यतमवृत्त्यतिशये नान्यतमवृत्त्यतिशयः ॥

{{gap}}एवमेते गुणा इतरेतरोपाश्रयेणोपार्जितसुखदुःखमोहप्रत्ययाः। सत्त्वेन रजस्तमउपाश्रयेणोपार्जितः सुखप्रत्ययः । रजसापि सत्त्वतमउपाश्रयेणोपार्जितो दुःखप्रत्ययः । तमसापि सत्त्वरजउपाश्रयेणोपार्जितो मोहप्रत्ययः । ततः सर्वे सर्वकार्या भवन्ति ॥  यद्येवमयं प्रत्ययः सात्त्विकःतामसोऽयं, राजसश्चायमिति विशेषः क इत्याह--गुणप्रधानभावकृतस्त्वेषां विशेष इति । प्रधानोपसर्जनतया संज्ञालाभालाभौ । यथा पाञ्चभौतिकत्वेऽपि पार्थिवं तैजसमाप्यमिति ॥

 यत एवं गुणवृत्तिविरोधः, तस्मात् सर्वमेव दुःखं विवेकिन इति । गुणवृत्तिविरोधादित्येतत्परवैराग्यार्थम् । कथं ? परिणामतापसंस्कारदुःखैरिति दृष्टानु-


[ भाष्यम् ]

 तदस्य महतो दुःखसमुदायस्य प्रभवबीजमविद्या । तस्याश्च सम्यग्दर्शनमभावहेतुः ।

 यथा चिकित्साशास्त्रं चतुर्व्यूहम्-रोगी रोगहेतुरारोग्यं भैषज्यमिति, एवमिदमपि शास्त्रं चतुर्व्यूहमेव । तद्यथा-संसारः संसारहेतुर्मोक्षो मोक्षोपाय इति ।

 तत्र दुःखबहुलः संसारो हेयः। प्रधानपुरुषयोः संयोगो हेयहेतुः । संयोगस्यात्यन्तिकी निवृत्तिर्हानम् । हानोपायः सम्यग्दर्शनम् ।

[ विवरणम् ]

 श्रविकविषयवितृष्णस्यैव सर्वस्य दु:खप्रतिपादनार्थं पृथग्विभक्तिकं कृतम् । न हि तत्र दुःखत्वमपश्यतो वैराग्यमुपकल्प्यत इति ॥

 एतत्तु गुणवृत्तिविरोधाच्चेति गुणानां परस्परविरोधिवृत्तित्वेन दुःखत्वप्रतिपादनात्तेभ्यो व्यक्ताव्यक्तधर्मकेभ्यः परं वैराग्यमुपकल्प्यत इत्येवमर्थम् । तथा चात्रापि प्रधानोपसर्जनभावेन सर्वे सर्वरूपा भवन्तीति व्यक्ताव्यक्तधर्मत्वं प्रतिपादितम् । एवं च कृत्वा सूत्रेऽपि गुणवृत्तिविरोधाच्चेति पृथक् पठितम् ॥

 परिणामतापसंस्कारदुःखधर्मत्वात् तस्यैतस्य महतो गुणगौणलक्षणस्य दुःखसमुदायस्य प्रभवबीजमविद्या । तस्याश्च सम्यग्दर्शनमभावहेतुः प्रतिपक्षत्वात् । भूतार्थाश्रयत्वाद्विद्याया अभूतार्थाश्रयत्वाच्चाविद्याया विद्यैवाभावहेतुः । यथा सद्विषयेणैकचन्द्रदर्शनेनासद्विषयस्यानेकचन्द्रदर्शनस्य बाधनम् ॥

 सह दुःखनिदानेन क्लेशकर्मविपाकलक्षणेन सर्वं दुःखमित्युपपादितम् । अनेन दुःखेन यो दुःखी विवेकी स एतस्य सम्यग्दर्शनशाखस्य विषयः अधिकृतो, नेतरो दु:खस्यैव प्रतिपत्तृत्वादित्येतद्दृष्टान्तेन प्रतिपिपादयिषन्नाह- यथा चिकित्साशास्रं चतुर्व्यूहम्-रोगो रोगहेतुरारोग्यं भैषज्यमिति । रोगरोगहेतुमास्तन्निविवर्तयिषुर्भैषज्यस्य शास्त्रस्यारोग्यस्य प्रयोजनस्य विषयः ॥

 एवमिदमपि शास्त्रं चतुर्व्यूहमेव । यथा—संसारः संसारहेतुर्मोक्षो मोक्षहेतुः । तत्र दुःखबहुलः संसारो हेयः | प्रधानपुरुषसंयोगो हेयहेतुः । संयोगस्यात्यन्तिकी निवृत्तिर्हानम् । हानोपायः सम्यग्दर्शनमित्येते चत्वारो व्यूहाः ॥




[ भाष्यम् ]

 तत्र हातुः स्वरूपमुपादेयं वा हेयं वा न भवितुमर्हतीति, हाने त्वस्योच्छेदवादप्रसङ्ग:,



[ विवरणम् ]

 यथा चिकित्साशास्त्रं रोगे रोगहतौ चारोग्ये च तत्प्रयोजनके भैषज्ये च चतुष्टये स्वरूपप्रतिपादनाय व्यूहितं, तत एव च रोगादयोऽस्य चत्वारो व्यूहा इति चतुर्व्यूहं, तथा अस्य शास्त्रस्य । दुःखबहुलः संसारः [हेयः], अविद्याहेतुकश्च प्रधानपुरुषसंयोगो हेतुः, सनिमित्तस्य संसारस्य हानं सम्यग्दर्शनशास्त्रस्य प्रयोजनं, तथा सम्यग्दर्शर्न चेति चत्वार एते व्यूहा अस्यापि इति चतुर्व्यूहं शास्त्रम् । एषु वाऽर्थेषु चतुर्धा व्यूहोऽतस्येति चतुर्व्यूहम् ॥

{{gap}}तत्र हातुः स्वरूपमिति । ननु 'द्रष्टा दृशिमात्र. इति हातृलक्षणसूत्र एतद्वदितव्यम् । नैष दोषः । शास्त्रारम्भप्रयोजनप्रतिपिपादयिषुणा क्लेशादिकः समस्तो दुःखावसानः संसारो निर्वर्णितः । संसारी च यः संसारदुःखेन निर्विण्णो विवेकी सोऽस्य शास्त्रस्य विषय उपपादितः । तस्य विवेकिनः शास्त्रमत:परमारभ्यते । एतच्च प्रथमसूत्रे प्रदर्शितम् । आरभ्यमाणस्य शास्त्रस्य सम्यग्दर्शनमेव प्रयोजनम् । तच्च संसारदुःखनिर्वर्णनानन्तरमवसरप्राप्तं प्रतिपादयितव्यमित्येतदुच्यते--तत्र हातुः स्वरूपमिति ॥

 हाता पुरुषः, तस्य स्वरूपमुपादेयं वा हेयं वा न भवति । कुत एतदेवम् ? हेयोपादेयव्यतिरेकेण वस्त्वदर्शनात् । यथा लोके सुखं तत्कारणं चोपादेयं, दुःखं तत्कारणं च हेयम् , एवमयमपि पुरुषो वस्तुत्वादन्यतरधर्मा भवितुमर्हतीत्यभिप्रायः । किमतो यद्येवम् ? अत एतद्भवति, हाने त्वस्योच्छेदवादप्रसङ्ग इति ॥

 यद्यसौ हेयत्वधर्मा, तत एष हातव्यः । हाने त्वस्य किं स्यात् ? आत्मोच्छेदवादप्रसङ्गः स्यात् । अतः को दोषः स्यात् ? दोषं कैवल्यपादे प्रतिपादयिष्यामः ॥

 किञ्चान्यत्-अस्य हात्रन्तरस्य(किञ्चान्यतरस्य) अभावाद्धानानुपपत्तित्वम् । स्वयमेवात्मन आत्मा हातेति चेत्-न-स्वात्मनि क्रियाविरोधाद्भेदाभावच्च । हेयादात्मन आत्मा हाता चेदन्यस्तदाऽनवस्थासङ्गः । यो यो हाता तस्यापि हेयत्वात् । न च युगपद्द्वयोर्हात्रो संभवोऽस्ति । भिन्नकालभाविनोस्तु हेयहातृत्वानुपपत्तिः ॥


[ भाष्यम् ]

 उपादाने च हेतुवाद्, उभयप्रत्याख्याने शाश्वतवाद, इत्येतत्सम्यग्दर्शनम् ॥ १५ ॥

[ विवरणम् ]

 हातुश्च हेयत्वाभ्युपगमे तस्यानवस्थितत्वाद्धेयसम्बन्धानुपपत्तिः । हातुरनवस्थितत्वे च स्वयमेव हेयत्वप्रतिपत्तेर्हातुर्हानायोद्यमानर्थक्यप्रसङ्गः । हानफलानुपपत्तिश्व | न हि बद्धस्य स्वरूपनाश एव फलम् । मोक्षो हि तस्य फलम् । नापि म्रियमाणोऽपि ज्ञातक्षणान्तरमरणः स्वरूपविनाशमिच्छति । विनाशस्यार्थप्राप्तत्वादेवमनवस्थितश्चेद्धाता न स्वरूपहानमिच्छेत्, अर्थप्राप्तेर्हानस्य ॥

 यथा च हातुर्नित्यत्वं तथा द्रष्ट्टसूत्रे[३९] कैवल्यपादे च व्याख्यास्यामहे । तस्मान्न हेयत्वधर्मा पुरुषः । संसारस्तु महदादिव्यक्तिः दुःखबहुलो हेयः । तत्तुल्यधर्मकः पुरुषो न भवतीत्यर्थः । तत्तुल्यधर्भकत्वे तस्योच्छेदत्वादप्रसङ्ग इति ॥

 अस्तु तर्ह्युपादेयः, यथा सुखार्थं सुखकारणं द्रव्यम् । नैतदेवम् । कस्मात् ? उपादाने त्वस्य हेतुवादप्रसङ्गात् । यस्य द्रव्याद्युपादानफलेन सम्बन्धः स चेदुपादीयेत, तन्निर्हेतुकमस्योपादनं स्यात् । अन्यस्योपादातुरभावात् । न हि पटः पटेनैवोपादीयते । अन्यस्य ह्यन्यदुपादेयम् । उपादात्रन्तरसम्भवे हि तदनवस्थाप्रसङ्गः; सोऽप्यन्येनोपादीयते सोऽपि चान्येनेति ॥

 किं च-पारार्थ्यप्रसङ्गश्च । अन्यस्य हि हेतोरन्यदुपादीयते, सत्त्वादिलक्षणस्य प्रधानस्योपादाने पुरुषो हेतुरभ्युपेयते, यथा घटाय मृत्पिण्डोपादाने कुलालो हेतुः । स चेत्पुरुषः प्रधानोपादानहेतुः प्रधानवदुपादीयेत, तस्यापि सत्त्वादिधर्मत्वं स्यात्, उपादेयत्वान्मृत्पिण्डवत् । ततोऽस्य प्रधानस्य निर्हेतुकं कार्यार्थमुपादानं प्राप्नोति ॥

 अथेश्वरार्थमुपादेयः, पुरुषाणां वा परस्परार्थमिति चेत्, भोग्यत्वाचेतनत्वपरिणामित्वादिदोषसामग्री प्रसज्येत, तस्मान्नापि प्रधानधर्मकः पुरुष इत्युपादाने च हेतुवादप्रसङ्ग इत्युच्यते ॥

 तदुक्तम्-हेतुस्त्वपुरुषो भवतीति । तस्य चोपादने अहेतु: प्रधानवृत्तिर्निर्हेतुकी स्यात् । न च स्वयं स्वार्थं शक्यं विज्ञातुम् । प्रकाशादिषु स्वार्थत्वादर्शनात् ॥


[ भाष्यम् ]

 तदेतच्छास्त्रं चतुर्व्यूहमित्यभिधीयते--

[ सूत्रम् ]

 हेयं दुःखमनागतम् ॥ १६ ॥

[ भाष्यम् ]

 दु:खमतीतमुपभोगेनातिवाहितं न हेयपक्षे वर्तते । वर्तमानं च स्वक्षणे भोगारूढमिति न तत्क्षणान्तरे हेयतामापद्यते । तस्माद्यदेवानागतं दु:खं तदेवाक्षिपात्रकल्पं योगिनं क्लेिश्नाति, नेतरं प्रतिपत्तारम् । तदेव हेयतामापद्यते ॥ १६ ॥

[ विवरणम् ]

 उभयप्रत्याख्याने हेयत्वोपादेयत्वप्रत्याख्याने ! शाश्वतवादप्रसङ्गः आत्मनित्यत्ववादप्रसङ्गः । यद्यपि प्रधानस्योपादेयस्यापि शाश्वतत्वं, तथाऽपि विकारात्मना तदशाश्वतमेव । अनेकात्मकत्वमशुचित्वमविद्यात्वं परार्थत्वमित्येवमादयो दोषाः प्रधाने । पुरुषाणामपि तथात्वे सत्यनिर्मोक्षप्रसङ्गः । बन्धमोक्षयोस्तद्धेत्वोश्च विद्याविद्ययोः स्वरूपाव्यतिरेकाढून्धमुक्तयोश्च निर्विशेषत्वप्रसङ्गात् । तस्माद्धेयोपादेयत्वप्रत्याख्यानेन शाश्वतवाद इत्येतदेव सम्यग्दर्शनम् ॥ १५ ॥

 यथा चिकित्स्यव्यतिरिक्तरोगादिचतुष्टयमन्तरेण चिकित्साशास्त्रमारोग्यप्रयोजनं चतुर्व्यूहं न संभवति, तथेदमपि हातृस्वरूपव्यतिरिक्तहेयादिचतुष्टयमन्तरेण सम्यग्दर्शनशास्त्रं हानफलं चतुर्व्यूहं न सम्भवतीति, हेयादिचतुष्टयप्रतिपादनेन तदेतच्छास्त्रं चतुर्व्यूहमभिधीयते ॥

 कथम् ? हेयं दुःखमनागतम् । दुःखमतीतम् अतिक्रान्तं, वर्तमानाज्जन्मनोऽतिक्रान्तजन्मलक्षणं दुःखं, तदुपभोगेनातिवाहितम् अतिनीतं न हेयपक्षे वर्तते ! स्वयमेव हीनत्वात् ॥

 वर्तमानं च यज्जन्मलक्षणं दुःखम् स्वक्षणोपभोगारूढम् स्वं वर्तमानं भोगविशिष्टं क्षणमध्वानमुपभुज्यमानात्मकत्वेनारूढ़ं तत् दुःखं न क्षणान्तरे हेयतामापद्यते । स्वयमेव भोगेन हीनं न हानाय क्षणान्तरमपेक्षते ॥

 तस्माद्यदेवानागतं प्रायणानन्तरभाविजन्मदुःखलक्षणं दुःखं तदेवाक्षिपात्रकल्पं योगिनं क्लिश्नातीति तदेव हेयं सम्यग्दर्शनेन हानीयमुच्यते । भविष्यज्जन्माभावायैव यतितव्यम् । न वर्तमानदुःखनिरोधाय ॥




[ भाष्यम् ]

 तस्माद्यदेव हेयमित्युच्यते तस्यैव कारणं प्रतिनिर्दिश्यते--

[ सूत्रम् ]

 द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ १७ ॥

[ भाष्यम् ]

 द्रष्टा बुद्धे प्रतिसंवेदी पुरुषः । दृश्याः बुद्धिसत्वोपारूढाः सर्वे धर्माः ।

[ विवरणम् ]

 वर्तमानजन्मयियतिषायां सम्यग्दर्शनमशक्यविनियोगत्वादनर्थकं स्यात् । मुक्तबाणवत् प्रवृत्तफलत्वाद्वर्तमानदुःखस्य । भविष्यति पुनरप्रवृत्तत्वाद्वीजनिरोध उपकल्पत इति सम्यग्दर्शनार्थवत्त्वम् । स्वविषयो हि सम्यग्दर्शनस्य स इति ॥ १६ ॥

 तदेतच्छास्त्रं चतुर्व्यूहमभिधीयत इत्युक्तम् । एकश्चतुर्षु व्यूहः प्रतिपादितः हेयं दु:खमनागतमिति । इदानीं द्वितीयो व्यूहः तस्य दुःखस्य कारणं, हेतुः प्रतिनिर्दिश्यते ॥

 ननु निर्दिष्टमेव दुःखकारणमिति, तथैवोपसंहृतमन्ते--तस्यैतस्य महतो दु:खसमुदायस्य प्रभवबीजमविद्येति । सत्यमेवम् । किन्तु दु:खस्वरूपमात्रं तत्कारणस्वरूपमात्रं च पूर्वं निर्दिष्टम् । न च तत्स्वरूपमात्रे, इति तत्कारणे निर्दिश्यते । द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥  द्रष्टा च दृश्यं च द्रष्टृदृश्ये । तयोर्द्रष्टृदृश्ययोरिति । द्रष्टृदृश्यसंयोग इति तु वक्तव्ये पृथग्विभक्तिग्रहणं तयोर्भिन्नजातीयत्वख्यापनार्थम् । भोक्तृभोग्ययोः स्वस्वामिनोः प्रधानपुरुषयोरिति वा सूत्रयितुं शक्यत एव । तथापि द्रष्टृदृश्यग्रहणमनेन द्रष्टृदृश्यत्वेनैव संयोगो नान्यथेत्येवमर्थम् ॥

 द्रष्टा बुद्धेः प्रतिसंवेदी पुरुषो वक्ष्यमाणलक्षणः । प्रतिसंवेदितुं शीलमस्य स प्रतिसंवेदी ! कस्य ? बुद्धेरिति । दृश्या बुद्धिः अन्तःकरणं प्रत्ययरूपेण ॥

 ननु च शब्दादयोऽपि विषया दृश्या एवेत्यत आह-सत्वोपारुढाः सर्वे धर्माः शब्दादयो बुद्धिसत्वमुपारूढा बुद्धिप्रत्ययाकारा एव दृश्या न स्वतः । स्वतश्च दृश्यत्वे ज्ञाताज्ञातविषयत्वं पुरुषस्य स्यात् । सदा ज्ञातविषयत्वं च पुरुषस्य न्यायेन स्थाप्यते । तस्माद्बुद्धयुपारूढा एव सर्वे धर्मा दृश्याः ॥


[ भाष्यम् ]

 तदेतद्दृश्यमयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य दृशिरूपस्य स्वामिनः, अनुभवकर्मविषयतामापन्नं यतः । अन्यस्वरूपेण प्रतिलब्धात्मकं स्वतन्त्रमपि परार्थत्वात्परतन्त्रम् । तयोर्दृग्दर्शनशक्त्योः अनादिरर्थकृतः संयोगो हेयहेतुः, दुःखस्य

[ विवरणम् ]

{{gap}}तदेतद्दृश्यमयस्कान्तमणिकल्पम् अयसोऽपि क्रियार्थेनैवोपकर्ताऽय स्कान्तमणिर्यथा, तथा पुरुषस्य पुरुषार्थेन द्विविधेन भोगापवर्गलक्षणेनोपकर्तृत्वादयस्कान्तमणिरिव स्वं दृशिरूपस्य चितिस्वरूपमात्रस्य स्वामिनः |

 कथं स्वमित्यत आह--कर्मविषयत्वमापन्नं कर्मैव विषयः कर्मविषयः, कर्मत्वापत्तिरेव । विषयो दृशिरूपस्य दृश्यतामापन्न इत्येतत् । कथम्भूतं सत्कर्मविषयतामापद्यत इति तद्विशेषणार्थमाह -अन्यस्वरूपेण प्रतिलब्धात्मकमिति ।

 अन्यस्वरूपेण स्वपरपुरुषरूपेण शब्दादिरूपेण च प्रतिलब्धात्मकं प्रतिलब्धविशेषरूपं प्रतिलब्धपुरुषशब्दादिविशेषस्वभावं पुरुषस्वरूपेण लब्धात्मकं सद्दृश्यत्वेन कर्मतामापन्नमपवर्गार्थेन स्वं भवति । शब्दाद्याकारेण लब्धात्मकं सद्दृश्यत्वेन कर्मतामापन्नं भोगार्थेन स्वं भवति।

 ननु कथं स्वतन्त्रस्य स्वत्वम् । न हि किञ्चित् स्वतन्त्रं स्वयं व्याप्रियमाणमन्यदपेक्षते । यदपि स्वव्यापारानुनिष्पादिपुरुषार्थरूपं, तदपि स्वभावादेव। न पुरुषनियोगकारि । तस्मात् स्वतन्त्रस्य सतः स्वत्वं न युक्तमित्यत आह- स्वतन्त्रमपि पुरुषार्थद्वयकर्तृत्वेन परार्थत्वात् परतन्त्रम् । ततश्च स्वमेव ।

 तयोर्दृग्दर्शनशक्त्योरिति द्रष्टृदृश्ययेरित्युपक्रम्य दृग्दर्शनशक्त्योस्त्युपसंहारः, बुद्धिपुरुषसंयोगस्य बुद्ध्युत्पत्त्यनन्तरभावित्वादादिमत्त्वमाशङ्क्य तदनादिमत्त्वप्रदर्शनार्थं क्रियते । दृग्दर्शनशक्त्योरनादिः संयोगः । धर्मिणां नित्यत्वात् नित्यसम्बन्धोपपत्तेस्तच्छक्त्योरपि द्रष्टृदृश्यत्वलक्षणोऽनादिः संयोगोऽर्थकृतः पुरुषार्थप्रयोजनवश इत्यर्थ: ॥

 तथा च सत्यनादित्वेऽपि प्रयोजननिवृत्तौ संयोगनिवृत्तिरुपपद्यते । धर्मिणां तु स्वरूपसंयोगः सत्तामात्रेण न प्रयोजनकृत इति नित्य एव । धर्ममात्राभिस्त्वनित्याभिरनित्यः संयोगः । स तु बुद्धिपुरुषसंयोगो हेयहेतुः दुःखस्य कारणम् इत्यर्थः ॥

[ भाष्यम् ]

 कारणमित्यर्थ: । तथा चोक्तम्-“तत्संयोगहेतुविवर्जनात् स्यादयमात्यन्तिको दुःखप्रतीकारः । कस्मात् ? दुःखहेतोः परिहार्यस्य प्रतीकारदर्शनात् । तद्यथा-पादतलस्य भेद्यता, कण्टकस्य भेतृत्वं, परिहारः कण्टकस्य पदाऽनधिष्ठानं पादत्राणव्यवहितेन वाऽविष्ठानम् , °एतद्द्वयं यो वेद लोके सं तत्र प्रतीकारमारभमाणो भेदजं दुःखं नाऽऽप्नोति । कस्मात् ? त्रित्वोपलब्धिसामर्थ्यात्’ इति । अत्रापि तापकस्य रजसः सत्वमेव तप्यम् ।

[ विवरणम् ]

{{gap}}तथा चोक्तं तन्त्रे-तत्संयोगहेतुविवर्जनात् तयोर्बुद्धिपुरुषयोः संयोगस्तस्य हेतुरविद्या तद्विवर्जनात् । कथं विवर्जनम् ? विद्यया सम्यग्दर्शनेन तत्प्रतिपक्षेण निवर्तनात् । तस्मात्तत्संयोगहेतुविवर्जनात् आत्यन्तिकोऽत्यन्ताय प्रभवति दुःखप्रतीकारः । कोऽसौ ? यत्सम्यग्दर्शित्वम् ॥

 कथमेतदिति, प्रसिद्धं दृष्टान्तमाह--तद्यथा--पादतलस्य भेद्यता सुकुमारतरत्वात् । कण्टकस्य भेतृत्वं कर्कशस्वभावत्वात् । तत्संयोगो विशिष्टो दुखहेतुरित्यर्थसिद्धम् । तत्र कण्टकव्यथादुःखस्य परिहारः कण्टके पदा पादेन अनधिष्ठानम् अनाक्रमणम् । अथाधिष्ठानकारणं चेदस्ति पादत्राणव्यवहितेन वा पदधिष्ठानम् । एतद्द्वयं यो वेद भेद्यभेतृद्वयं परिहारद्वयं वा यो वेद लोके स तत्रान्यतरं परिहारमारभते । स तत्र प्रतीकारमारभमाणो भेदजं कण्टकभेदजनितं दुःखं नाप्नोति ॥  तथेहापि पुरुषः सत्त्वद्वारेण कण्टकस्थानीयं प्रधानम्, तयोर्विशिष्टः संयेगोऽविद्यानिमित्तो दुःखकारणम् , दुःखपरिहारोऽप्ययम्--गुणगौणेभ्यः प्रधानमात्रविशेषेभ्यो दृश्येभ्यो निरपेक्षता, सम्यग्दर्शनेन प्रयोजनाभावं बुद्वा पुरुषस्याविक्रियत्वात् कण्टकाधिष्ठानवच्छरीरारम्भिणो वा कर्मणो नियतवदनीयत्वादवश्यं फलदायित्वं बुद्ध्वा अप्रार्थितोपनतानां शब्दादीनां सम्यग्दर्शनव्यवहितेन सत्वेन भोगः । एवं परिहारं सञ्जानानः कण्टकभेददुःखपरिहारमिव संसारदुःखं नाप्नोति ॥


1. पञ्चशिखेन ।

2. ’एतत्त्रयं’ इति पाठान्तरम् ।

[ सूत्रम् ]

 प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥ १८ ॥

[ भाष्यम् ]

 प्रकाशशीलं सत्वम् , क्रियाशीलं रजः, स्थितिशीलं तम इति ।

[ विवरणम् ]

 दृश्यस्वरूपमुच्यते । ननु च द्रष्टृदृश्ययोरित्युक्तं पूर्वसूत्रे । तत्र क्रमप्राप्तसन्निधानं द्रष्टृस्वरूपमेव पूर्वं वक्तव्यम् । नैष दोषः । दृश्यस्वरूपावगमपूर्वकत्वाद्द्रष्टृत्वरूपावबोधस्य । दृश्यस्य हि स्वात्मव्यतिरिक्तद्रष्ट्रर्थत्वाद्व्यतिरिक्तद्रष्टृसद्भावसिद्धिः । अत एव प्राधान्यात् पूर्वसूत्रे द्रष्टुः पूर्वनिपातः कृतः । तल्लक्षणे त्वर्थक्रमो विवक्ष्यते ॥

 प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् । प्रकाशश्च क्रिया च स्थितिश्च प्रकाशक्रियास्थितयः । प्रकाशस्याभ्यर्हितत्वात् पूर्वनिपातः ! बहुषु चानियमात् स्थितिक्रियाशब्दयोरनियम इति क्रियाशब्दस्य पूर्वनिपातः । ता एव शीलं यस्य तत्प्रकाशक्रियास्थितिशीलम् । प्रकाशनं प्रकाशः, स शीलं यस्य तत् प्रकाशशीलं सत्त्वम् । ननु च यदा प्रकाशनं क्रिया, कथं । तच्छीलं सत्वे स्यात् ? रजो हि तच्छीलं, स्थितिशीलं वा तमः कथमिति ॥

 ननु च स्वरूपमेव तत्प्रकाशनं स्थितिश्च । न । स्वरूपमात्रे शीलशब्दायोगात् । न हि मृदङ्गशीलो मार्दङ्गिकः । मृदङ्गवादनशीलो हि स उच्यते । न हि व्यापारशून्ये क्वचिदपि शीलशब्दः प्रयुज्यते ॥

 ननु च स्थितिप्रकाशावपि सत्त्वतमसोः स्वरूपम् । तदेतेनैव गम्यते स्वरूपे शीलशब्दः प्रसंक्ष्यत इति । उच्यते-न_स्वरूपे सर्वत्र शीलशब्दप्रयोगः । इहापि रजसि दुःखस्वरूपे क्रियाशीलमिति क्रियया सम्प्रयुज्य शीलशब्दव्यपदेशः । स्थितिप्रकाशावपि व्यापाररूपावभिप्रेतौ ॥

 अथ मतं-क्रियापि रजसः स्वरूपमेवेति-न-प्रधानावस्थायां साम्याभ्युपगमात् गुणानाम् । यदि क्रिया रजसः स्वरूपमभविष्यत् प्रधानस्यापि क्रियावत्वं गुणसाम्यावस्थायामभविष्यत् । कार्यावस्थायां हि क्रियावत्त्वमभ्युपगम्यते, न प्रधानवेलायाम् । तस्मान्न स्वरूपाभिप्रायेण शीलशब्दप्रयोगः ॥

[ भाष्यम् ]

 एते गुणाः परस्परोपरक्तप्रविभागाः परिणामिनः संयोगवियोगधर्माणः इतरेतरोपाश्रयेणोपार्जितमूर्तयः *परस्पराङ्गाङ्गित्वेऽप्यसम्भिन्नशक्तिप्रविभागाः

[ विवरणम् ]

 तत्राक्रियाशीलयोरपि सत्त्वतमसोर्नित्यं क्रियाशीलेन रजसा संयोगाद्रजःक्रिययैव क्रियावत्त्वं स्थितिप्रकाशयोरपीति तत्क्रियोपचारेण प्रकाशशीलं सत्त्वं स्थितिशीलं तम इति व्यपदिश्यते । स्थितिप्रकाशयोरात्मलाभस्य रजःक्रियापूर्वत्वाच्चलतोरेवाभिव्यक्तेस्ताच्छील्यं सत्त्वतमसोरुच्यते ॥

 तत्र प्रकाशशीलं यत्तत्सत्त्वम् । क्रियाशीलं प्रवृत्तिशीलं रजः । स्थितिशीलं वरणशीलं नियमशीलं तम इत्येते गुणा: परस्परोपरक्तप्रविभागाः परस्परेणोपरक्त: प्रविभागो भेदो येषां गुणानां ते परस्परोपरक्तप्रविभागाः ॥

 यथा प्रकाशशीलमिति सत्त्वमुच्यतेऽत्रैव । रजःक्रियोपरञ्जनात् सर्वावभाससमर्थस्यापि सत्त्वस्य नियतप्रकाशत्वं तमउपरक्तत्वेन । तथा रजसोऽपि प्रवृत्त्यभिव्यक्तिः सत्त्वोपरागेण ! नियतप्रवृत्तित्वं तु तमउपरागेण ! तथा तमसोऽपि स्थित्यभिव्यक्तिः सत्त्वोपरागेण ! स्थितिशीलत्वं रजउपरागेण । स्थितिस्तु स्वत एव । रजसेऽपि प्रवृत्तिः स्वतः । सत्त्वस्यापि प्रकाशः स्वतएव ! इत्थमेवान्येष्वपि कार्येषु सत्वादीनामितरेतरोपरागो द्रष्टव्यः ॥

 संयोगवियोगधर्माणः । संयोगश्च वियोगश्च संयोगवियोगौ, तौ धर्मौ येषां ते संयोगवियोगधर्माणः । कस्मिंश्चित् कार्ये आरभ्यमाणे गुणप्रधानभावेनान्योन्यं संयुज्यन्ते । तथैवारब्धकार्यविरोधिधर्मान्तरोदये परस्परं वियुज्यन्ते ॥

 इतेरेतरोपाश्रेयणोपार्जितमूर्तयः-महदादिस्तम्बपर्यन्ता मूर्तय इतरेतरोपाश्रयेणोपार्जिता धर्मधर्मिलक्षणा यैस्ते इतरतरोपाश्रयेणोपार्जितमूर्तयः ॥

 परस्परतो भिन्ना अपि-परमार्थतोऽन्योन्यतोऽन्येऽपि । असम्भिन्नशक्‍तिप्रविभागाः-अत्यन्तं व्यावृत्तकार्यारम्भाभिमुख्यसामर्थ्यप्रभेदाः ॥


1. 'परस्परतो भिन्ना अपी*ति विवरणाभिमतो भाष्यपाठ: ।

23 

[ भाष्यम् ]

 तुल्यजातीयातुल्यजातीयशक्तिभेदानुपातिनः प्रधानवेलायामुपदर्शितसन्निधाना गुणत्वेऽपि च व्यापारमात्रेण 'प्रधानान्तर्णीतानुमितास्तिताः पुरुषार्थकर्तव्यतया प्रयुक्तसामर्थ्याः सन्निधिमात्रोपकारिणोऽयस्कान्तमणिकल्पाः प्रत्ययमन्तरेणैकतमस्य वृत्तिमनु वर्तमानाः प्रधानशब्दवाच्या भवन्ति ।

[ विवरणम् ]

 एतदुक्तं भवति-एकस्मिन् कार्ये आरब्धव्येऽत्यन्तव्यतिषक्तपरस्परशक्तयः कार्यारम्भकाले *पृथक्त्वेनानुपलक्ष्यमाणशक्तिप्रविभागा इति ॥

 तुल्यजातीयातुल्यजातीयशक्तिभेदानुपातिनः । सात्त्विकानां सत्त्वं तुल्यजातिः, राजसानां रजस्तुल्यजातिः, तामसानां तम इति च । परस्परापेक्षया तु भिन्नजातीयत्वम् । तुल्यजातीयातुल्यजातीयानां शक्तिप्रभेदमनुपतितुं शीलं येषां ते तुल्यजातीयातुल्यजातीयशक्तिप्रभेदानुपातिनः । न हि सात्त्विके वा राजसे तामसे वा प्रारब्धव्यस्य त्रयाणां शक्तिप्रभेदानुपातमन्तरेण कार्यारम्भः सम्भवति ॥

 यद्येवं सर्वशक्तिप्रभेदानुपातित्वादेकैकस्य कार्यारम्भे तुल्यं प्राधान्यमित्यत आह-प्रधानवेलायामुपदर्शितसन्निधानाः सर्वे । एकैकस्मिन् प्राधान्येन स्वकार्यारम्भिणि तत्काल इतरयोरपि सन्निधानमुपसर्जनभावेनोपदर्शितमिति प्रधानवेलायामुपदर्शितसन्निधानाः । न हि सर्वेषां युगपत् प्राधान्यम् । समप्रधानत्वे हि प्रधानमेव भवेयुः, न कार्यारम्भित्वम् ॥

 अथोच्यते-कथं पुनरेकस्मिन् प्राधान्येन कार्यारम्भिणीतरास्तित्वमवगम्यत इति । तदुच्यते-गुणत्वे चोपसर्जनभावे च व्यपारमात्रेण प्रधान उपलक्ष्यमाणेन व्यापारमात्रेण । प्रधानान्तर्नीतेन न हि प्रधानस्यान्तर्नीतो व्यापारः इतरयोरुपसर्जनभावेनासन्निधाने संभविष्यतीति प्रधानव्यापारेणानुमितास्तित्वाः ॥


1. *प्रधानान्तर्नीतेनानुमितास्तत्वाः? इति विवरणाभिमतो भाष्यपाठः ।

2. अत्र आदर्शकोशे 'पृथक्त्वेनानुप' इत्येतदुपरि ‘च तत्सारूप्यमादर्शितं? इत्यादिः अत्र (192) पुटे मुद्रिते ग्रन्थः उपलभ्यते । तस्यानन्वयात् आदर्शकोशे (55) पुटानन्तरं लिखितः ‘लक्ष्यमाण? इत्यादिग्रन्यो योजितः ॥ 

[ भाष्यम् ]

 एतद्दृश्यमित्युच्यते ।

 तदेतद्भूतेन्द्रियात्मकं भूतभावेन पृथिव्यादिना सूक्ष्मस्थूलेन परिणमते । तथेन्द्रियभावेन श्रोत्रादिना सूक्ष्मस्थूलेन परिणमत इति ।

 तत्तु नाप्रयोजनम्, अपि तु प्रयोजनमुररीकृत्य प्रवर्तत इति,भोगापवर्गार्थं हि तद्दृश्यं पुरुषस्येति । तत्रेष्टानिष्टगुणस्वरूपावधारणमविभागापन्नं भोगः ।



[ विवरणम् ]

 पुरुषार्थेतिकर्तव्यताप्रयुक्तसामर्थ्याः पुरुषार्थो भोगापवर्गौ तस्येतिकर्तव्यता यथा यथा अर्थनिष्पत्तिस्तथा तथा प्रयुक्तं कार्यारम्भं प्रति सामर्थ्यं येषां ते पुरुषार्थेतिकर्तव्यताप्रयुक्तसामर्थ्याः ॥

 सन्निधिमात्रोपकारिणः विकारप्रत्ययरूपसन्निधिमात्रेण पुरुषस्योपकुर्वन्तीति सन्निधिमात्रोपकारिणः । अयस्कान्तमणिकल्पाः ॥

 प्रत्ययं वृत्तिं ज्ञानमन्तरेण एकतमस्य वृत्तिं स्थितिलक्षणां समतामनुवर्तमानाः । प्रधानशब्दवाच्या भवन्ति । नैव त्रिगुणीव्यतिरेकेणान्यत्प्रधानं नामास्ति । त एव गुणा: साम्यावस्थाः प्रधानैकशब्दाभिधानीयकं प्रतिपद्यन्ते । वैषम्यं भजन्तो विकारशब्दाभिधेया वृत्तिमन्तो भवन्ति ॥

{{gap}}एतद्दृश्यमित्युच्यते । तदेतद्दृश्यं भूतेन्द्रियात्मकं भूतात्मकमिन्द्रियात्मकं च । कथं तदात्मकत्वमित्याह-भूतभावेन पृथिव्यादिना सूक्ष्मस्थूलेन सूक्ष्मेण तन्मात्ररूपेण स्थूलेन विशेषरूपेण । द्विविधो हि भूतभावस्तन्मात्ररूपो विशेषरूपश्च । विपरिणमते स्थूलसूक्ष्मभावमापद्यते । इन्द्रियभावेनेन्द्रियरूपेण श्रोत्नदिना सूक्ष्मस्थूलेन विपरिणमते । सूक्ष्मेणाहङ्काररूपेण स्थूलेन श्रोत्रादिरूपेण ॥

 तत्तु दृश्यं नाप्रयोजनम् । सर्वत्रैव प्रवृत्तेः प्रयोजनदर्शनात् । अपि तु प्रयोजनमूरीकृत्य अंङ्गीकृत्य प्रवर्तते । किं पुर्नदृश्यप्रवृतिप्रयोजनमित्याह-भोगापवर्गार्थं हि दृश्यं पुरुषस्य अग्न्यादिप्रतिपत्तिवद् ॥

[ भाष्यम् ]

 भोक्तुः स्वरूपावधारणमपवर्ग इति । द्वयोरतिरिक्तं अन्यद्दर्शनं नास्ति । तथा चोक्तम्'-"अयं तु खलु त्रिषु गुणेषु कर्तृष्वकर्तरि च पुरुषे तुल्यातुल्यजातीये चतुर्थे तक्रियासाक्षिण्युपनीयमानान् सर्वभावानुपपन्नाननुपश्यन्न दर्शनमन्यच्छङ्कते" इति ।

 तावेतौ भोगापवर्गौ बुद्धिकृतौ बुद्धावेव वर्तमानौ कथं पुरुषे व्यपदिश्येते इति ।

[ विवरणम् ]

 कौ पुनस्तौ भोगापवर्गावित्याह-तत्रेष्टानिष्टगुणस्वरूपावधारणमविभागापन्नम् इष्टानां अगरुचन्दनस्पर्शनादिलक्षणानाम् अनिष्टानां प्रतिकूलात्मकानां कृपाणकण्टकादिस्पर्शनरूपणां गुणानां स्वरूपावधारणं स्वरूपावगमः स्वरूपाध्यवसानम् । तस्य विशेषणं अविभागापन्नं पुरुषप्रत्यये 'नायं पुरुष इदं सत्वम्’ इत्यविभागतां गतम् । प्राप्तचैतन्योपग्रहरूपत्वाद्बौद्धस्य प्रत्ययस्य । स इत्थंभूतः पुरुषस्य भोग इत्याख्यायते ॥

 तस्माद्भोगस्वरूपाद्बौद्धात् प्रत्ययाद्विविच्य तत्साक्षिणो दृशिरूपस्य स्वरूपावधारणं भोक्तृस्वरूपादवधार्यमाणादुत्तरकालमप्यपवृत्तस्य विशेषाभावादपवर्ग इत्युच्यते । सर्वदा स्वरूपप्रतिष्टो हि (तदा) स इति । वृत्तिसारूप्यमितरत्र विशेष इति ॥

 द्वयोर्भोगापवर्गयोरतिरिक्तमन्यत्तृतीयं दर्शनं नास्ति। यावदविद्या तावदिष्टानिष्टे स्त इति भोग एव । पुरुषस्य त्वहेयानुपादेयस्वरूपत्वात् तदवधारणे कुतो भोग इति भोगरूपस्याविद्यालक्षणस्य प्रत्ययस्य प्रतिपक्षः प्रत्ययः पुरुषावधारणम् । यस्मादेतदत एतद्दर्शनद्वयव्यतिरेकेण तृतीयं दर्शनान्तरं न कल्पयितुं शक्यते ॥

 तथा चोक्तम्-अयं तु खल्वेवं सम्यग्दर्शी त्रिषु गुणेषूक्तलक्षणेषु कर्तुषु सर्वव्यापारनिर्वृत्तिकरेष्वकर्तरेि च गुणधर्मविलक्षणे पुरुषे चतुर्थे तत्क्रियासाक्षिणि गुणक्रियासूपद्रष्टरि सन्धिक्रियासाक्षिभूतोपद्रष्टृवदुपानीयमानान् अन्तःकरणलक्षणैर्गुणैः प्राप्यमाणान् दर्शितविषयत्वात् सर्वभावान्


1. पञ्चशिखेन. 

[ भाष्यम् ]

 यथा विजयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते, स हि तत्फलस्य भोक्तेति, एवं बन्धमोक्षौ बुद्धावेव वर्तमानौ पुरुषे व्यपदिश्येते, स हि तत्फलस्य भोक्तेति । बुद्धेरेव पुरुषार्थापरिसमाप्तिर्बन्धस्तदर्थावसायो मोक्ष इति । एतेन 'ग्रहणधारणोहापोहतत्वज्ञानाभिनिवेशा बुद्धौ वर्तमानाः पुरुषेऽध्यारोपितसद्भावाः, स हि तत्फलस्य भोक्तेति ॥ १८ ॥

[ विवरणम् ]

 उपपन्नान् गौणानेव बौद्धप्रत्ययाकारेण परिनिष्पन्नान् पश्यन् उपलभमानो नाहं न ममेत्येवं न दर्शनमितोऽन्यत् सम्भवति सम्यग्दर्शनमिति न शङ्कते । नास्त्येवान्यत् सम्यग्दर्शनमिति मन्यते ॥

 तावेतौ भोगापवर्गौ बुद्धिकृतौ बुद्विनिर्वर्तितौ बुद्धावेव वर्तमानौ । अन्यकृतस्याप्यन्यत्र वृत्तिदृष्टा यथा रजककृतो वस्त्रराग इति कथं पुरुषेऽपदिशयेते? इति तौ बुद्धावेव वर्तमानौ पुरुषेऽपदिश्येते इति कुत एतत्? स हि तत्तत्फलस्य भोक्तेति सम्यङ्मिथ्याप्रत्यययोरुपलब्धेति ॥

 दृष्टान्तेन व्याख्यातमर्थं निगमयति--यथा विजयः पराजयो वेति । बुद्धेरेवार्थापरिसमाप्तिर्बन्ध इति । यावत् समाप्तौ कर्तव्यौ भोगाऽपवर्गाविति बुद्धिर्मन्यते तावद्बन्धः । तदर्थावसायो मोक्षः । तस्या एव बुद्धेरर्थावसायः कर्तव्यसमाप्तिः । यदा आत्मविलक्षणं बन्धमोक्षासम्बन्धिनं पुरुषमीक्षते नास्य कर्तव्यमस्तीति, स कर्तव्यावसायो बुद्धेर्मोक्ष इति ॥

 एतेन ग्रहणधारणविज्ञानोहापोहक्रियावचनयथान्यायावधारणाभिनिवेशाः पुरुषेऽध्यारोपितसद्भावा इति ज्ञेयाः । प्रल्ययत्वाविशेषात् बुद्धिधर्माः बुद्धावेव वर्तमानाः बुद्धिकृताः पुरुषेऽध्यारोपितसद्भावाः पुरुषो गृह्णाति पुरुषो धारयतीत्येवमेव पुरुषे अध्यारोप्यन्ते ॥


1. ‘ग्रहणधारणाविज्ञानोहापोहक्रियावचनयथान्यायावधारणाभिनिवेशाः? इति विवरणाभिमतो भाष्यपाठः ।

[ भाष्यम् ]

 दृश्यानां गुणानां स्वरूपभेदावधारणार्थमिदमारभ्यते--

[ सूत्रम् ]

 विशेषाविशेषलिङ्गमात्रालिङ्गा गुणपर्वाणः ॥ १९ ॥

[ भाष्यम् ]

 तत्र आकाशवाय्वग्न्युदकभूमयो भूतानि शब्दस्पर्शरूपरसगन्धतन्मात्राणामविशेषाणां विशेषाः । तथा श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानेि बुद्धीन्द्रियाणि, वाक्पाणिपादपायूपस्थाः कर्मन्द्रियाणि, एकादशं मनः सर्वार्थम्, इत्येतान्यस्मितालक्षणस्याविशेषस्य विशेषाः ।

[ विवरणम् ]

{{gap}}ग्रहणं शब्दादीनां श्रोत्रादिभिरुपादानम्। गृहीतानामविस्मरणं धारणम् । धारितस्य सामान्यविशेषावधारणं विज्ञानम् । विज्ञातस्यैव पुनस्तद्गतविशेषावबुभुत्सयोहनमूहः । ऊहितस्य विरुद्धानां धर्माणां व्युदसनमपोहः ! विषयेषु प्रवृत्तिः क्रिया । वाक्यविषयो वृत्तिविशेषश्चितस्य वचनम् । यो यो न्यायो यथान्यायं यस्य च वस्तुनो यथैवोपपत्तिस्तथैवावधारणं यथान्यायावधारणम् । तत्र पुनः पुनः सम्यक्प्रत्ययाविचलनाय यश्चित्तस्याभियोगः सोऽभिनिवेशः । त एते ग्रहणादयः पुरुषेऽध्यारोपितसद्भावाः । स हि तत्फलस्य भोक्तेति ग्रहणदिफलस्योपलब्धेति ॥ १८ ॥

 दृश्यानां 'गुणानां यथाव्याख्यातात्मनां स्वरूपभेदावधारणार्थं तत्त्वावस्थाभेदावधारणार्थमिदं सूत्रमारभ्यते-विशेषाविशेषलिङ्गमात्रालिङ्गा गुणपर्वाणः । विशेषाश्चाविशेषाश्च लिङ्गमात्रं चालिङ्गश्च, न लिङ्गति, कुतश्चिन्नागच्छति प्रधानाख्योऽर्थ इति पचाद्यच् सर्वधातुभ्य इति यौगिकस्सन्नभिधेयलिङ्गं भजते । यो हि चिह्नपर्यायो लिङ्गशब्द: स नपुंसकलिङ्गः । स च करणसाधन इति । अथ वा लिङ्गं न विद्यते, लिङ्गमवगमनं परिच्छेदः प्रत्यक्षेण प्रधानाख्यस्यार्थस्यासावलेिङ्गः इति बहुव्रीहिः ॥

 ते च विशेषादयः पुरुषाभिप्रायं पालयन्ति भोगापवर्गप्रदानेन, पूरयन्ति वा विकारान् स्वानिति पिपर्तेः 'अन्येभ्योऽपि दृश्यन्ते' इति कर्तरि वनिप्रत्ययः ।।' तथा च सति यन्नान्तमकर्तरि तन्नपुंसकम् । यतु नान्तं कर्तरि तत्सर्वलिङ्गं.


साधनपादो द्वितीयः १८३

भवति । यथा मेरुदृश्वा मेरुदृश्वनीति । ततश्च विशेषादयः पर्वणः । केषां ते सम्बन्धिन इति? गुणानां पर्वणो गुणपर्वाणः । केषांचिदयमेव पाठो-विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणीति

 तत्राकाशवाय्वग्निजलभूमयो भूतानेि । शब्दतन्मात्रारब्धमाकाशम् । स्पर्शतन्मात्रेण शब्दस्पर्शलक्षणेनारब्धो वायु; । रूपतन्मात्रेण शब्दस्पर्शरूपलक्षणेनारब्धोऽग्निः ।। रसतन्मात्रेण शब्दस्पर्शरूपरसचतुष्टयलक्षणेनाऽऽप आरब्धाः । गन्धतन्मात्रेण शब्दस्पर्शरूपरसगन्धपञ्चतयलक्षणेन भूमिरारब्धा ॥

 ननु च नित्यमाकाशम् , प्रागुत्पत्तेर्विनाशकालं च विशेषाभावात् । यो य उत्पत्तिमांस्तस्य तस्य पृथिव्यादेः प्रागुत्पत्तेर्विनाशोत्तरकालं च विशेषो दृष्टः । तथा आकाशं यद्युत्पत्तिमत् स्यात् प्रागुत्पत्तेर्विनाशोत्तरकालं च भवेद्विशेष: न च सोऽस्ति । तस्मादाकाशमनुत्पत्तिकम् ॥

 अथावकाशदानाभावो विशेष इति चेन्न, मूर्तिमतोऽन्यस्याभावात्तुल्यं नित्यत्वेऽपि । अनित्यलक्षणाभावाच्च नित्यमाकाशम्, सर्वगतत्वादात्मादिवत् ॥

 न-आगमाविरोधात् । "तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ इत्यागमविरोधः । स्मृतिविरोधश्च । अवकाशं कुर्वति तदुपचारं इति चेन्न, वाय्वादिष्वप्युपचारप्रसङ्गात् । आकाशाद्वायुः सम्भूत इत्येकवाक्यत्वात् ॥

 प्रागुत्पत्तेर्विशेषाभावादनित्यो न भवतीति च ब्रुवता विशेषाभावान्नित्यत्वमित्युक्तं भवति ! विशेषभावाच्चानित्यत्वमित्युक्तं भवति । तथा च सत्यात्मादीनामपि बन्धमोक्षोपलब्ध्यनुपलब्ध्यादिविशेषाभावात् सतो वैशेषिकस्य अनित्यत्वप्रसङ्गः । तथा, परमाण्वादीनां चानित्यत्वं प्रसज्येत ॥

 अथाप्युत्पत्तिमत एव प्रागूर्ध्वं च विशेषभावाभावौ विवक्षिताविति चेत्- न - आकाशस्योत्पत्यभ्युपगमप्रसङ्गात् । अथाकाशोत्पत्तिवादिना विशेषो वक्तुं न शक्यत इति चेत्-न-पुरुषार्थसाधनासाधनत्वविशेषात् । सर्वगतत्वादिति चासिद्धो हेतुः ॥

 1. तै उप 2, 1.

 असंर्वगतानि कालदिगाकाशमनांस्यनित्यानि च, स्वार्थाभावे परार्थत्वात्, घटादिवत् |उत्पत्तिमन्ति च, प्रधानपुरुषाभ्यामन्यत्वात्, घटादिवत्। एवमाकाशं [उत्पत्तिमदनित्यं च] बाह्येन्द्रियविषयगुणत्वात्, घटादिवत् । भूतत्वाच्च, पृथिवीवत् । अनित्यद्रव्यसंयोगोत्पाद्यगुणत्वात्, पृथिव्यादिवत् । चिकित्सानिवर्त्यप्रकोपकरत्वात्, वायुवत् । नभसश्च प्रकोपश्चिकित्सानिवर्तनीयश्चिकित्सकप्रसिद्धिमुपारूढः । एतेनानित्यसाधर्म्यं व्याख्यातम् ।

 एतानि च भूतानेि शब्दस्पर्शरूपरसगन्धतन्मात्राणामविशेषाणां विशेषाः । शान्तघोरमूढाद्यनेकविशेषवत्त्वाद्विशेषा: । शान्ताद्यभावाच्चाविशेषा: तन्मात्राणि ।

{{gap}}तथा श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि, शब्दादिविषयबुद्ध्यर्थत्वाद्बुद्धीन्द्रियाणि स्वविषयबुद्धिभिरेवानुमितानि । वाक्पाणपादपायूपस्थानेि कर्मेन्द्रियाणि वचनदिक्रियानिर्वर्तकानि तदनुमितान्येव । न वागादीनि कर्मन्द्रियाणि सिद्धानीति चेन्न, श्रुतिप्रसिद्धत्वात् । इन्द्रियाणि प्रकृत्य “सर्वेषा वेदानां वागेकायनम्’ इत्यादिश्रुतेः ॥

 स्मृतिषु च सर्वत्रैव विधिप्रतिषेधविषयप्रवृत्तिनिवृत्तिमत्त्वाच्च श्रोत्रादिवदिन्द्रियत्वम् । ‘न वाक्चपलो न पाणिपादचपलः? इत्यादेर्विधिप्रतिषेधविषयप्रवृत्तिनिवृत्तिमत्त्वसिद्धि- ।

 तथा, वागादीनीन्द्रियाणि, कौशलवत्त्वात्, चक्षुरादिवत् । सर्वगोत्रषु चेन्द्रियशक्तिः करणवृत्त्याः सन्दर्शनादिष्यत एव । वाग्गुदप्रभृतीनां सर्पादीनां

  • मूकषण्डानां च मुखमेवोपस्थेन्द्रियम् । एकादशं मनः सर्वार्थमतीतानागतवर्तमानविषयार्थं बुद्धीन्द्रियकर्मेन्द्रियविषयार्थं च ॥

 एतान्येकादशेन्द्रियाण्यस्मितालक्षणस्य अस्मिभावोऽस्मिता अस्मीति प्रत्ययः, स च लक्षणं यस्य सोऽस्मितालक्षणोऽस्मिताप्रत्ययेन हि लक्ष्यते लिङ्गयते षष्ठमविशेषाख्यं तत्त्वमहङ्कारः । तस्याविशेषस्य विशेषा एतानि ॥

 गुणानामविशेषाकारसंस्थितानां सत्त्वादीनामेष षोडशको विशेषपरिणामः सत्त्वबहुलमाकाशं, रजोबहुलो वायु, सत्त्वरजोबहुलोऽग्निः, [जलं च] । सत्त्वतमोबहुला पृथिवी, ग्राह्मत्वात् । तामसत्वेऽप्येषां गुणप्रधानकृतो विशेषः

 .बृ०उप० 2. 4. 11.

[ भाष्यम् ]

 गुणानामेष षोडशको विशेषपरिणामः ॥

 षडविशेषाः ! तद्यथा-शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं चेति एकद्वित्रिचतुःपञ्चलक्षणाः शब्दादयः पञ्चाविशेषाः । षष्ठश्चाविशेषोऽस्मितामात्र इति ॥

 एते सत्तामात्रस्यात्मनो महतः षडविशेषपरिणामाः, यत्तत्परमविशेषेभ्यो लिङ्गमात्रं महत्तत्त्वं, तस्मिन्नेते सत्तामात्रे महत्यात्मन्यवस्थाय विवृद्धिकाष्ठामनुभवन्ति ।

 प्रतिसंसृज्यमानाश्च तस्मिन्नेव सत्तामात्रे महत्यात्मन्यवस्थाय यत्तन्निस्सत्तासत्तं निस्सदसन्निरसदव्यक्तमलिङ्गं प्रधानं, तत्प्रति यान्ति

[ विवरणम् ]

करणानि प्रकाशत्वात् सत्त्वबहुलानि, मन:षष्ठानि तु बुद्धीन्द्रियाणि प्रकाशप्राधान्यात् सत्त्वबहुलानि । कर्मन्द्रियाणि क्रियाप्राधान्याद्रजोबहुलानि

 षडविशेषाः ! तद्यथा शब्दमात्रं स्पर्शमात्रमिति द्विलक्षणस्यापि प्रधानेन व्यपदेशः । तथा रूपमात्रमिति त्रिलक्षणस्यापि प्रधानेन व्यपदेशः ! तथोत्तरयोरपि मात्रशब्दः शान्तघोरादिविशेषव्यावर्तनार्थः । एकद्वित्रिचतुःपञ्चलक्षणभेदाः शब्दतत्त्वैकलक्षणः शब्दतन्मात्रभेदः ! शब्दस्पर्शलक्षणः स्पर्शतन्मात्रभेदः, इत्येवमेकैकाधिक्येनोत्तरत्रापि द्रष्टव्यम् । षष्ठश्चाविशेषोऽस्मितामात्रः। शब्दादितन्मात्रापेक्षया षष्ठ इन्द्रियाणामेकादशानामविशेषः ॥

 एते सत्त्वमात्रस्यास्तित्वमात्रस्य लिङ्गमात्रस्य मूर्तिमात्रस्य, प्रधानस्यामूर्तस्य प्रथमा मूर्तिरियं यथा बीजस्याङ्कुरीभावः । आत्मनो वस्तुरूपस्य महतः सर्वविशेषाविशेषेभ्यो महत्त्वात् षडविशेषपरिणामाः षडविशेषा एव परिणामाः सत्त्वादीनां महद्रूपावस्थितानाममी अविशेषपरिणामाः ॥

 यत्तत्परं सूक्ष्ममविशेषेभ्यो लिङ्गमात्रं महत्तत्त्वम्, तस्मिन्नेते सत्तामात्रे महत्त्वान्महत्यवस्थाय कारणस्वरूपे महत्यवस्थाय विवृद्धिकाष्ठां पृथिव्यादिविशेषान्ततामनुभवन्ति ॥

 2

[ भाष्यम् ]

एष तेषां लिङ्गमात्रः परिणामो निस्सत्तासक्तं चालिङ्गपरिणाम इति ॥

 अलिङ्गावस्थायां न पुरुषार्थो हेतुः, नालिङ्गावस्थायामादौ पुरुषार्थता कारणं भवतीति । न तस्याः पुरुषार्थता कारणं भवतीति । नासौ पुरुषार्थकृतेति नित्या आख्यायते ॥

 त्रयाणां त्ववस्थाविशेषाणामादौ पुरुषार्थता कारणं भवति | स चार्थौ हेतुर्निमित्तं कारणं भवतीत्यनेित्या आख्यायते ॥

 गुणास्तु सर्वधर्मानुपातिनो न प्रत्यस्तमयन्ते नोपजायन्ते । व्यक्तिभिरेवातीतानागतव्ययागमवतीभिर्गुणान्वयिनीभिरुपजननापायधर्मका इव प्रत्यवभासन्ते । यथा देवदत्तो दरिद्राति । कस्मात्? यतोऽस्य म्रियन्ते गाव इति । गवामेव मरणात्तस्य दरिद्राणं न स्वरूपहानादिति समः समाधिः ॥

[ विवरणम् ]

 प्रतिसंसृज्यमानाश्च प्रतिलीयमानाश्चाविशेषाः तस्मिन्नेव सत्तामात्रे लिङ्गमात्रे महत्यात्मन्यवस्थायाव्यक्तं प्रति यान्ति। किंविशिष्टम्? निस्सत्तासत्तं विशेषाविशेषधर्मरहितम् । निस्सदसदिति अव्यक्तादीषद्विकृतमिति सत्, अविशेषेभ्यः सूक्ष्मतरमिति चासत्, सच्चासच्च सदसदिति महत्तत्त्वमुध्यते । तद्धर्मरहितमव्यक्तं निस्सदसदिति ॥

 एष तेषां गुणानां सत्त्वादीनां लिङ्गमात्रः परिणामः यस्मिन्नवस्थाय विवृद्धिकाष्ठां प्रतिलयं च प्रतियान्त्यविशेषाः । निस्सत्तासत्तं चाव्यक्तं च यत् स तेषामेव गुणानामलिङ्गपरिणामः । परश्च न सूक्ष्मोऽवस्थान्तरपरिणामोऽस्ति गुणानाम् ।। सूक्ष्माविषयत्वं चालिङ्गपर्यवसानम्’ इति हि व्याख्यातम् ॥

 अलिङ्गत्वादेवालिङ्गावस्थायां न पुरुषार्थो हेतुः । अलिङ्गावस्थानिमित्तं न पुरुषाथें हेतुः । नालिङ्गावस्था पुरुषार्थप्रयुक्तोत्यर्थः । तदेतत् व्याचष्टे - नालिङ्गावस्थायामादौ पुरुषार्थता कारणम् । कस्मात् पुनस्तदवस्था पुरुषार्थप्रयुक्ता न भवतीति ? तत आह-यस्मान्नास्यां पुरुषार्थता कारणं विद्यते । स्वयमपि नासौ पुरुषार्थता महदादिवदसंवेद्यत्वादीश्वराणामपि ॥

 १. या.सू. पा. १. सू. 45.

[ भाष्यम् ]

लिङ्गमात्रमलिङ्स्य प्रत्यासत्रं, तत्र तत्संसृष्टं विविच्यते क्रमानतिवृत्तेः ।

[ विवरणम् ]

 यतश्चैतदेवं तस्मान्नित्या व्याख्यायते। यो हि पुरुषार्थप्रयुक्त: सोऽनित्यो दृष्टो यथा पृथिव्यादिः । न चैषा प्रधानावस्था पुरुषार्थप्रयुक्तेति नित्या व्याख्यायते ॥

{{gap}}त्रयाणां त्ववस्थाविशेषाणां विशेषाविशेषलिङ्गमात्राणामादौ पुरुषार्थता महदाद्यवस्था पुरुषार्थप्रयुक्ता । स चार्थः स च पुरुषारर्थो हेतुर्निर्मित्तंकारणमित्यनित्या व्याख्यायन्ते महदाद्यास्तिस्रोऽवस्थाः ॥

 गुणास्तु सर्वधर्मानुपातिनः सर्वविकारानुपातिनः । यथा सर्पः प्रांशुत्व- सर्पणकुण्डलत्वादिविशेषानुपाती, तथा विशेषादितत्वानुपतिनो गुणाः पिण्डप्रत्ययानुपातिनश्च न प्रलीयन्ते नोपजायन्ते । यथा सर्पः कुण्डलादित्वे प्रलीयमाने न प्रलीयते तदुपजने च नोपजायते तथैव गुणा अपि । यथा च घटपिठरादिषु प्रलीयमानेषु जायमानेषु च मृन्न प्रलीयते नापि जायते

 गुणा व्यक्तिभिरेव धर्मैरेवातीतानागतव्ययागमवतीभिस्त्रिलक्षणा- भिर्गुणान्वयिनीभिर्गुणोपादानकारणभिरुपजनापायधर्मका इवोत्पत्तिप्रलयवन्त इव प्रत्यवभासन्ते न स्वरूपेण विनश्यन्ति जायन्ते वा ॥

 एतस्यैवार्थस्य दृष्टान्तमाह-यथा देवदत्तो दरिद्राति । कस्मात् ? येनास्य म्रियन्ते गाव इति । गवामेव मरणात्तस्य दरिद्राणं न स्वरूपहाना दिति समः समाधिः तुल्यश्चर्चो दृष्टान्तेन दार्ष्टान्तिकस्य देवदत्तदरिद्राणवदेव गुणानुगताभिर्व्यक्तिभिर्महदादिभिर्गुणविमर्दनवैचित्र्यकृताभिर्विवर्धमानभिर्गुणाना- माढ्यता तत्प्रलये च तेषां दरिद्राणं, न स्वरूपेणापचय उपचयो वेति तुल्य: समाधिरिति ॥

 सर्वस्य प्रधानकार्यत्वे सतेि विशेषा अविशेषा वा कस्मादनन्तरं नोपजायन्त इति तदाह-लिङ्गस्यालिङ्गं प्रत्यासन्नं यथा मूलं वृक्षस्य प्रत्यासन्नं ।

बीजे संसुष्टं मूलमेव प्रथमतरं विविच्यते, न वृक्षस्योक्तरावस्था । एवं तव 

[ भाष्यम् ]

तथा षडविशेषा लिङ्गमात्रे संसृष्टा विविच्यन्ते परिणामक्रमनियमात्। तथा तेष्वविशेषेषु भूतेन्द्रियाणि संसृष्टानि विविच्यन्ते । तथा चोक्तं पुरस्तात् । न विशेषेभ्यः परं तत्त्वान्तरमस्तीति विशेषाणां नास्ति तत्त्वान्तरपरिणामः । तेषां तु धर्मलक्षणावस्थापरिणामा व्याख्या यिष्यन्ते ।। १९ ॥



[ भाष्यम् ]

व्याख्यातं दृश्यम् । अथ द्रष्टुः स्वरूपावधारणार्थमिदमारभ्यते-



[ सूत्रम् ]

द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ २० ॥

[ विवरणम् ]

प्रधाने तत् लिङ्गं संसृष्टं संलीनं प्रथमं विविच्यते आविर्भवति नेतरे विशेषा विप्रकृष्टत्वादेव । तदेवाह-क्रमानतिपत्तेः क्रमानतिक्रमात् । न हि लोके कस्यचिदुत्पद्यमानस्य क्रमातिलङ्घनमस्ति ॥

 तथा षडविशेषा: पूर्वोक्ता लिङ्गमात्रे प्रत्यासन्नत्वात् संसृष्टत्वाद्विविच्यन्ते । कस्मादित्याह-परिणामक्रमनियमात् । तथा तेष्वविशेषेषु भूतेन्द्रियाणि । तन्मात्रेषु भूतानि संसृष्टानि विविच्यन्ते । अस्मितामात्रे इन्द्रियाणि मनस्सहितानि ।

 तथा चोक्तं पुरस्तात् । न विशेषेभ्यः प्रागुक्तेभ्य आकाशादिभ्यः परं तत्त्वान्तरमस्ति । न विशेषाणामन्यस्तत्त्वान्तरपरिणाम इत्यर्थः ।एतदेवाह -विशेषाणां नास्ति तत्त्वान्तरमिति । तत्त्वं हि नाम साधारणं सर्वप्राणधारिणामामहाप्रलयस्थायि । नैवंलक्षणं पृथिव्यादिभ्य उत्पद्यमानमन्यदस्ति । धर्मलक्षणावस्थापरिणामास्तु भवन्त्येवेति । तेषां तु विशेषाणां धर्मलक्षणावस्थापरिणामा व्याख्यायिष्यन्ते तृतीयपादे ॥ १९ ॥

 व्याख्यातं दृश्यम् अवघृतं दृश्यम् । यदर्थे च दृश्यते तस्येदानीं द्रष्टुः स्वरूपावधारणार्थमिदमारभ्यते-द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः द्रष्टा दृश्यस्य यथाव्याख्यातरूपस्योपलब्धा पुरुषः । तस्येदं लक्षणं दृशिमात्रः 

[ भाष्यम् ]

 दृशिमात्र इति दृक्छक्तिरेव 'विशेषणापरामृष्टेत्यर्थः । स पुरुषो बुद्धेः प्रतिसंवेदी । स बुद्धेर्न सरूपो नात्यन्तं विरूप इति ॥



[ विवरणम् ]

 शुद्धोऽपि प्रत्ययानुपश्यश्चेति । पुरस्तादाख्यातम्-‘तदा° द्रष्टुः स्वरूपेऽवस्थानम्' 'वृत्तिसारूप्यमितरत्र’ इति च, तदेव द्वयमिह प्रतिपाद्यते ॥

 यच्चोक्तं' प्रतिसंवेदी बुद्धेःपुरुष इत्युपपादयिष्याम इति, तच्चात्रोपपाद्यते । दृशिर्दर्शनमुपलब्धिस्तावन्मात्रो दृशिमात्रः । यत एवं तस्माच्छुद्धः । शुद्धोऽपि सन्नसौ बौद्धस्य प्रत्ययस्यानुपश्यः, दृशिमात्रत्वादेव तस्मात्तमनुपश्यन् तत्स्वरूपो भवति । दृशिसन्निधौ वृत्तेर्दृशिस्वरूपावभासता द्रष्टुर्वृत्तिसारूप्यम् ॥

 दृशिमात्रस्यैवविक्रियात्मकस्य सतोऽस्य बौद्धप्रत्ययानुदर्शनं यस्मात्तस्माच्च स्वरूपप्रतिष्ठता च सिद्धा । प्रत्ययानुपश्य इति । एतत्तु तदस्तित्वानुमानम् । कथम् ? घटादीनां दृश्यानां स्वरूपव्यतिरिक्तेनान्येन दृश्यत्वदर्शनात् , तत्प्रकाशकानां च आलेकादीनां व्यतिरिक्तदृश्यत्वात् , सर्वार्थावभासकानामपि प्रत्ययानां स्वरूपव्यतिरिक्तदृश्यत्वं दृश्यत्वादवगम्यते घटादितदालोकादिवदिति ।

 यस्माच्च बोद्धमेव प्रत्ययमनुपश्यति, तं च पश्यत्येव, न कदाचित् स्वविषयं प्रत्ययं न पश्यति, तस्माद्दृशिमात्रः। मात्रग्रहणं धर्मान्तरनिवर्तनार्थम् । एतेन द्रष्टुर्दृशिरित्येतन्निवर्तितमिच्छादिसमानाश्रयत्वं च निवर्तितं, दृशेरेव द्रष्टृत्वात् । तदेतदुच्यते--दृशिमात्र इति । दृक्छक्तिरेव दृग्दर्शनं तदेव शक्तिर्दृक्छक्तिः । नाप्यन्यो दृक् छक्तिमानस्ति । सैव शक्तिर्दृगिति । तत्र मात्रशब्दार्थं व्याचष्टे-- विशेषेणापरामृष्टेत्यर्थः । विशेषेण केनचिदिच्छादिना गुणैर्गुणधर्मैश्चापरामृष्टः ॥

 स पुरुषो बुद्धेः प्रतिसंवेदितुं शीलमस्येति प्रतिसंवेदी । बौद्धप्रत्ययोपलब्धिस्वभाव इत्यर्थः । पुरुषो बुद्धे: प्रतिसंवेदी दृशिमात्रः शुद्धश्चेति कथं गम्यत इत्याह-स बुद्धेर्न सरूपो नात्यन्तं विरूप इति । न समानलक्षणो नाप्यत्यन्तविधर्मेत्येतत् । असरूपतया दृशिमात्रत्वं शुद्धत्वं चाह । नात्यन्तविरूप इति वृत्तिसारूप्यतामाह ॥

 1. ’विशषेणापरामृष्टा” इति विवरणाभिमतो भाष्यपाठ: ।  2. यो。सू。पा。1。सू。3-4。

 3. यो。सू。पा。1。सू。7. 

[ भाष्यम् ]

 न तावत् सरूपः । कस्मात्? ज्ञाताज्ञातविषयत्वात् परिणामिनी हि बुद्धिः । 'तस्याश्च विषयो गवादिर्घटादिर्वा ज्ञातश्चाज्ञातश्चेति परिणामित्वं दर्शयति ॥



[ विवरणम् ]

 कथं पुनः न सरूपतेति ? उच्यते-न तावत् सरूपः । कस्मात् ? को हेतुः ? । बुद्धेस्तावत् स्वरूपं वैधर्म्यदर्शनार्थमाह— ज्ञाताज्ञातविषयत्वात् परिणामिनी बुद्धिरिति । कः पुनरसौ बुद्धेर्विषयो यो ज्ञातश्चाज्ञातश्चेत्याह- तस्यास्तु विषयो गवादिर्घटादिश्च ज्ञातश्चाज्ञातश्च । येन बाह्याकारेण परिणता बुद्धिः स ज्ञातः । येनाकारेण न परिणता सोऽज्ञातः ॥  यदि न परिणमेतापरिणममाना चेद्विषयं विख्यापयेत् सदैव विषयित्वं बुद्धेः स्यात् । तस्मात् ज्ञाताज्ञातविषयता परिणामित्वं ख्यापयति । परिणामिनी बुद्धिः, ज्ञाताज्ञातविषयत्वात् । दीपचक्षुरादि(विषय)वत् ॥

 तद्विलक्षणः पुरुषः सदा ज्ञातविषयः । सर्वदा हि ज्ञात एव पुरुषस्य स्वो विषयः । तस्मात् सदा ज्ञातविषयत्वं पुरुषस्यापरिणामित्वं परिदीपयति । सदा ज्ञातविषयत्वमसिद्धं पुरुषस्येत्याशङ्क्याह---कस्मात् ? को हेतुः ? न हीति हिशब्दः प्रसिद्धावद्योतनार्थः । बुद्धिश्च नाम बुद्धिरिति बौद्धप्रत्ययः, पुरुषस्य विषयः स्यादगृहीता गृहीता चेति । सर्वदा च गृहीत एव बौद्धः प्रत्ययः । तदव्यभिचारेणैव पुरुषस्य व्यतिरिक्तत्वसिद्धिः । तस्मात् पुरुषस्य सदा ज्ञातविषयत्वम् । ततश्चापरिणामित्वं सिद्धम् । अपरिणामी पुरुष इति प्रतिज्ञा । सदा ज्ञातविषयत्वादिति हेतुः । वैधर्म्यदृष्टान्तो बुद्ध्यादिः ॥

 ननु च बुद्धया व्यवसितमर्थं पुरुषश्चेतयति, बुद्धेश्च सर्वो विषयो ज्ञातश्चाज्ञातश्च पुरुषस्यापि समानः । ज्ञाताज्ञातविषयत्वं बुद्ध्या व्यवसितार्थोपलम्भित्वात् । तस्मात् पुरुषस्यापि परिणामित्वं ज्ञाताज्ञातविषयत्वाद्बुद्धिवदेव ॥

 नैष दोषः । बुद्धेरेव पुरुषविषयत्वात् । बुद्धिरेव हि बाह्यार्थाकारा पुरुषस्य विषयो नार्थः केवलः स्वरूपेण । तस्मान्न ज्ञाताज्ञातविषयः पुरुषः । बुद्धिस्तु सदैव ज्ञातैवेति न परिणामित्वं पुरुषस्य ॥

 ननु च बुद्ध्या व्यवसितमर्थे पुरुषश्चेतयतीति कश्चिदाह । तत् कथम् ? उच्यते-न-तैरप्यपरिणामित्वस्याभ्युपगमात् पुरुषस्य । बुद्ध्या व्यवसितमर्थमित्येत



[ भाष्यम् ]

 सदा ज्ञातविषयत्वं तु पुरुषस्यापरिणामित्वं परिदीपयति । कस्मात्? । न हि बुद्धिश्च नाम पुरुषविषयश्च स्यादगृहीता गृहीता चेति सिद्धं पुरुषस्य सदा ज्ञातविषयत्वं, ततश्चापरिणामित्वमिति ।

 किञ्च-परार्था बुद्धिः संहत्यकारित्वात्, स्वार्थः पुरुष इति ।



[ विवरणम् ]

दुक्तं भवति-बुद्धथाकारं चेतयति बुद्धिव्यवसायाकारापन्नमर्थं चेतयतीति । अन्यथा हि तेषां परिणामित्वपरार्थत्वसंहत्यकारिवादयो बुद्धिधर्माः सर्व एव प्रसजेयुः ॥

 अथापरिणामित्वे दर्शनानुपपत्तिरिति चेत्-न-दर्शनस्यैव पुरुषस्वरूपत्वात् । यो हि पुरुषपरिणामित्वमभिमन्यते, स इदं प्रष्टव्यः--किं परिणामेन क्रियत इति ॥

 स चेदभिदधीत--दर्शनमिति । स प्रत्यभिधानीयः-पुरुषस्य दर्शनमेव रूपं, अतः परिणामानर्थक्यमिति ॥

 स चेत प्रतिबूयातू-न पुरुषस्योपलब्धिर्भोग:, कस्तर्हि? विक्रियैव भोग इति - स पुनर्वक्तव्यः-तथापि विक्रियावत्त्वादनित्यत्त्वमुपनतं शरीरादिवदेव।।

 अथापि प्रतिभाषेत-स्वात्मनि विक्रिया नानित्यत्वकारणं स्यात् , किं त्ववस्थान्तरभाविविक्रिया हि कारणमनित्यत्वस्येति । स पुन: प्रतिभाषितव्यः---विक्रियावस्थाया एवावस्थान्तरत्वात् । पूर्वमविकृतस्य वस्तुनः पुनर्विक्रिया अवस्थान्तरम् ।  किं च-विषयाभ्युपगमे च विक्रियैव, तावता नियमः पार्यते न कर्तुम् । न चापि स्वात्मनि विक्रियमाणानां वज्रवैदूर्यादीनामनित्यत्वं नास्ति । न च विक्रियाजनितस्यैव दर्शनस्य दृश्यविषयत्वं न नित्यस्य दर्शनस्येति नियमहेतुरस्ति । विक्रियैवोपलब्धिर्न विक्रियाजनितेति चेतू-न-शरीरादीनां विक्रियावतामुपलब्धिप्रसङ्गात् ॥

 तस्माद्दृशिमात्र एवापरिणामी च, सदा ज्ञातविषयत्वात् पुरुष इति सिद्धम् । तस्य च नित्योपलब्धिस्वरूपत्वेऽपि दृश्यबौद्धप्रत्ययभावाभाविकृतोऽयं व्यपदेशः पश्यति दर्शयिष्यति ददर्शेति च । सवित्रादिप्रकाशनव्यपदेशवत् । 

[ भाष्यम् ]

तथा सर्वार्थाध्यवसायकत्वात् त्रिगुणा बुद्धिः, त्रिगुणत्वादचेतनेति । गुणानां तूपद्रष्टा पुरुष इत्यतो न सरूपः।।

 अस्तु तर्हि विरूप इति ! नात्यन्तं विरूपः। कस्मात्? । शुद्धोऽप्यसौ प्रत्ययानुपश्यो यतः। प्रत्ययं बौद्धमनुपश्यति, तमनुपश्यन्न तदात्माऽपि तदात्मक इव प्रत्यवभासते । तथा चोक्तम्[४०]-‘‘अपरिणामिनी हि भोक्तृशक्तिरप्रतिसङ्क्रमा च परिणामेिन्यर्थे प्रतिसङ्क्रान्तेव तेद्वृतिमनु पतति | तस्याश्च प्राप्तचैतन्योपग्रहरूपाया बुद्धिवृत्तेरनुकारमात्रतया बुद्धिवृत्यविशिष्टा हि ज्ञानवृत्तिरित्याख्यायते ॥ २० ॥



[ विवरणम् ]

यथा प्रकाशयति सविता प्रकाशयिष्यति प्राचीकशदिति च प्रकाश्यभावाभावकृतो व्यपदेशः। शुद्धत्वादयो हेतवो वैधर्म्येण बुद्ध्यादयो दृष्टान्ताः ॥

 इतश्वासुरूपः।सर्वार्थाध्यवसायित्वाद्धोरशान्तादिसमस्तार्थावसायित्वात् त्रिगुणा बुद्धिः श्रोत्रादिवत् । गुणानां तूपद्रष्टेत्युपद्रष्टृत्वं हेतुः। अत्रिगुणः पुरुष इति प्रतिज्ञा । वैधर्म्येण बुद्ध्यादिरेव दृष्टान्तोऽत्रिगुणत्वाच्चासरूपः॥

 अस्तु तर्हि विरूप एव। ततश्चात्यन्तविरूपत्वाद्भोगानुपपत्तिरिति। अत्रोच्यते-नात्यन्तं विरूपः। कस्मात्? कोऽत्र हेतुः? न हि शुद्धस्य बुद्धिस्वरूपविरूपस्याशुद्धबौद्धप्रत्ययादत्यन्तावैरूप्यसिद्धये हेतुरित्यभिप्रायः॥

 न-बुद्धिप्रत्ययसाक्षित्वस्य सिद्धत्वात्। यतः शुद्धोऽप्यसौ बौद्धं प्रत्ययमनुपश्यति तच्च बौद्धप्रत्ययानुदर्शनं साधितम्। अनुपश्यतीति विषयाकारपरिणामे सति बौद्धं प्रत्ययं पश्यतीत्यर्थः। तमनुपश्यन्नपि न तदात्मा न त्रिगुणः। तदात्मक इव शान्तघोरमूढव्यवसायरूप इव प्रत्यवभासते। तस्मान्नात्यन्तविरूप: प्रवृत्तिसारूप्यात्। तत्र यदुक्तं बुद्धेः प्रतिसंवेदी पुरुष इत्युपपादयिष्यामः इति, तदुपपादितम् । तथा[४१] च तत्सारूप्यमादर्शितम्। तथोक्तं तन्त्रे

[ सूत्रम् ]

 तदर्थ एव दृश्यस्यात्मा ॥ २१ ॥



[ भाष्यम् ]

 दृशिरूपस्य पुरुषस्य कर्मविषयतामापन्नं दृश्यमिति तदर्थ एव दृश्यस्यात्मा भवति । स्वरूपं भवतीत्यर्थः | [ततश्च] स्वरूपं तु पररूपेण

[ विवरणम् ]

"अपरिणामिनी भोक्तृशक्तिः-दृक्छक्तिर्यथाव्याख्यातरूपा अप्रतिसङ्क्रमा च परिणामिन्यर्थे बौद्धे प्रत्यये प्रतिसङ्क्रान्तेव प्रत्ययविषयत्वात् तद्वृत्तिमनुपतन्तीव अस्या बुद्धेर्वृत्तिमनुपतन्तीव द्रष्ट्रत्वादुपलभमाना। बौद्धः प्रत्ययो जायमान एव दृक्छक्तेः कर्मतामापद्यते । तमनुपतन्त्युपलभमाना भोक्तृशक्तिः तस्याश्च प्राप्तचैतन्योपग्रहरूपायाः प्राप्तं चैतन्योपग्रहरूपं पुरुषोपग्रहरूपं यया बुद्धिवृत्या आसादितं पावकोपग्रहरूपतप्तलोहपिण्डवद्दृशिकर्मत्वादेव अनुकारमात्नतया बुद्धिवृत्तिसारूप्यमात्रतया बुद्धिवृत्यविशिष्टा ज्ञवृत्तिरिति ज्ञ एवोपलब्धिरेव वृत्तिरित्याख्यायते ॥ २० ॥

 तदर्थ एव दृश्यस्यात्मा तच्छब्देन द्रष्टा दृशिमात्रः शुद्धो यथाधिगतात्मा प्रत्याम्नायते । तदर्थः तस्मै तदर्थस्तत्प्रयोजनः दृशिकर्मत्वार्थ इत्यर्थः । भोगरूपेणापवर्गरूपेण च । कोऽसावित्याह-दृश्यस्यात्मा प्रधानस्यात्मा स्वरूपं स्वरूपलाभ इति ।

 ननु चतुर्व्यूहत्वं व्याचिख्यासितं किमर्थमेतदप्रकृतमुच्यते। नैष दोषः । आत्यन्तिकदुःखनिवृत्तिप्रयोजनस्य प्रकृतत्वात् । कथं दृश्यतादर्थ्यलाभावधारणेनात्यन्तिकी दुःखविरतिरुक्ता भवेदिति । उच्यते-यदि दृश्यस्वरूपप्रतिलंभस्तदर्थ एव, तदा अशेषतदर्थविरतौ पुनः कृतार्थत्वात् कार्याभावादात्यन्तिकदृश्यविरतिः स्यात् । तस्य पुनः प्रवृत्तौ प्रयॊजनाभावात् । न हि कृतमेव पुनः करणीयकमुपाश्नुते | अथ तु स्वार्थोऽपि दृश्यस्यात्मलाभोऽभविष्यदतः स्वार्थस्य भावात् पुनः पुनः प्रावर्तिष्यत । ततश्च नात्यन्तिकी निवृत्तिः ! तस्मात्तादर्थ्यमेवावधार्यते ॥

 दृश्यात्मलाभस्य स्वार्थाभावश्च दृश्यस्य भोग्यत्वात् ओदनादिवत् सिद्धः, अचेतनत्वात् संहत्यकारित्वाच्च। तदाह-दृशिरूपस्य पुरुषस्य कर्मविषयतामापन्नं दृश्यमिति । इतिशब्दो हेत्वर्थे । तदर्थ एव दृश्यस्यात्मा भवति स्वरूपं भवतीत्यर्थः । पुरुषार्थ एव प्रधानस्यात्मलाभो दृशिकर्मतापत्तेरोदनादिवत् ॥

 25

[ भाष्यम् ]

प्रतिलब्धात्मकं भोगापवर्गार्थतायां कृतायां पुरुषेण न दृश्यत इति । २१ ॥  स्वरूपहानादस्य नाशः प्राप्तः ! न तु विनश्यति | कस्मात् ?

[ सूत्रम् ]

कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥ २२ ॥

[ भाष्यम् ]

 कृतार्थमेकं पुरुषं प्रति दृश्यं नष्टमपि, नाशं प्राप्तमपि, अनष्टं, तदन्यपुरुषसाधारणत्वात् । कुशलं पुरुषं प्रति नाशं प्राप्तमप्यकुशलान् पुरुषान् प्रति न कृतार्थमिति, तेषां दृशेः कर्म, विषयतामापन्नं लभत एव पररूपेणात्मरूपमिति ।

[ विवरणम् ]

 सूत्रप्रयोजनमाचष्ट इदानीम्--ततश्च तादर्थ्यस्य नियतत्वात् कारणात् पुरुषरूपेण प्रतिलब्धात्मकं प्राप्तचैतन्योपग्रहरूपं सद्भोगापवर्गार्थतायां कृतायां पुरुषेण न दृश्यते । भोगापवर्गव्यतिरेकेण कर्तव्याभावात्॥ २१ ॥

 सूत्रसम्बन्धं करोति--यं पुरुषं प्रति चरितार्थं दृश्यं, तं प्रति दृशिकर्मतां नापत्स्यत इति स्वरूपहानम्, अतश्च स्वरूपहानादस्य विनाशः प्राप्तः । न तु विनश्यति सर्वात्मना । कस्मात्? को हेतुः ? प्रधानानां प्रतिपुरुषं बहुत्वात् कृतार्थं प्रति नष्टमेवेति मन्यते ॥

 कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् । कृतार्थं यं पुरुषं प्रति भोगापवर्गनिर्वर्तनेन कृतप्रयोजनं तमेकं पुरुषं प्रति पुनः कार्यकरणरूपेणाप्रवर्तनाद्भावाभावयोरविशेषान्नष्टमपि । अस्य व्याख्यानं नाशप्राप्तमपीति । अनष्टं तदन्यपुरुषसाधारणत्वात् । यान् प्रत्यकृतार्थं तान् प्रत्यनष्टम् ॥

 कथमनष्टमित्याह--कुशलपुरुषान् प्रति नाशप्राप्तं भोगापवर्गप्रदानेन कुशलपुरुषान् प्रति कृतप्रयोजनम्। अकुशलपुरुषान् प्रति अकृतार्थं भोगापवर्गयोः कर्तव्ययोरकृतत्वात्तेषामकुशलानां दृशेः त एव दृशिस्तस्याः कर्मतां दृश्यतामापन्नं लभत एव पुरुषरूपेण पुरुषनिर्भासतया आत्मरूपमिति । अतश्च साधारणत्वादेकमेव प्रधानं पृथिव्यादिवत् । कार्यकरणानां च भिन्नत्वात् पुरुषाणां नानात्वं सिद्धम् । सुखदुःखनानात्वाच्च पुरुषभेदसिद्धिः ॥

[ भाष्यम् ]

 अतश्च दृग्दर्शनशक्त्योर्नित्यत्वादनादिः संयोगो व्याख्यात इति । तथा चोक्तम्[४२] - "धर्मिणामनादिसंयोगाद्धर्ममात्राणामप्यनादिः संयोगः” इति ॥ २२ ॥  संयोगस्वरूपाभिधित्सयेदं सूत्रं प्रववृते-

[ सूत्रम् ]

स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २३ ॥

[ भाष्यम् ]

 पुरुषः स्वामी दृश्येन स्वेन दर्शनार्थं संयुक्तः । तस्मात् संयोगात् दृश्यस्योपलब्धिर्या स भोगः । या तु द्रष्टुः स्वरूपोपलब्धिः सोऽपवर्गः ।

[ विवरणम् ]

 अतश्च दृग्दर्शनशक्त्योर्नित्यत्वादनादिः संयोगो व्याख्यातः ! तथा चोक्तं तन्त्रे-धर्मिणामनादिसंयोगात् गुणानां पुरुषाणां चानादिसंयोगाद्धर्ममात्राणां महदादिकार्यकरणान्तानामपि पुरुषैरनादिः संयोगो धर्मिभिर्धर्माणामभिन्नत्वात् ॥ २२ ॥

 दृश्यमवधृतम् । द्रष्टा चावधृतः । द्रष्टृदृश्ययोः संयोगो हेयहेतुरिति चोक्तम् । स च संयोगोऽवधारयितव्यः कीदृश इति । ततश्च संयोगस्वरूपावधारणार्थमिदं सूत्रं प्रववृते-स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः । स्वस्वामिशक्त्योः बुद्धिपुरुषयोः स्वरूपोपलब्धेर्हेतुः कारणम् । यस्मिन् सति तयोः स्वरूपमुपलभ्यते वदनदर्पणयोरिव, स तयोः स्वरूपोपलब्धिहेतुः । संयोगः दृष्टदृश्यस्वरूपकार्यानुमेय इत्यर्थः ॥

 प्रमाणं चात्र स्वसंयोगपूर्विका बुद्धिपुरुषयोः स्वरूपोपलब्धिः, विषयविषयिस्वरूपोपलब्धित्वात् , ईक्षणदर्पणस्वरूपोपलब्धिवत् । या काचित् सुखदुःखोपलब्धिर्विवादगोचरापन्ना सा सुखदुःखहेतुसंयोगपूर्विका, सुखदुःखोपलब्धित्वात्, चन्दनकण्टकसुखदुःखोपलब्धिवत् ॥

 तदाह-पुरुषः स्वामी दृश्येन स्वेन स्वया बुद्धया दर्शनार्थं भोगापवर्गदर्शनार्थं संयुक्तः । दर्शनप्रयुक्त एव संयोग इत्यर्थः ॥

{{gap}}तस्मात् संयोगाद्दर्शनप्रयुक्ता दृश्यस्योपलब्धिः अविशिष्टा या स भोगः। या तु द्रष्टुः स्वरूपोपलब्धिर्विविक्ता सोऽपवर्गः । यस्माद्दर्शनकार्यद्वयप्रयुक्तः 

[ भाष्यम् ]

दर्शनकार्यावसानः संयोग इति दर्शनं वियोगस्य कारणमुक्तम् । दर्शनमदर्शनस्य प्रतिद्वन्द्वीत्यदर्शनं संयोगनिमित्तमुक्त्तम् । नात्र दर्शनं मोक्षकारणम्, अदर्शनाभावादेव बन्धाभावः स मोक्ष इति । दर्शनस्य भावे बन्धकारणस्यादर्शनस्य नाश इत्यतो दर्शनं ज्ञानं कैवल्यकारणमुक्तम् ।

 किं चेदमदर्शनं नाम ?

[ विवरणम् ]

संयोगस्तस्माद्दर्शनकार्यावसानः संयोगः तेन पुरुषसंयोगवद्दर्शनं वियोगस्य कारणमित्युक्तम् । गुणपुरुषान्तरदर्शनं प्रधानपुरुषवियोगस्य कारणमित्युक्तं, कार्यस्य दर्शनेन पर्यवसितत्वात् ॥

 संसारिसंसारहेतुयाथात्म्यदर्शनं दुःखदुःखिसंयोगहेतुनिवर्तकं, दुःखिदुःखोहतुयाथात्म्यविषयत्वात् , रोगिरोगहेतुयाथात्म्यदर्शनवत् ।

 अविद्या द्रष्टृदृश्ययोः संयोगकारणं, दुःखनिमित्तसंयोगहेतुत्वात्, रोगहेतुसंयोगनिमित्तमिथ्याज्ञानवत् । द्रष्ट्रदृश्यसंयोगो मिथ्याज्ञानपूर्वक:, दुःखहेतुत्वात् , रोगिरोगहेतुसंयोगवत् | यस्माद्दुःखिदुःखहेतुयाथात्म्यविषयं दर्शनं, तस्मात्तदन्यथाविषयस्यादर्शनस्य प्रतिद्वन्द्वमित्यदर्शनं संयोगनिमित्त मित्युक्तं तस्य हेतुरविद्येति । दुःखनिमित्तत्वाच्च संयोगस्य ॥

 यस्माददर्शनमेव निवर्तयति दर्शनं नान्यत्कार्यं करोति, तस्मान्नात्र दर्शनं मोक्षकारणम्' अदर्शनाभावादेवार्थाददर्शनकार्यस्य दुःखहेतोर्बन्धस्या भावः, स मोक्षः । न पुनर्बन्धाभावव्यतिरेकेण भावयितव्यो मोक्षः । ततश्च मोक्षस्य नित्यत्वसिद्धिः ।

 दर्शनस्य भावे द्रष्ट्रदृश्यविषयस्य दर्शनस्य भावे तद्विषयस्यादर्शनस्य नाशः। दर्शनादर्शनयोरेकत्र विरोधात् तिमिररविकिरणजालयोरिव । अतो दर्शन कैवल्यकारणमुक्तम्-'विवेकख्यातिरविप्लवा' हानोपायः' इति ॥

{{gap}}किंचेदमदर्शनं नाम? ननु चोक्त्तमविद्यैव । सा चामित्रागोष्पदवदिति विद्याविपर्ययेण° व्याख्याता । सत्यमेवं, किन्तु शास्रगता विकल्पा दर्शयिष्यन्ते  1. यो. सू. पा. 2. सू. 26.

 2. यो. सू. पा. 2. सू. 5.

[ भाष्यम् ]

 किं गुणानामधिकारः?

 आहोस्वित् दृशिरूपस्य स्वामिनो दर्शितविषयस्य प्रघानचित्तस्या नुत्पादः, स्वस्मिनं दृश्ये विद्यमान यो दर्शनाभावः ?  किमर्थवत्ता गुणानाम् ?

[ विवरणम् ]

स्वाभिमतपक्षनिश्चिचीषया । परपरिकल्पितवस्तुखण्डिमानमापादयता हि निजाभिमतनिरूपितवस्तु द्रढिमानमतितरामानीयते ।

 किंचेदमिति सर्वैरेव विकल्पैर्वक्ष्यमाणैरभिसंबन्धनीयम् । किं गुणानामधिकार इति, सामान्येन परिपृष्टस्य विशेषपर्यनुयोगः । अधिकृतिराधेकारः, गुणाना प्रवृत्तिः ।

 ननु गुणानामधिकारस्य कथमदर्शनाशङ्का : उच्यते-अर्थद्वारेण भवत्येवादर्शनमधिकारः । यावद्धि गुणानां प्रवृत्तिस्तावद्वन्धः । बन्धकारणमविद्येति स्थितिस्थैर्यमानीयते । शब्दद्वारेणापि-दर्शनादन्यददर्शनं यदा, भवत्येव तदानीमाशङ्का | गुणधिकारो हि दर्शनादन्य एवेति ।

 आहोस्विद्दृशिस्वरूपस्य स्वामिनो दर्शितविषयस्य चित्तस्यानुत्पादः! इह तु पूर्वपदार्थप्रधानत्वमदर्शनस्य गृहीत्वा शङ्क्यते । चित्तस्यानुत्पाद: प्रागुत्पतेर्दर्शनस्याभावः । किमुक्तं भवत्यनुत्पाद इत्यत आह-स्वस्मिन् दृश्ये चित्ते विद्यमाने यो दर्शनाभावः गुणपुरुषान्तरदर्शनानुत्पत्तिरदर्शनमिति ॥

 किंमर्थवता गुणानां भेोगापवर्गाभ्यां या गुणानामर्थवता तददर्शनमिति । अत्र त्वर्थद्वारेणैवाशङ्का । प्रयोजनवतो हि प्रयोजनमवश्यकृत्यमिति ॥

 कः पुनरेषु पक्षेषु दोषः ? उच्यते-यद्यधिकारो गुणानामदर्शनं विद्यानर्थक्यं प्राप्तन् । न ह्यस्मिन् पक्षे विद्या प्रत्यनीकभूता स्याददर्शनस्य। यस्माद्विद्याधिकारयोरविरोधः, अतश्चानिर्मोक्षः प्रसक्तः ! पुनः पुनः प्रयोजनवत्तया प्रवृत्तिसंभवात् |

 गुणार्थवत्ता अदर्शनमिति पक्षेऽप्येष एव दोषः । तथा चित्तस्यानुत्पादपक्षेऽ

प्येष एव । अनुत्पादो हि दर्शनाभावः, तस्य चावस्तुत्वाद्विद्यया निवृतिरनुपपन्नेति । अभावे हि सति प्रत्यनीकविधानमनर्थकमेव ।

[भाष्यम्]

 अथाविद्या स्वचित्तेन सह निरुद्धा स्वचित्तस्योत्पतिबीजम् ?

 किं स्थितिसंस्कारक्षये गतिसंस्काराभिव्यक्तिः ? यत्रेदमुक्तम्-प्रधानं स्थित्यैव वर्तमानं विकाराकरणादप्रधानं स्यात् । तथा गत्यैव वर्तमाने विकारनित्यत्वादप्रधानं स्यात् । "उभयथा चास्य वृत्तिः प्रधानव्यवहारं लभते, नान्यथा । कारणान्तरेष्वपि कल्पितेष्वेष समानश्चर्चः ॥

[ विवरणम् ]

 अथाविद्या स्वचितेन सह निरुद्धेति । अत्र ह्याविद्याया अदर्शनस्य च केनचिदंशेन भेदं मन्यमानो विकल्पयति । कथम् ? अनिरुद्धा ह्माविद्या दृश्यमानत्वाद्दर्शनमेव । या तु निरुद्धा चित्तेन सह प्रलीना स्वकारणे । स्वचित्तस्योत्पतिबीजमुत्पत्तिकारणं सा न दृश्यत इत्यदर्शनमित्यभिमानः ! ततश्चानिरोधावस्थाया दर्शनत्वंप्रसङ्ग इति दुष्ट एवायं पक्षः स्यात् । अथ तु निरोधानिरोधावस्थयोरप्यदशर्नमेव, तथा सत्यभिमतसिद्धिरित्यदोष एव । किं स्थितिसंस्कारक्षये गतिसंस्काराभिव्यक्तिः । किमेतददर्शनमिति न संबध्यते । कथं तर्हि संबन्धः? उच्यते-तत्राविद्या स्वचित्तसहनिरुद्धा चित्तस्योत्पत्तिबीजामित्युक्तं, तत इदमर्थात् सिद्धम्-चित्तं स्वकारणे निरुध्यते पुनश्चोत्पद्यत इति । ततश्चेदमपि सिद्धमर्थाच्चित्तस्य कारणमपि स्थित्या गत्या च वर्तत इति । ततश्चैतद्विस्पष्टीकरणार्थं पृच्छति ॥

  स्थित्यर्थो गुणानां साम्यवस्थाहेतुः संस्कारः स्थितिसंस्कारः । तस्य क्षये स्थितिसंस्कारक्षये गतिर्महदाद्याकारेण प्रवृत्तिस्तदर्थः संस्कारो गतिसंस्कारः तस्याभिव्यक्तिरित ।

 यदि स्थित्या गत्या च वर्तते, ततः को दोषः स्यात्तदुदाहरणेन दर्शयति-- यत्रेदमुक्तं प्रधानं स्थित्यैव वर्तमानं विकाराकरणात् महदाद्याकारेणापरिणामादप्रधानं स्यात् । यतः प्रधत्ते विकारानिति प्रधानम् । तेन विकाराणां अप्रधातृत्वादप्रधानं स्यात् ।

 तथा गत्यैव वर्तमानं नित्यं विकाररूपेणैव वर्तमानं विकारनित्यत्वान्न विकारान् प्रधत्त इति कारणत्वहानेरप्रधानं स्यात् | उभयथा वृत्तिः गत्या स्थित्या च वर्तनं वृत्तिर्यस्य प्रधानस्य तदुभयथावृत्ति व्यवहारं प्रधानत्वव्यवहारं कारणत्वव्यवहारं लभते । नान्यथा प्रधानत्वे प्रधानस्य । कारणान्तरेष्वपि पुरुषश्चरपरमाण्वादिषु परकल्पितेषु समानश्चर्चः तुल्यविषयः

1. 'उभयथावृत्ति व्यवहारं?' इति विवरणानुसारी पाठः ।

[ भाष्यम् ]

  दर्शनशक्तिरेवादर्शनमित्येके ।। **प्रधानस्यात्मख्यापनार्था प्रवृत्तिः? इति श्रुतेः ! सर्वबोध्यबोधसमर्थः प्राक् प्रवृत्तेः पुरुषो न पश्यति, सर्वकार्यकरणसमर्थं दृश्यं तदा न दृश्यत इति ।

 उभयस्याप्यदर्शनं धर्म इत्येके । तत्रेदं दृश्यस्य स्वात्मभूतमपि पुरुषप्रत्ययापेक्षं दर्शनं दृश्यधर्मत्वेन भवति । तथा पुरुषस्यानात्मभूतमपि दृश्यप्रत्ययापेक्षं पुरुषधर्मत्वेनैवादर्शनमवभासते ॥

 दर्शनं ज्ञानमेवादर्शनामिति केचिदभिदधति ।

[ विवरणम् ]

 न्यायः । प्रकृत एवाधुना निरूप्यते । दर्शनशक्तिरेवादर्शनमित्येके । दर्शनस्य शक्तिरनभिव्यक्तावस्था बीज इवानभिव्यक्ताङ्कुरावस्था तदेतददर्शनमित्येके मन्यन्ते । कुतः? प्रधानस्यात्मप्रख्यापनार्था प्रख्यापने दर्शनमाख्यायमानरूपता तस्यै तददर्शनमिति श्रुतेः ॥

 अस्मिन् पक्षे तदेवानाभिव्यक्तात्मकं शक्तिरूपमदर्शनं तदेव चाभिव्यक्तं दर्शनमिति स्वात्मनि विरोधानुपपत्तेर्दर्शनाददर्शनस्य निवृत्त्यनवक्लृप्तिः ॥

 तथा दर्शनान्तरं-सर्वबोधसमर्थः बोधात्मकत्वात् प्राक् प्रवृतेः प्रधानप्रवृत्तेः प्राङ्न पश्यति दशैनात्मकोऽपि सन् पुरुष इति । सर्वकार्यकरणक्रियासमर्थं दृश्यं प्रधानं न तदा प्राक्प्रवृत्तेः परमार्थमपि सत् दृश्यत इत्युभयस्य प्रधानपुरुषयोरदर्शनं धर्म इत्येके मन्यन्ते ॥

 अत्राप्युभयोरपि प्रागवस्थैवादर्शनमुत्तरकालावस्था च दर्शनमिति पूर्वदोषः स्थित एव । दृश्यस्यात्मभूतमव्यतिरिक्तमपि पुरुषप्रत्ययापेक्षं पुरुषाकारेण पुरुषस्य न दृश्यते । पुरुषाकारविशिष्टतया वा पुरुषस्य दृश्यत इति पुरुषप्रत्ययापेक्षमदर्शनं पुरुषस्य धर्मत्वेन भवति । तदेतत्स्पष्टयति---पुरुषस्यानात्मभूतमपि दृश्यप्रत्ययापेक्षं दृश्यप्रत्ययोऽज्ञानं तदपेक्षं, कथं पुरुषाकारेणादर्शनात् संकरेण वा दर्शनादन्तःकरणप्रत्ययापेक्षं पुरुषानात्मभूतमपि पुरुषधर्मत्त्वेनैवादर्शनमाभासते । तथा च सति दृश्यधर्म एवायमित्यदोषः ॥

[ भाष्यम् ]

 इयेते शास्त्रगता विकल्पाः । तत्र विकल्पबहुत्वमेतत् ॥ २३ ॥

'सर्वपुरुषाणां गुणसंयोगाविशेषः । असाधारणविषयस्तु प्रत्यक्चेतनस्य स्वबुद्धिसंयोगः 

[ सूत्रम्]

तस्य हेतुरविद्या ॥ २४

 

[ भाष्यम्]

  विपर्येयज्ञानवासनेत्यर्थः

 

[ विवरणम्]

 सर्वविकल्पपक्षख्यापनार्थ उपन्यासः । दर्शनं ज्ञानं, तदेव ज्ञानमदर्शनमिति केचिन्मन्यन्ते। समासस्योत्तरपदार्थप्राधान्यमूरीकृत्यायं विकल्पः । एतस्य दोषोऽविद्यासूत्र एव व्याख्यातः ।
{{gap}}एते शास्त्रगता विकल्पाः दर्शनान्तरगता विकल्पाः । तत्र विकल्पबहुत्वमात्रमेतत् न बहुत्वमात्रेणार्थसिद्विरेत्यभिप्रायः । यस्य तु बुद्धिपुरुषसंयोगहेतुत्वं तस्यादर्शनं[नत्वं] युक्तं दर्शनविरोधात् । तथा च व्याख्यातमिति नात्र पुनः प्रयत्यते !! २३ !!
 सर्वपुरुषाणां गुणसंयेगाविशेषः । गुणैः संयोगः सर्वेषामविशिष्टः साधारणः, तथाप्यसाधारणविषयस्तु प्रत्यात्म विशिष्टस्तु प्रत्यक्चेतनस्य बौद्धप्रत्ययानुदर्शनः स्वबुद्धिसंयोगः । स चासाधारणः स्वबुद्धिसंयोगो येन भवति तदेवादर्शनम् । तस्य हेतुरविद्या । तस्य स्वस्वामिशक्तिस्वरूपोपलब्धिहेतो:- संयोगस्य हेतुः कारणं अविद्या विपर्ययज्ञानवासनेत्यर्थः ॥

" "
 ननु च 'विपर्ययो 'मिथ्याज्ञानमतद्रूपप्रतिष्ठम् इत्युक्तन् । तथा' 'अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या' इत्युक्तम् । अत्र कथं विपर्ययज्ञानवासनेत्युच्यते ! नैष दोषः-अविद्याकार्यत्वाद्वासनायाः

1. इदानीन्तनमुद्रितग्रन्थपाठस्तु-'तत्र विकल्पबहुत्वमेतत् सर्वपुरुषाणा गुणानां संयोगे साधारणविषयम् ।। २३ ||
 यस्तु प्रत्यक्चेतनस्य स्वबुद्धिसंयोगः-(सू) 'तस्य हेतुरविद्या” इति ।
2. यो. सू. पा. 1. सू. 8.

3. यो. सू. पा. 2. सू. 5.

[ भाष्यम् ]

 विपर्ययज्ञानवासनावासिता च न कार्यनिष्ठां पुरुषख्यातिं बुद्धिः प्राप्नोति । साधिकारा पुनरावर्तते । सा तु पुरुषख्यातिपर्यवसानां कार्यनिष्ठां प्राप्नोति । चरिताधिकारा निवृत्तादर्शना बन्धकारणाभावान्न पुनरावर्तते ॥

 अत्र कश्चित् पण्डकोपाख्यानेनोद्धाटयति - मुग्धया भार्यया अभिधीयते-‘पण्डक ! आर्यपुत्र ! अपत्यवती मे भगिनी, किमर्थं नाम नाहम्'- इति ! स तामाह-‌-'मृतस्तेऽहमपत्यमुत्पादयिष्यामि' इति । तथेदं विद्यमानं ज्ञानं चित्तनिवृर्तिं न करोति, विनष्टं करिष्यतीति का प्रत्याशा ॥

[ विवरणम् ]

  सैवाविद्येत्युच्यते । प्रलीनेष्वपि कारणेषु साम्यावस्थायमपि सत्यामवेिद्यावासना पुनः पुनः प्रवृत्तौ प्रधानस्य हेतुर्भवति । न पुनर्विपर्ययः प्राक् बुद्धयुत्पत्तेरभावात्प्रवृत्तिकारणमिति, तद्वासनैव प्रधानपुरुषसंयोगस्य कारणमित्याख्यायते ॥

 तदेवाह--विपर्ययज्ञानवासनावासिता न कार्यनिष्ठां कार्यसमाप्तिम् । कार्यनिष्ठामाह-पुरुषख्यातिमिति । तां बुद्धिर्न प्राप्नोति । पुरुषख्यातिपर्यवसाना हि बुद्धेः करणीयवत्ता । साधिकारा करणीयवती पुनः पुनरावर्तते विपर्ययज्ञानवासनावशात् ॥

 सा तु बुद्धिः पुरुषख्यातिपर्यवसाना कार्यनिष्ठां प्राप्नोति । पुनरपि तदेव स्पष्टयति-चरिताधिकारा निवृत्तादर्शनबन्धना कर्मविपाकयोरदर्शनमूलत्वाददर्शनमेव बन्धनम् । अदर्शननिवृत्तौ च बन्धनिवृत्तेर्बन्धकारणाभावाद्बन्धकारणस्यादर्शनस्याभावान्न पुनरावर्तते ॥

 अत्र कश्चित्पण्डकोपाख्यानेनोद्धट्टयति । पण्डकः षण्डः । स किल मुग्धया भार्यया अभिधीयते । कथम् ? आर्यपुत्र, मे भगिन्यपत्यवती, किमर्थं नाहं अपत्यवत्यस्मीति । तामाह मृतस्तेऽहमपत्यमुत्पादयिष्यामीति । तथेदं विद्यमानं ज्ञानं चितनिवृत्तिं न करोति, नष्टं करिष्यतीति का प्रत्याशा ||

 अयमुद्धट्टयितुरभिप्रायः-अविद्या चेदूबुद्धिपुरुषसंयोगस्य कारणं, तस्याश्च विद्या निवृत्तिहेतुः, ततश्च विद्यमानायां विद्यायां तद्विरोधिन्यविद्या निवर्तते ।

26

[ भाष्यम् ]

 तत्राचार्यदेशीयो वक्ति-ननु बुद्धिनिवृत्तिरेव मोक्षः । अदर्शनकारणाभावात् बुद्धिनिवृत्तिः । तच्चादर्शनं बन्धकारणं दर्शनान्निवर्तते ।

 तत्र चित्तनिवृत्तिरेव मोक्षः । किमर्थमस्थान एवास्य मतिविभ्रमः ॥ २४ ॥

[ विवरणम् ]

 न तु विद्योत्पत्त्यनन्तरमपि चित्तनिवृत्तिः । तत्र यथैव सत्यां विद्यायां न चित्तनिवृत्तिः, तथा नष्टायामपि विद्यायां न निवर्त्स्यति तरामिदानीं षण्डादिव मृतादपत्योपत्तिः । अत एव कारणादविद्याऽपि न संयोगकारणम् ॥

 अत्राचार्यदेशीयः परिहारं वक्ति । आचार्यदेशीयग्रहणं पूर्वपक्षस्यासारत्वप्रख्यापनार्थम् । उद्धट्टनेनैव प्रत्युत्तरं वदामि इति ॥

{{gap}}ननु बुद्धिनिवृत्तिरेव मोक्षः । कथम्? अदर्शनकारणाभावाद्बुद्धिनिवृत्तिः । तच्चादर्शनं बन्धकारणं दर्शनान्निवर्तते, तन्निवृत्तिरेव मोक्षः । किमर्थमस्थाने विभ्रमः । प्रधानपुरुषसंयोगस्य दुःखहेतोरविद्या कारणमिति विस्तरेण प्रतिपादितम् । ततश्च दर्शनाददर्शननिवृत्त्युपपत्तेः पूर्वपक्षमसारं मन्यते ॥

 ननु चोक्तं विद्यानन्तरमेव बुद्धिर्न निवर्तत इति । उच्यते । विद्यया तावदविद्या निवर्तत एव । नात्र विभ्रमः कार्यः । तस्यां तु निवृत्तायां बुद्विनिवृत्तिश्व भवत्येव । पुनर्बुद्धिसंयोगस्याविद्याव्यतिरेकेण कारणान्तराभावातू । ततश्च बुद्धिनिवृत्तिरेव मोक्षः ॥

 यत्तु विद्यानन्तरमेव बुद्धिर्न निवर्तत इति, तदकारणम् । कस्मात् ? निमित्तनैमित्तिकयोरनेकप्रकारदर्शनात् । यथा तक्षादिनिमित्ताः प्रासादादयस्तक्षादिषूपरतेष्वपि न निमित्तविरत्या विरमन्ति । भग्नस्य च द्रुमस्य भङ्गानन्तरमेव विशेषादर्शनात् । तथा चित्तस्यपि विमुक्तसायकवदारब्धसंस्कारापरिक्षयात्, तत्संस्कारापेक्षया कंचित्कालं दर्शनेनैवावस्थानं इति। तथा च श्रुतिः---"तस्य1 तावदेव चिरम्" इति ॥ २४ ।।


1. छान्दोग्य. उ. 6. 14-2.

[ भाष्यम् ]

 हेयं दुःख हेयकारणञ्च संयोगाख्यं सनिमित्तमुक्तम् । अतः परं हानं वक्तव्यम्---

[ सूत्रम् ]

 तदभावात् संयोगाभावो हानं तत् दृशेः कैवल्यम् ॥२५॥

[ भाष्यम् ]

 तस्यादर्शनस्याभावात् बुद्धिपुरुषसंयोगाभावः । आत्यन्तिको बन्धनोपरम इत्यर्थः । एतत् हानम् । तत् दृशेः कैवल्यम् । पुरुषस्यामिश्रीभावः, पुनरसंयोगो गुणैरित्यर्थः । दुःखकारणनिवृत्तौ दुःखोपरमो हानम् । तदा स्वरूपप्रतिष्ठः पुरुष इत्युक्तम् ॥ २५ ॥

[ विवरणम् ]

 चत्वारो व्यूहाः प्रकृताः । तत्र हेयं दुःखं 'हेयं दुःखमनागतम्' इत्युक्तम्। रोगस्थानीय एक व्यूहो व्याख्यात इत्यर्थः । हेयकारणं च सनिमितं संयोगाख्यमुक्तम् । द्वितीयो व्यूहो रोगहेतुस्थानीयो हेयहेतुस्त्वविद्यानिमित्तसाहितः प्रधानपुरुषसंयोग उपवर्णितः । उक्तपरिकीर्तनं च सोपपत्तिकोक्तेस्तद्विषयाकाङ्क्षानिवृत्त्यर्थम् ॥

 अतः परं हानम् आरोग्यस्थानीयं मोक्षशास्त्रप्रयोजनं वक्तव्यम् । वक्ष्यमाणसंकीर्तनं च श्रोतृबुद्धिसमाधानार्थम् । तदभावात् संयोगाभावो हानं तत् दृशेः कैवल्यम् ॥  तदिति पूर्वप्रकृताया अविद्यायाः प्रत्यवमर्शः । तस्यादर्शनस्य अविद्याया अभावात् बुद्धिपुरुषसंयोगस्य दुःखहेतो: अभावः आत्यन्तिको बन्धनोपरम इत्यर्थः । एतत् हानम् आरोग्यस्थानीयम् । तत् दृशेः कैवल्यं तदेव हानं आत्यन्तिको बन्धनोपरमः दृशेः पुरुषस्य कैवल्यम् । अस्य व्याख्यानं पुरुषस्यामिश्रीभावः पुनरसंयोगो गुणैरित्यर्थः ॥

 पदार्थं व्याख्याय वाक्यार्थमिदानीं दर्शयति-दुःखकारणनिवृत्तौ । दुःखोपरमो हानम् । तदा स्वरूपप्रतिष्ठः पुरुष इत्युक्तम्---1"स्वरूपप्रतिष्ठा वा चितिशक्तिः" इति |


1. यो. सू. पा. 4. सू. 34.

[ भाष्यम् ]

 अथ हानस्य कः प्राप्त्युपाय इति---

[ सूत्रम् ]

विवेकख्यातिरविप्लवा हानोपायः ॥ २६ ॥

[ भाष्यम् ]

 सत्वपुरुषान्यताप्रत्ययो विवेकख्यातिः । सा तु अनिवृत्तमिथ्याज्ञाना प्लवते । यदा मिथ्याज्ञानं दग्धबीजभावं वन्ध्यप्रसवं सम्पद्यते, तदा विधूतक्लेशरजसः सत्त्वस्य परे वैशारद्ये परस्यां वशीकारसंज्ञायां वर्तमानस्य विवेकप्रत्ययप्रवाहो निर्मलो भवति ।

[ विवरणम् ]

  ननु च अनियतविपाकस्य कर्मणः सद्भावे कथं हानं स्यात् ? पुनरनियतविपाककर्मणा शरीरस्यारम्भ इति । न—अभिहितप्रतिविधानत्वात् । सम्यग्दर्शनेन क्लेशबीजस्य दाहात् कर्मणामनारम्भकत्वमुक्तं दग्धबीजभावापनीततुषशालितण्डुलनिदर्शनेन ! तस्मात् न विदुषः कारणाभावाच्छरीरारम्भः ॥ २५ ॥

 उक्तस्तृतीयो व्यूहः-आरोग्यस्थानीयो हानं नाम । अधुना चतुर्थं व्यूहं भैषज्यस्थानीयमुपाचिख्यासन्नाह-हानस्य कः प्राप्त्युपायः? इति ॥

 ननु च कथं हानस्य प्राप्युपाय इति ? यावता नैव हानमवस्तुत्वात् प्राप्यम् ! बन्धनोपरम एव हि हानम् । नैष दोषः । यत्नसाध्यत्वादविद्यानिवृत्तेः यथा निगलभेदः । सम्यक्ख्यातौ सत्यामविद्यानिवृत्तिरिति हानमवस्त्वपि प्राप्यमित्युपचर्यते |

 विवेकख्यातिरविप्लवा हानोपायः । का पुनर्विवेकख्यातिरित्याह-सत्त्वपुरुषान्यताप्रत्ययः सत्त्वपुरुषयोः साधर्म्यवैधर्म्ययाथात्म्यावबोध इत्यर्थः । सा तु विवेकख्यातिः अनिवृत्तमिथ्याज्ञाना विप्लुवत्ते न स्थिरीभवति, न कार्यक्षमेति ॥

 तथा चोक्तम्--"यथा हेमाविपक्वं न विराजते ।  तथाऽपक्वकषायस्य विज्ञानं न प्रकाशते ||"  तथा "कामग्राहगृहीतस्य ज्ञानमप्यस्य न प्लवः" । इति ॥

 यदा तु मिथ्याज्ञानं दग्धबीजभावं दग्धबीजत्वादेव वन्ध्यप्रसवं कार्यारम्भाक्षमं सम्पद्यते, तदा विधूतक्लेशरजसः क्लेशा एव रजः विधूतं यस्य तद्विधूतक्लेशरजः तस्य सत्त्वस्य रागादिमलाकलङ्कितस्य पररयां वशीकारसंज्ञायां वर्तमानस्य ज्ञानप्रसादमात्रे वर्तमानस्य ! तदेवानुवदति-विवेकप्रत्ययप्रवाहः विवेकज्ञाननिरन्तरभावः निर्मलो भवति ॥

[ माष्यम् ]

 सा विवेकख्यातिराविप्लवा हानोपायः ।। ततो मिथ्याज्ञानस्य दग्धबीजभावोपगमः पुनश्चाप्रसव इत्येष मोक्षस्य मार्गो हानस्योपाय इति ॥ २६ ॥

[ सूत्रम् ]

 तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ २७ ॥

[ भाष्यम् ]

 तस्येति प्रत्युदितख्यातेः प्रत्याम्नायः । सप्तधेति, अशुद्ध्यावरणमलापगमात् चित्तस्य प्रत्ययान्तरानुत्पादे सति सप्तप्रकारैव प्रज्ञा विवेकिनो भवति ।  तद्यथा-परिज्ञातं हेयं नास्य पुनः परिज्ञेयमस्ति । क्षीणा हेयहेतवो न पुनरेतेषां क्षेतव्यमस्ति ।

[ विवरणम् ]

{{gap}}सा विवेकख्यातिः इत्थंभूता सती अविप्लवा भवति । यदैवमविप्लवा विवेकख्यातिः ततो मिथ्याज्ञानस्य दग्धबीजभावोपगमो विरुद्धत्वात् । पुनश्चाप्रसवः मिथ्याज्ञानस्य दग्धबीजभावोपगमादेव । तथा चोक्तम्—  "बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः ।  ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः ॥” इति ।

 सा च तादृशी विवेकख्यातिर्मोक्षस्य मार्गो हानस्योपाय इत्यर्थः ॥ २६ ॥

 उत्पन्नसम्यग्दर्शनस्य सम्यग्दर्शनोत्पत्तौ स्वानुभवप्रत्ययलिङ्गप्रकटीकरणार्थमाह---तस्य सप्तधा प्रान्तभूमिः प्रज्ञा । तस्येति प्रत्युदितख्यातेः प्रत्युत्पन्नसम्यग्दर्शनस्य प्रत्याम्नायः प्रत्यवमर्शः । सप्तधेति अशुद्धयावरणमलापगमात् । अशुद्धिरेवावरणं क्लेशाः कर्मणि च, तदेव मलं तस्यपगमात् चित्तस्य प्रत्ययान्तरानुत्पादे ममाहमिति च विरुद्धप्रत्ययान्तराणामनुत्पत्तौ । सप्तधेत्यस्य विवरणे सप्तप्रकारैव प्रज्ञा बुद्धिः विवेकिनो भवति ॥

 तान् सत प्रकारान् क्रमेणाचष्टे-यथा परिज्ञातं हेयं सर्वं दु:ख हेयं ज्ञातमुपपत्तिभिः । नास्य परिज्ञातव्यो दुःखप्रकारः

{{gap}}क्षीणा हेयहेतव इति बहुवचनप्रयोगात् क्लेशाः कर्माणि च

अभिधीयन्ते । न पुनरेषां केशकर्मणामल्पमपि सम्यग्दर्शनपावकादग्धबीजा

[ भाष्यमू ]

 साक्षात्कृतं निरोधसमाधिना हानम्। भावितो विवेकख्यातिरूपो हानोपाय इति । एषा चतुष्टयी कार्यविमुक्तिः प्रज्ञायाः ॥

 चित्तविमुक्तिस्तु त्रयी चरिताधिकारा बुद्धिगुणा गिरिशिखरकूटच्युता इव ग्रावाणो निरवस्थानाः स्वकारणे प्रलयाभिमुखाः सह तेनास्तं गच्छन्ति । न चैषां प्रतिप्रलीनानां पुनरस्त्युत्पादः प्रयोजनाभावात् इति । एतस्यामवस्थायां गुणसम्बन्धातीतः स्वरूपमात्रज्योतिः पुरुषः केवली शुद्ध इति ॥

[ विवरणम ]

 भावात् क्षे(दुत्प्रेक्षि)तव्यमस्ति । एतेनापि प्रान्तभूमित्वमेवोक्तम् । इत्थं च प्रत्युपस्थितसमीचीनप्रत्ययस्य क्षणिक्लेशत्वात् न क्षेतव्यमस्ति । कृतकरणीयोऽहमिति च सम्यग्दर्शनपरिपाकलिङ्गप्रत्यय उपावर्तते । यथा रोगातुरस्य रोगहेतुक्षये नीरोगोऽहं न पुनर्भैषज्यमस्तीति प्रत्ययः । एवभव[ष] द्वितीयः प्रज्ञाप्रकार उक्त:||

{{gap}}साक्षात्कृतं निरोधसमापत्तिर्हानम्। हानप्रत्यासन्नत्वात् हानतुल्यरूपत्वाञ्च निरोधसमाधिरेव हानमित्याख्यायते । तच्च साक्षात्कृतम् अनुभवविषयतामानीतम्। तदिदं कैवल्ये पर्यवसितम् कैवल्यं कर्तव्यमिति च प्रज्ञायते । एषोऽपि प्रान्तभूमिप्रज्ञाप्रकारः तृतीय आख्यातः ॥

{{gap}}भावितः सम्यगभ्यस्ततरः विवेकख्यातिरूपो हानोपायः । सम्यग्दर्शनं यथावदुपस्थितमिति निश्चिता चेत्प्रज्ञा विवेकिनो जायते स एष चतुर्थः प्रज्ञा प्रकारः । इत्येषा चतुष्टयी कार्यविमुक्तिः कार्यात् कर्तव्यात् विमुक्तिर्यस्याः प्रज्ञायाः सा कार्येविमुक्तिः चतूरूपा प्रज्ञा पुरुषार्थेकर्तव्यतेत्यर्थः॥

 अथ वा-कार्यस्य विमुक्तिः निवृत्तिः कार्यविमुक्तिः । साच चतुष्टयी कार्यविमुक्तिरिति समाप्तं वाक्यम् । प्रज्ञा इति परेण संबध्यते । कथम्? प्रज्ञा(प्र) युक्तम्, विवेकख्यातियुक्तं चित्तं प्रज्ञाचित्तं तस्य विमुक्तिः प्रलयः प्रज्ञाचित्तविमुक्तिः । सा त्रयी । तथा च वक्ष्यति-पुरुषाथशून्यानां गुणानां प्रतिप्रसवः 'कैवल्यम्' इति ॥

 तत्र कार्यविमुक्तिश्चतुष्टयी । पुरूषार्थश्शून्यत्वं पूर्वमुक्तम् । इदानीं बुद्धिगुणान्निवृतिः । पुरुषार्थकर्तव्यानां पुरुषार्थशून्यानां प्रतिप्रसवः प्रज्ञाचित्तविमुक्तिस्त्रयी


1. यो. सु. या. 4. सु. 34.

[ भाष्यम् ]

 एतां सप्तविधां प्रान्तभूमिप्रज्ञामनुपश्यन् पुरुषः कुशल इत्याख्यायते | प्रतिप्रसवेऽपि चित्तस्य मुक्तः कुशल इत्येव भवति, गुणातीतत्वात् इति ॥ २७ ॥

 सिद्धा भवति विवेकख्यातिर्हानोपाय इति । न च सिद्विरन्तरेण साधनं इत्यत इदमारभ्यते--

[ सूत्रमू ]

 योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः ॥ २८ ।।

[ विवरणम् ]

 व्याख्यायते । यथा-चरिताधिकारा: निवृत्तकर्तव्याः बुद्विगुणाः सत्त्वादयो बुद्धयाकारावस्थिताः प्रळयाभिमुखाः । किमिव ? गिरिशिखरकूटच्युता इव ग्रावाणो निरवस्थानाः कर्तव्याभावात् स्वकारणे अहंकारे प्रलयाभिमुखाः सह तेन बुद्धिसंस्थानेन कार्येण, अथवा, स्वकारणेनाहङ्कारेण कुशलं पुरुषं प्रति स्वकारणमप्यव्यक्तभावं प्रतिपद्यत इति सह तेनास्तं गच्छन्ति इत्युच्यते । एषा प्रथमा प्रज्ञाचित्तविमुक्तिः |

{{gap}}न चैषां प्रतिप्रलीनानां पुरुषं प्रति पुनरस्त्युत्पादः प्रयोजनाभावात् ! विमुक्तं हि चतुर्विधं कार्यम् । एषा द्वितीया प्रज्ञाचित्तविमुक्तिः ॥

 एतस्यामवस्थायां चरितार्थगुणप्रलयावस्थायां गुणसम्बन्धातीतः गुणसंबन्धो द्रष्टृदृश्यलक्षणः तमतीतः । स्वरूपमात्रज्योतिः दृशिस्वरूपमात्रमेवं ज्येतिः । पुरुषः केवली शुद्ध इति तृतीया प्रज्ञाचित्तविमुक्तिरिति ॥

 एतां सप्तविधां प्रान्तभूमिं प्रान्ताः प्रगतावसानाः भूमयः अवस्थाः यस्यास्तां प्रान्तभूमिं प्रज्ञामनुपश्यन् सम्यग्दर्शनलिङ्गपरिपाकभूतामीक्षमाणः पुरुषः कुशल इत्याख्यायते ! कुशल इति सङ्केतः ! प्रतिप्रसवेऽपि प्रलयेऽपि चित्तस्य मुक्तः कुशल इत्येव भूतपूर्वगत्या कुशल इत्येव भवति । कुतः कौशलं तस्येत्याह--गुणातीतत्वात् इति ! गुणानतीतो हि कुशलः ॥ २७ ॥

 सिद्धा विवेकख्यातिः समधिगता विवेकख्यातिः सप्तविधप्रान्तभूमिप्रज्ञाफलावसाना हानस्योपाय इति । न च सिद्धिः अन्तरेण साधनम्, इत्यत इदं विवेकख्यातसिद्धिसाधनार्थमारभ्यते-योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥

[ भाष्यम ]

 योगाङ्गान्यष्टावभिधायिष्यमाणानि । तेषामनुष्ठानात् पञ्च पर्वणो विपर्ययस्याशुद्विरूपस्य क्षयो नाशः । तत्क्षये सम्यग्ज्ञानस्याभिव्यक्तिः । यथा यथा च साधनान्यनुष्टीयन्ते तथा तथा तनुत्वमशुद्धिरापद्यते । यथा यथा च क्षीयते तथा तथा क्षयक्रमानुरोधिनी ज्ञानस्यापि दीप्तिर्विवर्धते । सा खल्वेषा विवृद्धिः प्रकर्षमनुभवति आ विवेकख्याते:, आ गुणपुरुषस्वरूपविज्ञानादित्यर्थः ।

[ विवरणम् ]

योगाङ्गानुष्ठानादेव विवेकख्यातिरिति नावदिधारयिषितम्, गुरूपासनधर्मप्रभृतिकेभ्योऽपि विवेकख्यातेः सिद्धिरिष्यत एव ! किं तर्हि ? साधनमात्रमन्तरेण न भवत्येवेत्यवधारयिष्यते । न पुनर्योगाङ्गानुष्ठानमेव साधनं, योगाङ्गानुष्ठानात्तु भवत्येव विवेकख्यातिसिद्धिरिति । तथा चाचार्यैरुक्तम्— 'योगस्तत्त्वज्ञानार्थः' इति ॥

 योगाङ्गान्यभिधायिष्यमाणानि तेषामनुष्ठानं योगाङ्गानुष्ठानम् तस्मात् । अशुद्धेः क्लेशाख्यायाः क्षयः, तत्क्षये दीप्तिः प्रकर्षः । कियदवसानेत्याह-- आ विवेकख्यतेः भवतीत्युपस्कारः ॥

 स्वयमेव भाष्यकारः स्पष्टतरं विवृणोति-योगाङ्गान्यष्टावभिधायिष्यमाणानि । तेषामनुष्ठानात् पञ्चपर्वणो विपर्ययस्य अशुद्धिरूपस्य क्षयः नाशः, तत्क्षये सम्यग्दर्शनस्याभिव्यक्तिः दीप्तिः । कथमेतद्भवतीत्याह-- यथा यथा च साधनान्यनुष्ठीयन्ते तथा तथा तनुत्वमशुद्धिरापद्यते । तथा च मनुरभाषिष्ट

“ प्राणायामैर्दहेद्दोषान् धारणाभिश्च किल्बिषान् ।
प्रत्याहारेण संसर्गान् ध्यानेनानैश्वरान् गुणान् ||” इति ।

 यथा यथा चाशुद्धिः क्षीयते तथा तथा तत्क्षयक्रमानुरेधिनी दिवसकरस्येव शिशिरावसाने ज्ञानस्य दीप्तिर्विवर्धते । सा खल्वियं विवृद्विः प्रकर्षमनुभवति । किमवसानम् ? तदाह-आ विवेकख्यातेः । तस्य व्याख्यानम्-- आ . गुणपुरुषस्वरूपविवेकज्ञानादित्यर्थः । सत्त्वपुरुषान्यताख्यातिपर्यवसानैव शुद्धिः ॥

[ भाष्यम् ]

 योगाङ्गानुष्ठानमशुद्धेः वियोगकारणम् । यथा परशुः छेद्यस्य । विवेकख्यातेस्तु प्राप्तिकारणं, यथा धर्मः सुखस्य ! नान्यथा कारणम् । कति चैतानि कारणानि शास्त्रे भवन्ति ? । नवैवेत्याह । तद्यथा

 उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः !  वियोगान्यत्वधृतयः कारणं नवधा स्मृतम् ॥ इति ।  तत्रोत्पत्तिकारणं, मनो भवति विज्ञानस्य । स्थितिकारणं, मनसः पुरुषार्थता, शरीरस्येवाऽऽहार इति । अभिव्यक्तिकारणं य(था)दा रूपस्यालोकः तदा रूपज्ञानम् । विकारकारणं मनसो विषयान्तरम् , यथाऽग्निः पाक्यस्य । प्रत्ययकारणं धूमज्ञानमग्निज्ञानस्य ।

[ विवरणम् ]

 योगाङ्गानुष्ठानमशुद्धेः क्षयकारणं विवेकख्यातेश्च प्राप्तिकारणमिति, द्विधैव कारणम् , धर्मपरशुद्वयस्थानीयमेकमुभयकारणं, नान्यथा भवतीति । तत्र कारणप्रसङ्गेन शास्त्रप्रासिद्धानि कारणानि व्याचष्टे-कति चैतानि कारणानि शास्त्रे भवन्ति ? नवैवेत्याह। तद्यथा-तानि श्लोकेनैव कथयति  उत्पतिस्थित्याभिव्यक्तिविकारप्रत्ययाप्तयः ।  वियोगान्यत्वधृतयः कारणे नवधा स्मृतम् ॥ इति ।  तत्प्रविवेकार्थमुदाहरणानि प्रस्ताविष्यन्ते । तत्रोत्पतिकारणं मनो भवति [विज्ञानस्य], मनसो हि वृत्तिः ज्ञानं, यथा जलमूर्भीणाम् ॥

 स्थितिकारणं स्थितेः कारणम् मनसः पुरुषार्थता। भोगापवर्गार्थत्वेन हि मनसः स्थितिः । शरीरस्य यथा स्थितिकारणमाहारः ॥

 अभिव्यक्तेः कारणं रूपस्यालोकः । तदा रूपज्ञानम् । न ह्यालोकेनानभिव्यक्ते रूपेऽवबोधः ॥

 विकारस्य कारणं मनसो विषयान्तरम् । विषयान्तरसन्निधानेन हि मनो विक्रियामासीदति । यथा अग्निः पाकस्य । य: पाकाख्यो विकारस्तस्य पाकस्य विकाररूपस्याग्नि: कारणं यथा ॥

 प्रत्ययकारणं धूमज्ञानमग्निज्ञानस्य । प्रत्ययस्य फलवतः. प्रमाणुस्य

कारणमित्यर्थः । पूर्वत्र तु 'भवति विज्ञानस्य' इति ज्ञानस्योपादानकारणं विवक्षितम् ॥

[ भाष्यम् ]

 प्राप्तिकारणं योगाङ्गानुष्ठानं विवेकख्यातेः । वियोगकारणं तदेवाशुद्धेः । अन्यत्वकारणं यथा सुवर्णस्य सुवर्णकारः । एवमेकस्य स्त्रीप्रत्ययस्याविद्या मूढत्वे, द्वेषो दुःखत्वे, रागः सुखत्वे, तत्वज्ञानं माध्यस्थ्ये । धृतिकारणं शरीरमिन्द्रियाणाम् । तानि च तस्य । महाभूतानि शरीराणाम् । तानि च परस्परम् । सर्वेषां तैर्यग्यौनमानुषदैवतानि च, परस्परार्थत्वादित्येवं नव कारणानि ।

[ विवरणम् ]

{{gap}}प्राप्तिकारणं योगाङ्गानुष्ठानं विवेकख्यातेः धर्म इव सुखस्य । तदेवाशुद्धेर्वियोगकारणं परशुरिव छेद्यस्य ॥

 अन्यत्वकारणं यथा सुवर्णकारः सुवर्णस्य । सुवर्णं हि भित्त्व वर्धमानकमन्यं करोति । तथा वर्धमानकं भित्वा अन्यदाभरणान्तरं करोति । तथाऽन्यदिति ॥

 एवमेकस्य ’स्त्री' इति प्रत्ययस्यापि अविद्या कारणं मूढत्वे । द्वेषस्तस्यैव स्त्रीप्रत्ययस्य दुःखत्वे कारणम् । तथा रागः सुखत्वे । तथा तस्यैव माध्यस्थ्ये हेयोपादेयशून्यतायां विवेकयुक्तं ज्ञानं कारणम् । एवमेकः स्त्रीप्रत्यय: सुवर्णवदनेकधा मूढत्वदुःखत्वसुखत्वमाध्यस्थ्यादिभेदैर्भिद्यते॥

 धृतेः कारणम् ॥ धारणं धृतिः, तस्याः कारणं शरीरमिन्द्रियाणाम् । न हि शरीरमप्राप्येन्द्रियाणि धृतिं लभन्ते । तानि चेन्द्रियाणि तस्य शरीरस्य धृतिकारणं भवन्ति । इन्द्रियवृत्तिद्वारेण हि शरिरं ध्रियते ।

 तथा महाभूतान्याकाशादीनि शरीराणां धृतिकारणम् । महाभूतारब्धानि हि शरीराणि ब्रह्मादिस्तम्बावसानानि[तानि च]परस्परम् उपकार्योपकारकत्वद्वारेण धृतिकारणम् ॥

 तथा सर्वेषां पदार्थानां तैर्यग्यौनमानुषदैवतानि धृतिकारणम् । कुतः ? परस्परार्थत्वात् । तैर्यग्यौनं मानुषदैवतयोर्वाहनदोहनहविरादिभिरुपकुर्वत् धृतिकारणम् ।

 तथा मानुषं इज्यारक्षणादिभिर्दैवतैर्यग्यौनयोः धृतिकारणम् । तथा दैवमितरयोः शीतोष्णप्रवर्षणादिना धृतिकारणम् ॥

[ भाष्यम् ]

 तानि च यथाऽर्थसम्भवं पदार्थान्तरेष्वपि योज्यानि । योगाङ्गानुष्ठानं तु द्विधैव कारणत्वं लभत इति ॥ २८ ॥ तत्र योगाङ्गान्यवधार्यन्ते

[ सूत्रम् ]

 यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥ २९ ॥

[ विवरणम् ]

 एवं वर्णाश्रमाणामप्यन्योन्योपकारेण धृतिकारणत्वम् । परस्परोपाश्रयेण हि जगदखिलमपि ध्रियते । एवं नवैव कारणानि इति कारणान्तरं प्रतिषेधति । तानि च यथाऽर्थसंभवं यो योऽर्थसंभवः पदार्थान्तरेष्वप्यनुदाहृतेषु तथा येाज्यानि । योगाङ्गानुष्ठानं तु द्विधैव कारणत्वं लभते । तथा च व्याख्यातम् ॥ २८ ॥

 कानि पुनस्तानि योगाङ्गानि? येषामनुष्ठानं द्विधा कारणत्वं लभत इति । तत्र योगाङ्गान्यवधार्यन्ते - यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥

 ननु च योगशास्रान्तरेष्वासनादीन्येव षडङ्गानि । तद्यथा-‘षडङ्गो योग उच्यते' इत्यादि । किञ्च-साक्षादासनादीन्येव समाधेरुपकुर्वन्ति, न यमनियमौ ।

 नैष दोषः । यमनियमवतोर्योगाधिकारोपपत्तेः। न हि यथाकामचारिणां योगाधिकारः । "नाविरतो दुश्चरितान्नाशान्तः" इति श्रुतेः। तथा-*"येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम्" इत्यादि चाथर्वणे। तथा गीतायाम् *ब्रह्मचारिव्रते स्थितः’ इति । तस्माद्यमनियमयोरप्यङ्गत्वम् ॥

 यमनियमयोश्च यमस्य प्रथमोपादानं प्राधान्यख्यापनार्थम् । यमस्य हि प्राधान्यं सर्वत्र सिद्धम् । यमनियमयुक्तस्याधिकृतस्य योगिन आसनाद्यङ्गानां पूर्वपूर्वे स्थिरपदप्राप्तस्योत्तरोत्तरानुष्ठानं प्राप्तम् । न हि प्रथमं सोपानमनारुह्योत्तरमारोढुं शक्यम् ।


1. कठोपनिषत् 2. 24. 2. प्रश्नोपनिषत् ।. 15. 3. भगवद्गीता 6. 14,

[ भाष्यम् ]

 यथाक्रममेषामनुष्ठानं स्वरूपं च वक्ष्यामः ॥ २९ ॥ तत्र ‌-

[ सूत्रम् ]

 अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ३० ॥

[ भाष्यम् ]

 तत्राहिंसा सर्वथा सर्वदा सर्वभूतानामनभेिद्रोहः । उत्तरे च यमनियमास्तन्मूलाः तत्सिद्धिपरतयैव तत्प्रतिपादनाय प्रतिपाद्यन्ते । तदवदातरूपकरणायैवोपादीयन्ते । तथा चोक्तम्-स खल्वयं ब्राह्मणो यथा यथा व्रतानिबहूनि समादित्सते, तथा तथा प्रमादकृतेभ्यो हिंसानिदानेभ्यो निवर्तमानः तामेवावदातरूपामहिंसां करोति ।

[ विवरणम् ]

 यदन्यत्रोच्यते -  "स्थानासनविधानानि योगस्य विधयेऽपि वा ।  व्याक्षेपजनकाः सर्वे न ते योगस्य हेतवः ॥  सर्वदोषपरित्यागः समाधिश्चेति तद्द्वयम् ॥  निर्णय[यात्। ]योगहेतुः स्याद्भवति वान्यत्र वा [भवत्वन्यन्त्र वा भवेत्] ॥" इति ।

 तत्समाधिसर्वदोषपरित्यागयोः प्राधान्यात् तत्स्तुत्यर्थम्, नासनाद्यङ्गप्रतिषेधार्थम् । यथाक्रममेषां यमादीनामनुष्ठानं स्वरूपं च वक्ष्यामः - स्वरूपे हि अनवगते नानुष्ठातुं शक्यमिति ॥ २९ ॥

 तत्र तेषु यमादिषु प्रथमं यमा व्याख्यायन्ते--अहिंसासत्यास्तेयब्रह्मचर्या परिग्रहा यमाः । तत्राहिँसा सर्वथा सर्वात्मना सर्वप्रकारेण, सर्वभूतानामनभिद्रोहः सर्वभूतानां स्थावरजङ्गमानां अनभिद्रोहोऽपीडनम् ॥

 यमनियमानामहिंसा प्रधानभूता कायवाङ्मनसैः सर्वात्मना करणीयेति दर्शयति--उत्तरे च यमाः सत्यादयः तन्मूलाः अहिंसाप्रयोजनाः अहिंसार्थाः तत्सिद्विपरतथैव अहिंसासिद्धितत्परत्वेन प्रतिपाद्यन्ते । किमुक्तं भवतीत्याह-तदवदात्[रूप ]करणायोपादीयन्ते अहिंसाशुद्धिप्रतिपादानायोपादीयन्ते ॥ {{gap}}तथा ह्युक्तम्--स खल्वयं ब्राह्मणो यथा यथा बहूनि व्रतानि समादित्सते तथा तथा प्रमादकृतेभ्यो हिंसानिदानेभ्यः हिंसामूलेभ्यः हिंसाकारणेभ्यः निवर्तमानस्तामेवावदातरूपामहिंसां करोति इति ॥

[ भाष्यम् ]

 स्तेयम् अशास्त्रपूर्वकं द्रव्याणां परतः स्वीकरणं, तत्प्रतिषेधः पुनः अस्पृहारूपमस्तेयमिति । ब्रह्मचर्यं गुप्तेन्द्रियस्योपस्थस्य संयमः ।विषयाणामर्जनरक्षणक्षयसङ्ग:हिंसादोषदर्शनादस्वीकरणं अपरिग्रह इत्येते यमाः ।। ३० ॥ ते तु -

[ सूत्रम् ]

जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥३१॥

[ भाष्यम् ]

तत्राहिंसा जात्यवच्छिन्ना-मत्स्यबन्धकस्य मत्स्येष्वेव नान्यत्र हिंसा ।

[ विवरणम् ]

 उक्तं च 一

 "सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात् सत्यमप्रियम् ।

 प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥” इति ।

{{gap}}स्तेयं अशास्त्रपूर्वं द्रव्याणां परतः स्वीकरणं स्पृहानिमित्तम् । यत् स्तेयं तत्प्रतिषेधस्तु न स्पृहालूनां सम्भवतीति तस्यैव स्तेयस्य प्रतिषेधस्तु । सः अस्पृहारूपमस्तेयमुच्यते ॥ −

 ब्रह्मचर्यं गुप्तेन्द्रियस्य गुप्तान्येन्द्रियस्य पुरुषस्य अब्रह्मचर्यार्थवाङ्मनसादिवृत्तिशून्यस्य उपस्थेन्द्रियसंयम इति ॥

 विषयाणामार्जनरक्षणक्षयसङ्गहिंसादोषदर्शनादस्वीकरणम् अनुपादानं अपरिग्रहः । न पुनरसामर्थ्येनास्वीकरणम् । इत्येते यमाः ॥ ३० ॥

 अन्यधर्माणां जातिदेशकालाद्यवच्छेदेनानुष्ठानादिहापि तथा प्रसङ्ग इति तत्प्रतिषेधायाह--एते त्विति । एते त्वहिंसादयो महाव्रतसंज्ञाः संन्यासवतामनुष्ठानीयाः । कीदृशास्ते महाव्रतनामान इति--जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् । महश्च तत् व्रतं च महाव्रतम् । महत्त्वं च सार्वभौमत्वम् ॥

 कथं पुनर्जात्याद्यनवच्छिन्नत्वमेषामिति अनवच्छेदप्रतिपादनाय व्यतिरेकेण अहिंसामुदाहरति-तत्र अहिंसा जात्यावच्छिन्ना मत्स्यबन्धकस्य मत्स्येष्वेव नान्यत्र मत्स्यजातेर्हिंसा । सा च मत्स्यजात्यवाच्छिन्ना मत्स्यभूमिमनश्नुवाना वर्तत इति असार्वभौम्येव ॥ 

सैव देशावच्छिन्ना-न तीथें हनिष्यामीति । सैव कालावच्छिन्ना-न चतुर्दश्यां न་ पुण्येऽहनि हनिष्यामीति । सैव त्रिभिरुपरतस्य समयावच्छिन्नादेवब्राह्मणार्थे नान्यथा हनिष्यामीति । यथा च क्षत्रियाणां युद्ध एव हिंसा नान्यत्रेति । एभिर्जातिदेशकालसमयैरनवच्छिन्ना अहिंसादयः सर्वथैव परिपालनीयाः । सर्वभूमिषु सर्वविषयेषु सर्वथैवाविदितव्यभिचाराः सार्वभौमा महाव्रतमित्युच्यन्ते ॥ ३१ ॥

[ सूत्रम् ]

शौचसंतोषतपस्स्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ ३२ ॥

[ भाष्यम् ]

 तत्र शौचं मृञ्जलादिजनितं मेध्याभ्यवहरणादि च बाह्यम् । आभ्यन्तरं चित्तमलानां आक्षालनम् । संतोषः संनिहितसाधनाश्चासादधि -

[ विवरणम् ]

{{gap}}सैवाहिंसा देशावच्छिन्ना कथमू? न तीर्थे प्रयागादौ हनिष्यामीति । तीर्थेष्वहिंसा च तीर्थादन्यं देशं न व्यश्नुत इति असार्वभौमी ।

सैव च कालावच्छिन्ना यथा---न चर्तुदश्यां न पुण्येऽहनीति । चतुर्दश्यादिकालादन्यं कालं न व्यश्नुत इति साप्यसार्वभौमी ।

 त्रिभिः अपि जातिदेशकालैः उपरतस्य तस्यैव मत्स्यबन्धकस्य समयावच्छिन्ना समयः कर्तव्यतानियमः, कथम् ? देवब्राह्मणार्थं हनिष्यामि नान्यथेति, श्राद्धादिसमयभूमिमनश्नुवाना वर्तत इति साऽपि न सार्वभौमी । यथा च क्षत्रियस्य युद्ध एव हिंसा नान्यत्रेति समयावच्छिन्नस्यैवोदाहरणम् ॥

 ये पुनरेते यमाः जातिदेशकालसमयैरनवच्छिन्ना अहिंसादयः, ते सर्वथैव परिपालनीयाः सर्वभूमिषु जात्यादिषु सर्वविषयेषु सर्वप्राणिषु सर्वथैवाविदितव्यभिचाराः विना व्यभिचारेण, ते चेत्थं विशिष्टाः सार्वभौमा महाव्रतमित्युच्यन्ते ॥ ३१ ॥

 शौचसन्तोषतपस्स्वाध्यायेश्वरप्रणिधानानि नियमाः । तत्र शौचं मृदादिजनितम् आदिशब्दादुदकं च । मेध्याभ्यवहरणानि च घृतपय-आदीनि भक्षणानि । चशब्दात् मेध्यदर्शनश्रवणादीनि च । बाह्ममेतच्छौचम्॥

 आभ्यन्तरमधुनोच्यते-चित्तमलानां कामक्रोधादीनां तत्प्रतिपक्षभावनासलिलैः आक्षालनम् ॥

[ भाष्यम् ]

कस्यानुपादित्सा । तपो द्वन्द्वसहनम् । द्वन्द्वाश्व जिघत्सापिपासे, शीतोष्णे, स्थानासने, काष्ठमौनाकारमौने च, व्रतानि चैषां यथायोगं कृच्छूचान्द्रायणसान्तपनादीनि । स्वाध्यायो मोक्षशास्त्राणामध्ययनं प्रणवजपो वा । ईश्वरप्रणिधानं तस्मिन् परमगुरौ सर्वकर्मार्पणम् ।

 शाय्यासनस्थोऽथ पथि व्रजन् वा खस्थः परिक्षीणवितर्कजालः ।

 संसारबीजक्षयमीक्षमाणः स्यान्नित्ययुक्तोऽमृतभोगभागी ॥

यत्रेदमुक्तम्-‘ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च' इति ॥ ३२ ॥

[ विवरणम् ]

 सन्तोषः सन्निहितसाधनाश्चासात् सीन्नीहतादाश्वासीनमित्तात् अधिकसाधनानुपादित्सा सन्निहितमात्रादतृप्तौ सत्यामप्यलंप्रत्ययः ।

{{gap}}तपो द्वन्द्वसहनम्। द्वन्द्वश्व जिघत्सापिपासे । जिघत्सा अत्तुमिच्छा । पातुमिच्छा पिपासा । जिधत्सापिपासासहनं तपः । स्वंरूपेणैव [[वा] ते जिघत्सापिपासे; अल्पीयःपानाशननिमित्ते तपः । शीतोष्णे अप्रतिक्रियमाणे अल्पप्रतिक्रिये वा तप: । स्थानासने 'तिष्ठेदहनि रात्रावासीत' इति स्मृतिप्रस्थानम् । काष्ठमौनाकाष्ठमौने । काष्ठमौनं हस्तप्रयोगादिरहितम् । अकाष्ठमौनं हस्तादिप्रयोगयुक्तं सम्भाषणादिरहितम् ।

{{gap}}व्रतानि चैषां योगिनां यथायोगं यथासम्भवम्। होमादिविरुद्धधर्मविरुद्धप्रतिषेधार्थं यथायोगमित्याह। कानि तानि? कृच्छादीनि। कृच्छ्रं प्राजापत्यादि। त्र्यहं प्रातः त्र्यहं सायं त्र्यमद्याद्याचितम्। उपोषणं त्र्यहम्' इति । चान्द्रायणं यवमध्यपिपीलिकामध्यादि । ‘एकैकं वर्धयेत् ग्रासम्’इत्यादिस्मृतिः । सान्तपनम्--

 ‘गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।

  एकरात्रोपवासश्च कृच्छ्रः सान्तपनः स्मृतः ॥

 एतान्येव द्रव्याणि त्रिरभ्यस्तानि महासान्तपनम् । आदिग्रहणं पराकादिप्रत्युपादानार्थम् । स्वाध्यायो मोक्षशास्त्राध्ययनम् उपनिषदाद्यध्ययनं प्रणवजपो वा ।। *प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्चेति ॥ ३२ ॥

 1. गौतमधर्मसूत्रं प्र 3. अ. 8. सू. 6.

 2. अत्र मध्थे किञ्चित् त्रुटितं कोशे ।

[ भाष्यम् ]

 एतेषां यमनियमानाम्

[ सूत्रम् ]

 " वितर्केबाधने प्रतिपक्षभावनम् ॥ ३३ ॥

[ भाष्यम् ]

 यदाऽस्य ब्राह्मणस्य हिंसादयो वितर्का जायेरन् , हनिष्याम्यहमपकारिणम्, अनृतमपि वक्ष्यामि, द्रव्यमप्यस्य स्वीकरिष्यामि, दारेषु चास्य व्यवायी भविष्यामि, परिग्रहेषु चास्य स्वामी भविष्यामीति, एवमुन्मार्गप्रवणवितर्कज्वरेणातिदीप्तेन बाध्यमानः तत्प्रतिपक्षान् भावयेत् । घोरेषु संसाराङ्गरेषु पच्यमानेन मया शरणमुपागतः सर्वभूताभयप्रदानेन योगधर्मः । स खल्वहं त्यक्त्वा वितर्कान् पुनः पुनस्तानाददानस्तुल्यः श्ववृत्तेनेति भावयेत् ।

[ विवरणम् ]

 तत्र यमनियमानां विरुद्धास्तर्काः वितर्काः, तैः बाधने सति प्रतिपक्षान् भावयेत् अभिधास्यमानेन प्रकारेण । अप्रतिभाव्यमाना हि वितर्का योगिनं । र्हिसादिषु प्रणिधापयेयुः ।

{{gap}}यदा अस्य ब्राह्मणस्य वितर्का हिंसादयो जायेरन् । तत्राहिंसादिवितर्का ये वा हिंसादयस्ते वितर्का: कीदृशा इति ? तत्राहिंसाया वितर्क: हिंसा हनिष्याम्यपकारिणमिति । तथा सत्यस्य अनृतं वदिष्यामीति विरुद्धः प्रत्ययो वितर्कः । तथैवास्तेयस्य वितर्कः द्रव्यमस्य स्वीकरिष्यामीति । तथा ब्रह्मचर्यस्य वितर्कः दारेषु चास्य गमिष्यामीति । तथैवापरिग्रहस्य वितर्क: परिग्रहेषु चास्य स्वामी भविष्यामीति ॥

 अस्येत्येतत् सर्वत्र हिंसादिषु अनुगमप्रतिपादनार्थम् । द्रव्यमस्य स्वीकरिष्यामीति परद्रव्यस्यात्मसंबन्धकरणम् । परिग्रहेषु चास्य स्वामीति परसंबन्धिष्वेव द्रव्येषु स्वयं स्वामीति । यथा कुमारनरपतिसचिवादीनाम् ।

{{gap}}इत्थमुन्मार्गहारिणा वितर्कज्वरेण दीप्तेन बाध्यमानस्तत्प्रतिपक्षान् भावयेत् ॥

 कथं भावयेदिति ? घोरेषु संसाराङ्गारेषु पच्यमानेन मया। शरणमभ्युपगतः सर्वभूताभयप्रदानेन योगधर्मः । स खल्वहं त्यक्त्वा वितर्कान् हिंसादीन् पुनस्तानाददानस्तुल्यः श्चवृत्तेनेति । शुन इव वृत्तं यस्य सः श्ववृत्तः । श्चवद्वा वृत्तः श्ववृत्तः । ते' तुल्य इति भावयेत् । यथा 28  यथा श्वा वान्तावलेही तथा त्यक्तस्य पुनराददान इति । एवमादि सूत्रान्तरेऽपि योज्यम् ॥ ३३ ॥

[ सूत्रम् ]

 वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इतेि प्रतिपक्षभावनम् ॥ ३४ ॥

[ भाष्यम् ]

 तत्र हिंसा तावत्-कृता कारिता अनुमोदितेति त्रिधा । एकैका पुनस्त्रिधा-लोमेन मांसचर्मार्थेन, क्रोधेन अपकृतमनेनेति, मोहेन धर्मो मे भविष्यतीतेि । लोभक्रोधमोहाः पुनस्त्रिविधाः-मृदुमध्याधिमात्रा इति ।

[ विवरणम् ]

 श्वा वान्तावलेही तथा त्यक्तस्य पुनरादानं कुर्वन् इत्युपस्कारः। तेन पुरुषेण तुल्योऽहमिति । तथा कथमहं भवेयं, न युक्तमेतदिति भावयेत् ॥

 इत्येवमादि सूत्रान्तरेऽपि नियमसूत्रेऽपि योज्यम् । शौचादीनां प्रत्येकं वितर्का द्रष्टव्या: शौचं न करिष्यामीत्यादयः । भाष्ये तु यमानामेव प्रदर्शनम्, तेषामवश्यकर्तव्यत्वात्, अकरणे च दोषगौरवात्, अत्यादरार्थम् ॥ ३३ ॥

 वितर्काणां स्वरूपं भेदः प्रभवहेतुः फलं च सूत्रेणैव प्रदर्श्यते--वितर्का हिंसादय इति स्वरूपम् ! कृतकारितानुमोदिता इति भेदः । लोभक्रोधमोहपूर्वका इति प्रभवहेतुः । मृदुमध्याधिमात्रा इति मन्दमध्योत्तमदोषत्वम् । दु:खाज्ञानानन्तफला इति प्रतिपक्षभावनम् । फलं वा तेनैव व्याख्यायते ॥

 तत्र हिंसैव एका उदाह्रियते सर्वेषां प्रदर्शनाय । सा कृता कारिता अनुमोदितेति त्रिविधा । कृता स्वव्यापारेण । कारिता प्रयोज्यव्यापारेण । अनुमोदिता परेषां व्यापारेण मनसा अनुज्ञाता ।

{{gap}}एकैका पुनस्त्रिधा। कथम् ? लोभेन, मांसचर्मा(स्थि)र्थी मृगं हिनस्ति । कोधेन, अपकृतमनेनेति। मोहेन, धर्मों मे भविष्यतीति । एवमेते नव भेदाः । एकैक(त्वेन)स्य पुनस्त्रिधा भेदः । कथम् ? लोभक्रोधमोहाः पुनास्त्रिधा

[ भाष्यम् ]

 एवं सप्तविंशतिर्भेदाः भवन्ति हिंसायाः । मृदुमध्याधिमात्राः पुनस्त्रिधामृदुमृदुः, मध्यमृदु, तीव्रमृदुः इति | तथा मृदुमध्यो मध्यमध्यः तीव्रमध्य इति । तथा मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्र इति । एवमेकाशीतिभेदा हिंसा भवति । सा पुनर्नियमविकल्पसमुच्चयभेदादसङ्ख्येया, प्राणभृद्भेदस्यापरिसङ्ख्येयत्वादिति । एवमनृतादिष्वपि योज्यम् ॥

 ते खल्वमी वितर्का दु:खाज्ञानानन्तफला इति प्रतिपक्षभावनम् । दुःखमज्ञानं च अनन्तफलं येषामिति प्रतिपक्षभावनम् । तथा च हिंसकस्तावत् प्रथमं वध्यस्य वीर्यमाक्षिपति । ततश्च शस्त्रादिनिपातनेन दु:खयति। ततो जीवितादपि मोचयति। ततो वीर्याक्षेपादस्य चेतनाचेतन

[ विवरणम् ]

{{gap}}मृदुमध्याधिमात्रा इति । [एकैकं पुनः] त्रिधा भवति-मृदुमृदुर्मध्यमृदुस्तीव्रमृदुरिति । तथा मृदुमध्यो मध्यमध्यस्तीव्रमध्य इति । तथा मृदुतीव्रो मध्यतीव्रस्तीव्रतीव्र इति । एवं एकाशीतिभेदा हिंसा भवति ॥

 सा च पुनः एकाशीतिभेदाऽपि सती नियोगाविकल्पसमुचच्चयभेदात् असङ्ख्येया । यथा नियोगभेदः-कश्चिन्नियुक्तः सन्नन्यं नियुङ्के ; यथा राज्ञः । स चापि नियुक्तः परम्, स चापि परमिति । ते च सर्वे नियुक्ताः समुच्चयेन विकल्पेन वा हिंसन्ति । तथा मूलनियोक्तापि नियोज्यै: संहत्य विकल्प्य च हिंसामनुतिष्ठतीति । वध्यघातकादिप्राणिभेदस्यासङ्ख्येयत्वादिति । एवमनृतादिष्वपि योज्यम् । कृतकारितानुमोदितादि योज्यम् |

 ते खल्वमी वितर्का दु:खाज्ञानानन्तफलाः । दु:खं चाज्ञानं च दु:खाज्ञाने, ते एवानन्तं 1फलं येषां ते दु:खाज्ञानानन्तफलाः। दु:खमेषामनन्तं फलम् । अज्ञानं चैषामनन्तं फलम् । तस्मादेतान् वितर्कान् मनसाऽपि नोपेक्षयेदिति प्रतिपक्षं भावयेत् ।

 तत्र हिंस्यस्य त्रिप्रकारा पीडा प्रतिपाद्यते तद्भेदद्वारेण फलभेदप्रदर्शनार्थम् । तथा च हिंसको वध्यस्य वीर्यमाक्षिपति । घातकरूपावलोकनभर्त्सनादिना त्रस्तस्य वीर्यमाक्षिप्य शस्त्रादिनिपातनेन दुःखयति । ततो जीवितादपि मोचयति । प्राणेभ्यो वियोजयति ।

 1. अत्र आदर्शकोशे 'अनन्तं' इत्येतदुपरेि 'वैरत्यागः' इत्यादि अत्र (.21) पुटे मुद्रितं वाक्यं दृश्यते । तस्यानन्वयात् आदर्शकोशे पुटद्वयव्यवहितं ‘फलं' इत्यादिवाक्यं योजितम् ।

[ भाष्यम् ]

 मुपकरणं क्षीणवीर्यं भवति । दु:खोत्पादान्नरकतिर्यक्प्रेतादिषु दु:खमनुभवति, जीवितव्यपरोपणात् प्रतिक्षणं च जीवितात्यये वर्तमानो मरणमिच्छन्नपि दुःखविपाकस्य नियतविपाकवेदनीयत्वात् कथंचिदेवोच्छ्वसिति । यदि च कथंचित् पुण्यावापगता हिंसा भवेत्, तत्र सुखप्राप्तौ भवेदल्पायुरिति । एवमनृतादिष्वपि योज्यं यथासंभवम् । एवं वितर्काणां च अमुमेवानुगतं विपाकमनिष्टं भावयन् न वितर्केषु मनः प्रणिदधीत ॥ ३४ ॥

 प्रतिपक्षभावनाद्धेतोर्हेया वितर्का यदा च स्युरप्रसवधर्माणः, तदा तत्कृतमैश्वअवाङ्कपाठ्यांशःर्यं योगिनः सिद्धिसूचकं भवति । तद्यथा--

[ विवरणम् ]

{{gap}}तस्य वीर्यांक्षेपादस्य हिंसितुः चेतनाचेतनं पशुक्षेत्रादिकं उपकरणं क्षीणवीर्यं भवति ॥ शस्त्रादिनिपातनदुःखोत्पादात् हिंसाविशेषात् नरकतिर्यक्प्रेतादिषु दु:खमनुभवति ॥  तथा जीवितव्यपरोपणात् प्रतिक्षणं च जीवितात्यये वर्तमानो जन्ममरणान्तरे वर्त्मनि प्रतिक्षणं मरणमिच्छन्नपि दुःखविपाकस्य नियतवेदनीयत्वात् अवश्यानुभवितव्यत्वात् कथंचिदेवोच्छ्वसिति ॥

 यदि च कथंचित्पुण्यावगमात् प्रभूतपुण्यावापगता अल्पीयसी हिंसा भवेत्, तत्र पुण्यभूम्ना सुखप्राप्तः सन्नपि भवेदल्पायुः आवापगतहिंसादोषेण ॥

 इत्थमनृतादिष्वपि यथासंभवं हिंसायामुक्तं योज्यम् । एवं वितर्काणां हिंसादीनां छायामिवानुगतं विपाकमनिष्टं भावयेत्, न वितर्केषु मनः प्रणिदधीत ॥ ३४ ॥

 प्रतिपक्षभावनाहेया वितर्काः यदा च स्युरप्रसवधर्मिणः अप्रसवाश्च ते धर्मिणश्चेत्यप्रसवधर्मिणः । यदा योगिनो मनसि नोत्पद्यन्ते निकृत्तमूलाः सन्तः, तदा तत्कृतं यमनियमस्थैर्येकृतम् ऐश्वर्यं योगिनः सिद्धिसूचकम् अहिंसादिफलसिद्धिज्ञापकं जायत इति योगसिद्धिफलमवस्थितमेव । अन्यदपि योगाङ्गस्तुतये ऐश्वर्यमनुषङ्गजातमुच्यते । कथम् ? एकैकस्याप्यहिंसादीनां स्थिरत्वलिङ्गमीदृशं यज्ञादिधर्मफलैरप्यसमानं प्रत्यक्षत उपलभ्यते, किमङ्ग संहतानां योगसिद्धिकरत्व

[ सूत्रम् ]

 अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥ ३५ ॥

[ भाष्यम् ]

 सर्वप्राणिनां भवति ॥ ३५ ॥

[ सूत्रम् ]

 सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ ३६ ॥

[ भाष्यम् ]

 धार्मिको भूया इति भवति धार्मिकः । स्वर्गं प्राप्नुहीति स्वर्गं प्राप्नोति । अमोघाऽस्य वाक् भवति ॥ ३६ ॥  अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ ३७ ।।

[ भाष्यम् ]

 सर्वदिक्स्थानि अस्योपतिष्ठन्ते रत्नानि ॥ ३७ ॥

[ विवरणम् ]

मिति । तदेतत्प्रतिदर्शयति-तद्यथा-अहिंसाप्रतिष्ठायाम् अहिंसास्थिरत्वे अवितर्कप्रादुर्भावे । तत्सन्निधौ वैरत्यागः । शाश्वतिकविद्वेषिणामपि सर्पनकुलादीनां तस्य अहिंसकस्य सन्निधौ 1वैरत्यागो भवति ॥ ३५ ॥

 सत्यप्रतिष्ठायां सत्यस्थैर्ये क्रियाफलाश्रयत्वं यज्ञादिक्रियाफलानामागमनं प्राप्तिर्भवति । सत्यवादिवाक्यादिति शेषः । कथम् ? अधार्मिकोऽपि धार्मिको भूया इत्युक्ते तद्वचनाद्धार्मिको भवति । यथा धर्मेऽस्य रमतां मन इति देवैरुक्तः 2कुण्डधाराराधी ब्राह्मणो धार्मिको बभूव। तथा स्वर्गप्राप्नुहीत्युक्तः स्वर्गं प्राप्नोति। यथा विश्वामित्रेणोक्तः स्वर्गं प्राप्नुहीति त्रिशङ्कु स्वर्गं प्राप । किं बहुना । अमोघाऽस्य वाक् भवति ॥ ३६ ॥

 अस्तेयप्रतिष्ठायां अस्पृहायाम् । ततः किमस्य भवति ? रत्नोपस्थानं भवति सर्वदिक्स्थान्यस्योपतिष्ठन्ते रत्नानि आत्मानं दर्शयन्ति ॥ ३७ ॥

 1. अत्र आदर्शकोशे 'वैर' इत्येतदुपरि 'मपश्यन्' इत्यादि अत्र (223) पुटे मुद्रितं वाक्यं दृश्यते । तस्यानन्वयात् , आदर्शकोशे पुटत्रयात् पूर्वलिखितं “त्यागो भवति” इत्यादिवाक्यं योजितम् ।

 2. कुण्डधारोपाख्यानं भारते शान्तिपर्वान्तर्गतमोक्षधर्मपर्वणि 27!- अध्याये दृश्यते ।

[ सूत्रम् ]

 ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभ: ३८ ॥

[ भाष्यम् ]

 यस्य लाभादप्रतिघान् गुणानुत्कर्षयाति। सिद्धश्च विनेयेषु ज्ञानमाधातुं समर्थो भवतीति ॥ ३८ ॥

[सूत्रम् ]

 अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः ॥ ३९ ॥

[ भाष्यम् ]

 अस्य भवति । कोऽहमासं, कथमहमासं, किंस्विदिदं, कथंस्विदिदं, के वा भविष्यामः, कथं वा भविष्याम इत्येवमस्य पूर्वान्तपरान्तमध्येष्वात्मभावजिज्ञासा स्वरूपेणोपावर्तते । एता यमस्थैर्ये सिद्धयः॥३९॥

 नियमेषु वक्ष्यामः

[ सूत्रम् ]

 शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ४० ॥

[ विवरणम् ]

{{gap}}ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः । ब्रह्मचर्यलाभादप्रतिघान् गुणानुत्कर्षयति । अप्रतिबन्धानात्मन उपपादयति । सर्वशुभार्थप्रवृत्तिष्वप्रतिबद्धवीर्यो भवति । न केनचित् प्रतिघातेन विवध्यत इत्यर्थः ॥

 किञ्च-विनयेषु शिष्येषु योग्येषु वा साधुषु ज्ञानमाधातुं समर्थो भवति यथा भगवान् व्यासः सं(ज्ञये)जज्ञे ॥ ३८ ॥

 अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः । जन्मनः कथंभावबोधोऽस्य भवति

 किंस्विदिदं(सम)मम जन्मनः किं सतत्त्वम्, कथं स्विदिदं केन प्रकारेण स्वित्, कि भविष्याम: प्राणो[प्रायणो]त्तरकालं किं वा न भविष्याम:, भविष्यन्तो वा के भविष्यामः, कथं भविष्यामः, इत्येवम् अस्य पूर्वापरान्तमध्येषु भूतभविष्यद्वर्तमानेषु आत्मजिज्ञासा सम्यग्दर्शनस्य पूर्वरूपं स्वरूपेणोपावर्तते ॥ बाह्यपरिग्रहासङ्गाभावात् स्वात्मविषयालोचनमयत्नेन प्रवर्तते । नान्येषां परिग्रहसन्तापवितानिततृषां यत्नेनापि जायते ॥ ३९ ॥ 

[ भाष्यम् ]

 स्वाङ्गे जुगुप्सायां शौचमारभमाणः कायावद्यदर्शी कायानभिष्वङ्गी यतिर्भवति । किञ्च, परैरसंसर्गः । कायस्वभावावलोकी स्वमपि कायं जिहासुर्मृञ्जलादिभिराक्षालयन्नपि कायशुद्धिमपश्यन् कथं परका(की)यै- रत्यन्तमेवाप्रयतैः संसृज्येत ॥ ४० ॥

 किञ्च-

[ सूत्रम् ]

 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥ ४१ ॥

[ भाष्यम् ]

 भवन्तीति वाक्यशेषः । शुचेः सत्त्वशुद्धिः, ततः सौमनस्यं, तत ऐकाग्र्यं, तत इन्द्रियजयः, ततश्चात्मदर्शनयोग्यत्वं बुद्धिसत्त्वस्य भवतीत्येतच्छौचस्थैर्यादधिगम्यत इति ॥ ४१ ॥

[ सूत्रम् ]

 सन्तोषादनुत्तमः सुखलाभः ॥ ४२ ॥

[ विवरणम् ]

{{gap}}यमेषु सिद्धय उक्ताः । इदानीं नियमेषु वक्ष्यामः--शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः । स्वाङ्गजुगुप्सया शौचमारभमाणः कायावद्यदर्शी शरीरगर्ह्यत्वदर्शी कायानभिष्वङ्गी यतिर्भवति । किञ्च-परैरसंसर्गो भवति । कायस्वभावावलोकी स्वमपि कायं जिहासुर्मृञ्जलादिभिराक्षालयन्नपि कायशुद्धि[४३]मपश्यन् कथं परकायैरत्यन्तमेवाप्रयतैः संसृज्यत इति ॥ ४० ॥

 किं चान्यद्भवति । सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चास्य भवन्ति । पूर्वस्य पूर्वस्य स्थैर्यादुत्तरस्याविर्भावः । कथम् ? शुचेः सत्त्वशुद्धिः । ततः सौमनस्यम्, तत ऐकाग्र्यम्, ततश्चेन्द्रियजयः, ततश्चात्मदर्शनयोग्यत्वं बुद्धिसत्त्वस्य भवतीत्यतः शौचस्थैर्यादधिगम्यत एतत् सर्वम् । ततश्चेयं शौचसिद्धिरेव ॥ ४१ ॥

 सन्तोषादनुत्तमः सुखलाभः । सन्तोषवितर्कानुत्पत्तौ अनुत्तमः न विद्यतेऽस्मादन्य उत्तमः । 

[ भाष्यम् ]

 तथा चोक्तम् -

 "यच्च कामसुखं लोके यच्च दिव्यं महत् सुखम् ।

 तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥" इति ॥ ४२ ॥

[ सूत्रम् ]

 कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥ ४३ ॥

[ भाष्यम् ]

 निर्वर्त्यमानमेव तपो हिनस्त्यशुद्ध्यावरणमलम् । तदावरणमलापगमात् कायसिद्धिरणिमाद्या । तथेन्द्रियसिद्धिर्दूराच्छ्रवणदर्शनाद्येति ॥ ४३ ॥

[ सूत्रम् ]

 स्वाध्यायादिष्टदेवतासम्प्रयोगः ॥ ४४ ॥

[ भाष्यम् ]

 देवा ऋषयः सिद्धाश्च स्वाध्यायशीलस्य दर्शनं गच्छन्ति, कार्ये चास्य वर्तन्त इति ॥ ४४ ॥

[ सूत्रम् ]

 समाधिसिद्धिरीश्वरप्रणिधानात् ॥ ४५ ॥

[ विवरणम् ]

{{gap}}तथा चोक्तम्-"यच्च कामसुखं लोके, यच्चैहिकम् । यच्च दिव्यं महत्सुखम् । देवादिसम्बन्धि । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्" ॥ ४२ ॥

{{gap}}कायेन्द्रियसिाद्विरशुद्धिक्षषयात्तपसः । निर्वर्त्यमानमेव तपो हिनस्त्यशुद्ध्यावरणम् किमङ्ग निर्वर्तितमित्यभि(मानः)प्रायः ॥

 तदावरणमलापगमातू कायसिद्विरणिमाद्या । मातापित्रादिसंबन्धजं कायमलं बैजं गार्भं चाहारादिजं च सर्वं तपसा निघातयिष्यते । ततश्चाणिमादिकायसिद्धिः ।

 तथा विषयादिसम्पर्कजमिन्द्रियाणामधर्माद्यावरणं मलं तपस्स्रोतस्विनीस्रोतसा क्षाल्यते । तथा इन्द्रियसिद्धिर्दूराच्छ्रवणाद्या ॥ ४३ ॥

{{gap}}स्वाध्यायादिष्टदेवतासम्प्रयोगः । देवाः ऋषयः सिद्धाश्च य इष्टास्ते स्वाध्यायशीलस्य दर्शनं गच्छन्ति कार्येषु चास्य उपदेशादिषु वर्तन्ते ॥४४॥

[ भाष्यम् ]

 ईश्वरार्पितसर्वभावस्य समाधिसिद्धि:, यया सर्वमीप्सितमवितथं जानाति देशान्तरे देहान्तरे कालान्तरे च । ततोऽस्य प्रज्ञा यथाभूतं जानातीति ॥ ४५ ॥

 उक्ताः सह सिद्धिभिर्यमनियमाः । आसनादीनि वक्ष्यामः ।


[ सूत्रम् ]

 स्थिरसुखमासनम् ॥ ४६ ॥

[ भाष्यम् ]

 तद्यथा-पद्मासनं, भद्रासनं,

[ विवरणम् ]

 समाधिसिद्धिरीश्चरप्रणिधानात् । ईश्वरार्पितसर्वभावस्य समाधिः सिध्यति । यया समाधिसिद्धया सर्वमीप्सितमवितथं जानाति । तथा देशान्तरे कालान्तरे चास्य प्रज्ञा यथाभूतं जानाति ॥ ४५ ॥

 उक्ताः सह सिद्धिभिर्यमनियमाः । इदानीं आसनादीनि वक्ष्यामः--तत्र स्थिरसुखमासनम् । स्थिरं सुखं चासनम् । यस्मिन्नासने, स्थितस्य मनोगात्राणामुपजायते स्थिरत्वम्, दुःखं च येन न भवति तदभ्यस्येत् । तद्यथा-शास्त्रान्तरप्रसिद्धानि नामानि पद्मासनादीनि प्रदर्श्यन्ते ॥

 तत्र शुचौ देवनिलयगिरिगुहानदीपुलिनादौ ज्वलनसलेिलासमीपे जन्तुविवर्जिते निर(ङ्ग)श्मके शुचिः सम्यगाचम्य, परमेश्वरमखिलभुवनैकनाथं अभिवन्द्यांश्च योगेश्वरानात्मगुरूंश्च प्रणिपत्य, चैलाजिनकुशोत्तरमदुःखकरं प्राङ्मुख उदङ्मुखो वा विष्टरमधिष्ठाय, अन्यतमदेषामासनं निर्बध्नीयात्।

 तत्र पद्मासनं नाम-सव्यं पादमुपसंहृत्य दक्षिणोपरि निदधीत । तथैव दक्षिणं सव्यस्योपरिष्टात् । कट्युरोग्रीवं च विष्टभ्य, मृ(ग)तसुप्तवन्नासिकाग्रनिहितदृष्टिः, समुद्भकवदपिहितोष्ठसम्पुटः, दन्तैर्दन्ताग्रमपरामृशन् , मुष्टिमात्रान्तरविप्रकृष्टाचबुकोरस्स्थलः, राजद्दन्तान्तरनिहितरसनाग्रः, हस्तौ पार्श्ण्योरुपरि कच्छपकं ब्रह्माञ्जलिं वा कृत्वा, सकृदास्थापितेत्थंसंस्थान:, पुनः पुनः शरीरावयवशरीरविन्यासविशेषपरित्यक्तप्रयत्नः सन् येनासीत, तत् पद्मासनम् ॥

 एतच्च सर्वमन्येषामासनानामपि तुल्यम् । कश्चिदेव विशेषः ।

 तथा दक्षिणं पादं सव्यस्योपरि कृत्वा, हस्तं च दक्षिणं सव्यहस्तस्योपरि निधाय, येनास्ते, तत् भद्रासनम् । अन्यत् समानम् ॥

 29

[ भाष्यम् ]

 वीरासनं, स्वस्तिकं, दण्डासनं, सोपाश्रयं, पर्यङ्कं, क्रौञ्चनिषदनं, हस्तिनिषदनं, उष्ट्रनिषदनं, समसंस्थानं, स्थिरसुखं, यथासुखं च इत्येवमादीनि ॥ ४६ ॥

[ सूत्रम् ]

 प्रयत्नशैथिल्यानन्त्यसमापत्तिभ्याम् ॥ ४७ ॥

[ भाष्यम् ]

 भवतीति वाक्यशेषः । प्रयत्नोपरमात् सिध्यत्यासनं, येन नाङ्गमेजयो भवति । अनन्ते वा समापन्नं चित्तमासनं निर्वर्तयतीति ॥ ४७ ॥

[ विवरणम् ]

 तथा कुञ्चितान्यतरपादमवनिविन्यस्तापरजानुकं वीरासनम् । उच्यमान एव विशेषः सर्वत्र ॥

 दक्षिणं पादाङ्गुष्ठं सव्येनोरुजङ्घेन परिगृह्यादृश्यं कृत्वा, तथा सव्यं पादाङ्गुष्ठं दक्षिणेनोरुजङ्घेनादृश्यं परिगृह्य, यथा च पार्ष्णिभ्यां वृषणयोरपीडनं तथा येनास्ते, तत् स्वस्तिकमासनम् ॥

 समगुल्फौ समाङ्गुष्ठौ प्रसारयन् समजानू पादौ दण्डवद्येनोपविशेत्, तत् दण्डासनम् ॥

 (न)योगपट्टसं[स्थ]स्तम्भाद्याश्रयं वा सोपाश्रयम् ॥

 आजानुप्रसारितबाहुशयनं पर्यङ्कासनम् ॥

{{gap}}क्रौञ्चनिषदनं हस्तिनिषदनं उष्ट्रनिषदनं च क्रौञ्चादिनिषदनसंस्थानसादृश्यादेव द्रष्टव्यम् ।

 भूमौ न्यस्तोरुजङ्घं समसंस्थितम् ॥

{{gap}}स्थितप्रस्रब्धिः । अन्येनापि प्रकारेण स्वयमुत्प्रेक्ष्य स्थितप्रस्रब्धिः । अनायासो येन भवति तदप्यासनं स्थितप्रस्रब्धिर्नाम ।

{{gap}}यथासुखं च-येन रूपेणासीनस्य सुखं भवति तत् यथासुखम् । आदिशब्दादन्यदपि यथाचार्योपदिष्टमासनं द्रष्टव्यम् ॥ ४६ ॥

 तदासनजयाभ्युपाय इदानीमुपपाद्यते-प्रयत्नशैथिल्यानन्त्यसमापत्तिभ्याम् । भवतीति वाक्यशेषः । आसनं दृढनिष्पन्नं भवतीत्युपस्कारः । प्रयत्नोपरमादासनबन्धोत्तरकालं प्रयत्नाकरणाद्वा सिध्यति । येन नाङ्गमेजयो भवति। येन प्रयत्नोपरमेण । प्रयत्नेन ह्यङ्गं कम्पयति। येन अचलितासनो

[ सूत्रम् ]

 ततो द्वन्द्वानभिघातः ।। ४८ ॥

[ भाष्यम् ]

 शीतोष्णादिभिर्द्वन्द्वेरासनजयान्नाभिभूयते ॥ ४८ ॥

[ सूत्रम् ]

तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥४९॥

[ भाष्यम् ]

 सत्यासनजये बाह्यस्य वायोराचमनं श्वासः । कौष्ठ्यस्य वायोर्निस्सारणं प्रश्चासः । तयोर्गतिविच्छेदः उभयाभावः प्राणायामः ।। ४९॥

 स तु--

[ सूत्रम् ]

 बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ।। ५० ॥

[ विवरणम् ]

भवतीत्यर्थः । आनन्त्ये वा समापन्नम् । अनन्तं विश्वम् , अनन्तभाव आनन्त्यम् , तस्मिन् समापन्नं, व्याप्य विश्वभावं स्थितं चित्तमासनं निर्वर्तयति द्रढयति ॥ ४७ ॥

 ततो द्वन्द्वानभिघातः । ततः आसनस्थिरीभावात् । इदं दृष्ट- मानुषाङ्गिकम् । यत् शीतोष्णादिभिर्द्वन्द्वैर्नाभिभूयते ॥ ४८ ॥

 किञ्च- प्राणायामादियोग्यता च भवति । कथम् ? तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेद: प्राणायामः । सत्यासने दृढे बाह्यस्य वायोराचमनं श्वासः । यथा सन्ततत्वादुदकं नालेनाकृष्यते, तथा सन्ततत्वात् नासिकापुटनालाभ्यामपानवायुसंबन्धो बहिर्वायुराकृष्यते, तदाकर्षणं श्वासः । तथा कौष्ट्यवायोर्निश्चारणम् । प्राणवृत्तिसम्बन्धो हि कौष्ठ्यो वायुः । तस्य बहिर्निस्सारणं प्रश्चासः । तयोर्गतिविच्छेदः । किमुक्तं भवत्यत आह--उभयाभावः प्राणायाम इति ॥ ४९ ॥

 स तु त्रिविधः बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः । स बाह्यवृत्तिरभ्यन्तरवृत्तिः स्तम्भवृत्तिश्च । यत्र श्चासपूर्वको गत्यभावः स बाह्यवृत्तिः । बाह्यस्य वायोरन्तः प्रवेशनं प्रति वृत्तिः यस्य स बाह्मवृत्तिः । तस्मात् स बाह्म: । बाह्यमन्ये पूरक इत्याचक्षते ॥

[ भाष्यम् ]

 यत्र प्रश्वासपूर्वको गत्यभावः स बाह्यः । यत्र श्वासपूर्वको गत्यभावः स आभ्यन्तरः । तृतीयः स्तम्भवृत्तिः, यत्रोभयाभावः सकृत्प्रयत्नाद्भवति । यथा तप्ते न्यस्तमुपले जलं सर्वतः सङ्कोचमापद्यते, तथा द्वयोर्युगपद्गत्यभाव इति। त्रयोऽप्येते देशेन परिदृष्टाः, इयानस्य विषयो देश इति । कालेन परिदृष्टाः, क्षणानामियतावधारणेनावच्छिन्ना इत्यर्थः । सङ्ख्याभिः परिदृष्टाः, एतावाद्भिः श्चासप्रश्चासैः प्रथम उद्धातः, तद्वन्निगृहीतस्यैतावद्भिर्द्वितीयः उद्घातः, एवं तृतीय: । एवं मृदुः, एवं मध्यः, एवं तीव्र इति सङ्ख्यापरिदृष्टः । स खल्वयमेवमभ्यस्तो दीर्घसूक्ष्मः ॥ ५० ॥

[ विवरणम् ]

 यत्र प्रश्चासपूर्वको गत्यभावः स आभ्यन्तरवृत्तिः । आभ्यन्तरस्य वायोर्बहिर्निस्सारणं प्रति वृत्तिर्यस्य स आभ्यन्तरवृत्तिः । तस्मात् स आभ्यन्तरः । तं रेचक इत्याचक्षते ॥

 तृतीयस्तु स्तम्भवृत्तिः । तत्रोभयाभावः आचमननिश्चारणयोरभावः स तु सकृत्प्रयत्नात् प्रभवति । यथा तप्ते न्यस्तं उपले जलं सर्वतः संकोचमापद्यते,तथा सकृत्प्रयत्नात् प्राणदिवृत्तयः संकोचमुपयान्तीत्याह-- द्वयोर्युगपत् गत्यभाव इति ॥

{{gap}}त्रयोऽप्येते देशेन परिदृष्टाः इयानस्य देश इति । यथा बहिर्वृतेरन्तराचम्यमानस्य नासिकाग्रप्रभृत्यापादाङ्गुष्ठं देशव्याप्तिः । एवमन्तर्वृत्तेर्बहिर्निश्चार्यमाणस्य वायोः पादाङ्गुष्ठप्रभृत्यानासिकाग्रं देशव्याप्तिः । स्तम्भवृत्तेरामस्तकापादतलव्यातिः । अथवा बहिरपि वितस्त्यादिक्रमेण देशव्याप्तिरस्त्येव ॥

{{gap}}कालेन परिदृष्टाः, क्षणानामियत्तावधारणेन इयन्तः क्षणाः प्राणायामेनातिवाहिता इति ॥

 तथा सङ्ख्याभिः परिदृष्टाः, एतावद्भिः श्चासप्रश्चासैः अतीतैः परिदृष्टः प्रथम उद्धातः । यथा, निरोधक्षुभितानां वायूनां सकृत् मूर्धानमुद्धत्य निवृत्तिः प्रथम उद्धातः । स एव मृदुः ॥

 पुनश्च सकृदुद्धतनिगृहीतस्य वायोः तावद्भिः प्रश्वासैरतीतैः

परिदृष्टो द्वितीय उद्धातः प्राणायामो मध्यम इत्युच्यते ॥ 

[ सूत्रम् ]

बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ ५१ ॥

[ भाष्यम् ]

 देशकालसङ्ख्याभिर्बाह्यविषयपरिदृष्ट आक्षिप्तः । तथा आभ्यन्तरविषयपरिदृष्ट आक्षिप्त । उभयथा दीर्घसूक्ष्मः। तत्पूर्वको भूमिजयात् क्रमेणोभयोर्गत्यभावश्चतुर्थः प्राणायामः । तृतीयस्तु विषयानालोचितो गत्यभावः सकृदारब्ध एव देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः । चतुर्थस्तु श्वासप्रश्वासयोर्विषयावधारणात् क्रमेण भूमिजयादुभयाक्षेपपूर्वको गत्यभावश्चतुर्थः प्राणायाम इत्ययं विशेष इति ॥ ५१ ॥

[ विवरणम् ]

 तथा तृतीयः, एतावद्भिः श्वासप्रश्वासैः परिदृष्टः तृतीय उद्घातः । स एव च त्रिरुद्वातः तीव्र इति ॥

 स खल्वयमेवं देशकालसङ्ख्यापरिदृष्टोऽभ्यस्तो दीर्घकालव्यापी भवति भूमिजयात्। तथा चर्षीणामनेकवर्षव्यापी श्रूयते । ततश्व दीर्घ:!  तथा वायूनां दीर्घत्वमन्दत्वापत्तेः सूक्ष्मं च भवति ॥ ५० ॥

 बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः--बाह्यस्य विषयाः पादाङ्गुष्ठादयः। बाह्यो हि वायुराचम्यमानोऽन्तर्देशान् व्याप्नोति, आक्षिपति । आभ्यन्तरस्य विषया भूम्यादयः । स च बुहिर्निश्चार्यमाणो भूम्यादीन् देशकालसङ्ख्यापरिदृष्टान् व्याप्नोति, आक्षिपति । स बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः प्राणायामः ॥

 देशकालसङ्ख्याभिर्बाह्यवस्तुविषयः परिदृष्ट आक्षिप्तो व्याप्तः । तथा आभ्यन्तरविषयः परिदृष्टो देशकालसङ्ख्याभिः आक्षिप्तो व्याप्तः । उभयथा दीर्घसूक्ष्मः ।बाह्याभ्यन्तरविषयाक्षेपेणोभयथा दीर्घसूक्ष्मत्वापन्नः ॥

किमुक्तं भवतीत्याह--तत्पूर्वकः उभयविषयाक्षेपपूर्वकः । भूमिजयात् उभयवृत्तिवायुभूमिजयक्रमेणोभयोः प्राणापानवृत्यो र्बाह्याभ्यन्तरयोः गत्यभावश्चतुर्थः॥

 तृतीयचतुर्थयोरुभयवृत्तिसामान्यादविशेषत्वमाशङ्कयाह- तृतीयस्तद्विषयानालोचितः सकृदारब्ध एव गत्यभावो देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः । चतुर्थस्तु श्चासप्रश्चासयोः आतमितोः विषयावधारणात् क्रमेण वा यद्वृत्तिभूमिजयक्रमेणॊभयाक्षेपपूर्वको गत्यभावश्चतुर्थः प्राणायाम इत्ययं विशेषः तृतीयचतुर्थयोः ॥ ५१ ॥



[ सूत्रम् ]

ततः क्षीयते प्रकाशावरणम् ॥ ५२ ॥

[ भाष्यम् ]

 प्राणायामानभ्यस्यतोऽस्य योगिनः क्षीयते विवेकज्ञानावरणीयं कर्म । यत्तदाचक्षते-‘महामोहमयेनेन्द्रजालेन प्रकाशशीलं सत्वमावृत्य तदेवाकार्ये विनियुङ्क्ते’ इति | तदस्य प्रकाशावरणं कर्म संसारनिबन्धनं प्राणायामाभ्यासबलात् दुर्बलं भवति, प्रतिक्षणं च क्षीयते । तथा चोक्तम् ‘तपो न परं " प्राणायामात् ततो विशुद्धिर्मलानां दीप्तिश्च ज्ञानस्य’ इति॥ ५२ ॥

  किञ्च-

[ सूत्रम् ]

धारणासु च योग्यता मनसः ॥ ५३ ॥

[ भाष्यम् ]

 प्राणायामाभ्यासादेव । ’ प्रच्छर्दनविधारणाभ्यां वा प्राणस्य’ इति वचनात् ॥ ५३ ॥

[ विवरणम् ]

 ततः क्षीयते प्रकाशावरणम् । प्रकाश आव्रियते येन तत् प्रकाशावरणं कर्म । प्राणायामानभ्यस्यतो योगेनो विवेकज्ञानमाव्रियते येन तत् विवेकज्ञानावरणीयं कर्म । यत्तु आचक्षते शास्त्रान्तरे "महामोहमयेनेन्द्रजालेन प्रकाशशीलं सत्त्वमावृत्य तदेवाकार्ये विनियुङ्क्ते” इति ॥

 यदाव्रियते विपर्ययज्ञानमहेन्द्रजालेन तदेव सत्त्वमावरणकर्मणा सर्वाकार्ये विनियुज्यते । तत् प्राणायामाभ्यासादस्य प्रकाशावरणं कर्म संसारनिबन्धनं दुर्बलं भवति । न केवलं दुर्बलभाव एव, प्रतिक्षणं च क्षीयते ॥

 तथा चोक्तम्-’न परं प्राणायामात्तपः’ इति । तस्मात् ततः प्राणायामात् रजस्तमःकार्याणां विशुद्धिर्मलानां, दीप्तिश्च ज्ञानस्येति ॥५२॥

 किं च-भवत्यन्यदपि प्राणायामाभ्यासात् ।धारणासु वक्ष्यमाणासु योग्यता मनसः प्राणायामादेव । [४४]’प्रच्छर्दनविधारणाभ्यां वा प्राणस्य’ इति वचनात् ताभ्यां हि मनसः स्थितिसम्पत्तिरुक्ता ॥ ५३ ॥

[ भाष्यम् ]

 अथ कः प्रत्याहारः---

[ सूत्रम् ]

स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ ५४ ॥

[ भाष्यम् ]

 स्वविषयसम्प्रयोगाभावे चित्तस्वरूपानुकार इवेति । चित्तनिरोध्रे चित्तवन्निरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवदुपायान्तरमपेक्षन्ते । यथा मधुकरराज्ञं मक्षिका उत्पतन्तमनूत्पतन्ति, निविशमानमनु निविशन्ते, तथेन्द्रियाणि चित्तनिरोधे निरुद्धानीत्येष प्रत्याहारः ॥ ५४ ॥

ततः परमा वशयतेन्द्रियाणाम् ॥ ५५ ॥ इति श्रीमहर्षिपतञ्जलिविरचिते योगसूत्रे द्वितीयः साधनपादः ॥

[ विवरणम् ]

 अथ कः प्रत्याहारः ? प्रत्याहारविशेषमभिधित्समानः प्रश्नेनोपक्रमते । स्वविषयादिन्द्रियाणां प्रत्याहरणमात्रं परेषां प्रत्याहारः।अत्र पुनर्विशेषवानुच्यते स्वविषयासम्प्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहार इति ॥

 स्वैः स्वैश्शब्दादिभिर्विषयैः इन्द्रियाणां श्रोत्रादीनां संयोगाभावे विषयदोषदर्शनात् ध्यायिनां स्वविषयात् निवर्तितानां चित्तस्वरूपानुकारतेव ।योगिनश्चित्तं यदाकारतां भजत तत् चित्तस्वरूपानुकारतेवेति ।

 एतदुक्तं भवति-चित्तनिरोधे चित्तवन्निरुद्धानि नोपायान्तरमपेक्षन्ते जयार्थम् । चित्तनिरोधादेव तानि निरुध्यन्ते । यथा मधुकरराजानम् श्रुत्यक्षरमेतत् । मधुकरराजमित्यर्थ: । मक्षिका उत्पतन्तमनूत्पतन्ति, निविशमानमनु निविशन्ते । तथैवेन्द्रियाणि चित्तनिरोधे निरुद्धानीत्यॆष प्रत्याहारः ॥ ५४ ॥

 ततः प्रत्याहारस्थैर्यात् परमा वश्यतेन्द्रियाणां भवति । इतिशब्दः समाप्त्यर्थः । यासां च वश्यतानां मध्ये प्रत्याहारस्थैर्यात् परमा वश्यता जायते ता उच्यन्ते-

[ भाष्यम् ]

 शब्दादिष्वव्यसनमिन्द्रियजय इति केचित् । सक्तिर्व्यसनं, व्यस्यत्येनं श्रेयस इति । अविरुद्धा प्रतिपत्तिर्वा न्याय्यः शब्दादिसम्प्रयोगः स्वेच्छयेत्यन्ये । रागद्वेषाभावे सुखदु:खशून्यं शब्दादिज्ञानमिन्द्रियजय इति केचित् । चितैकाग्र्यादप्रतिपत्तिरेवेति जैगीषव्यः ।ततश्च परमा त्वियं वश्यता, यच्चित्तनिरोधे निरुद्वानीन्द्रियाणि नेतरेन्द्रियजयवत् प्रयत्नकृतमुपायान्तरमपेक्षन्ते योगिन इति ॥ ५५ ॥  इति श्रीपातञ्जलयोगसूत्रभाष्ये श्रीमद्वेदव्यासकृते

द्वितीयः साधनपादः।।

[ विवरणम् ]

 शब्दादिष्विन्द्रियजयः अव्यसनं पुनः पुनरप्रवृत्तिरनासक्तिर्वेति केचिदाहुः। व्यसनमिति निर्ब्रवीति--सक्तिर्व्यसनम्। कथम् ? व्यस्यति क्षिपति एनं प्रतिपत्तारं श्रेयसः सकाशादिति व्यसनम् ॥

 अविरुद्धा प्रतिपत्तिर्वा । विरुद्धानां वा शब्दादीनामप्रतिपत्तिर्वश्यतेति । तस्यैव व्याख्यानं---न्याय्यः शास्त्रानुज्ञातः शब्दादिषु संयोगः स्वेच्छया । तेष्वविरुद्धेषु यदीच्छति प्रवर्तते न वा इत्येवमन्ये मन्वते ॥

 रागद्वेषाभावे सुखदु:खशून्यं हेयोपादेयत्ववर्जितं शब्दादिज्ञानं वश्यतेत्येके । मध्यमायां तु रागद्वेषसद्भावमात्रमपि न वार्यत इति विशेषः ॥ स्वाभिप्रेता आख्यायते--ऐकाव्यात् चित्तैकाग्रत्वानुविधानादिन्द्रियाणां अप्रतिपत्तिरेव शब्दादीनामिति जैगीषव्यो मन्यते ॥

 परमा त्वियं सर्वसामुक्तानामियं परमा वश्यतेन्द्रियाणां, यत् यस्मिन् चित्तनिरुद्धानीन्द्रियाणि न इतरेन्द्रियजयवत् पूर्वोक्तास्त्विन्द्रियवश्यतासु उपायान्तरमपेक्षन्ते जयार्थं, अस्यां पुनर्न प्रयत्नकृतमुपायान्तरमपेक्षन्ते योगिनः ॥ ५५ ॥

 इति श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकाचार्यस्य

श्रीशङ्करभगवतः कृतौ

श्रीपातञ्जलयोग(शास्त्र)सूत्रभाष्यविवरणे

॥ द्वितीयः साधनपादः ॥

श्रीः

॥ पातञ्जलयोगसूत्रभाष्यविवरणम् ॥

॥ तृतीयः विभूतिपादः ॥

[ व्यासभाष्यम् ]

 उक्तानि पञ्च बहिरङ्गसाधनानि ! धारणा वक्तव्या--

[ पातञ्जलयोगसूत्रम् ]

 देशबन्धश्चित्तस्य धारणा ॥ १ ॥

[ भाष्यम् ]

 नाभिचक्रे, हृदयपुण्डरीके, मूर्धज्योतिषि, नासिकाग्रे, जिह्वाग्र इत्येवमादिषु देशेषु, बाह्येषु च विषयेषु, चित्तस्य वृत्तिमात्रेण बन्ध इति धारणा ॥ १ ॥

[ विवरणम् ]

 {{bold|उक्तानि पञ्च बहिरङ्गानेि साधनानि सम्प्रज्ञातस्य योगस्य । अधुना अन्तरङ्गं धारणाध्यानसमाधिसमाख्यं साधनत्रयं तस्यैवामिधीयते । बहिरङ्गान्तरङ्गत्वभेदादेव हि बहिरङ्गसाधनव्याख्यानेनैव पादः परिसमापितः । संहत्यकारित्वाश्च साधनत्रयस्य पृथग्वचनम् । बहिरङ्गसाधनाभिधानानन्तरपर्युपस्थापितान्तरङ्ग-साधनप्रतिपादनेन पादसम्बन्धो व्याख्यातः । अस्मिंश्च पादे विभूतयः प्राधान्येन प्रदर्श्यन्त इति च पृथक्(क्त्वादा)पादरम्भः । एतदेव हि समाख्यालाभे कारणमवादिष्म ।

 {{bold|धारणा वक्तव्या । प्रत्याहारानन्तरं क्रमोपनीतसन्निधाना धारणा अभिधानीया । देशबन्धश्चित्तस्य धारणा । देशबन्धनं देशबन्धः । कस्य चित्तस्य ॥

 स्वयमेव च सर्वं व्याचष्टे--नाभिचक्रे नाभिप्रदेशश्वक्रमिव । सर्वे (वायव)अवयवास्तत्र चक्रीभूता इति नाभिचक्रम् । हृदयं पुण्डरीकाकारम् । मूर्धज्योतिषि । मूर्धनाडीद्वारं प्रभास्वरत्वाज्ज्योतिरित्याख्यायते । नासिकाग्रे जिह्वाग्रे इत्येवमादिषु देशेषु बाह्येषु च विषयेषु चन्द्रादित्यादिषु चित्तं बध्यते ॥


1. बहिरङ्गाणि सा, 2. मूर्ध्नि ज्यो. 3. बाह्ये वा विषये 30

  1. यो. सू. णा. 2. सू.28.
  2. यो. सू. पा. 2. सू. 45.
  3. यो. सू. पा. 2. सू. 45.
  4. यो. सू. पा. 2. सू. 43.
  5. यो. सू. पा. 2. सू. 2.
  6. यो. सू. पा. 2. सू· 28.
  7. यो. सू. पा. 1. सू. 7.
  8. प्रसुप्तस्तनुर्वा इति विवरणानुसारी पाठः ।
  9. वैयासिकी गाथा.
  10. यो· सू· पा.२
  11. सू· 15·
  12. पञ्चशिखाचार्येण.
  13. महाभाष्यम्. 2. 2. 6.
  14. पञ्चशिखाचार्येण.
  15. इदानीन्तनमुद्रितग्रन्थपाठस्तु "सुखानुशयी रागः" इति ।
  16. इदानीन्तनमुद्रितग्रन्थपाठस्तु 'दुःखानुशयी द्वेषः' इति ।
  17. इदानीन्तनमुद्रितभाष्यपाठस्तु 'यः प्रतिघो, मन्युः, जिघांसा, क्रोधः, स द्वेष' इति ।
  18. इदानीन्तनमुद्रितभाष्यग्रन्थपाठस्तु 'मा न भूवं, भूयासम्' इति ।
  19. यो. सू. पा. 1. सू. 31.
  20. यो. सू.• पा- 2. सू. 12.
  21. यो. सू. पा. 2. सू. 13.
  22. यो. सू. पा. 2. सू. 11.
  23. भगवद्रीता 4. 12.
  24. "श्वसूकरखरोष्ट्राणां गोऽजाविमृ गपक्षिणाम् । चण्डालपुल्कसानां च ब्रह्महा योनिमृच्छति ॥"
  25. 'कर्माशयः प्रचयविचित्र:' इति विवरणाभिमतपाठः ॥
  26. 'त्रिविपाकारम्भी वा जन्मायुर्भोगहेतुत्वात्' इत्यधिकः पाठः विवरणानुसारी।
  27. गौतमधर्मसूत्रम् 11. 31.
  28. भगवद्भता. 8. 6.
  29. बृ. उ. 4.3.15
  30. 'न तु दृष्टजन्मवेदनीयस्यानियतविपाकस्य वा अदृष्टजन्मवेदनीयस्य' इति विवरणाभिमतपाठः ॥
  31. 'न तस्योत्सर्गस्य' इति 'कर्माशयो दुर्ज्ञान इति' इति च विवरणाभिमतो भाष्यपाठ इति ज्ञायते॥
  32. या. सू. पा 2, सू, 5.
  33. यो. सू. पा. 2. सू. 6.
  34. यो. सू. पा. 3. सू. 35.
  35. "स्वकारणोपहृत कर्मतामापादितं" इति,
  36. "हातव्याहङ्कार" इति च विवरणाभिमत: पाठ: ।
  37. यो. सू. पा. 2. सू. 16,
  38. यो. सू. पा. 3. सू• 50.
  39. यो. सू. पा. 2. सू. 17.
  40. पञ्चशिखेन
  41. अत्र आदर्शकोशे 'तथा' इत्येतदुपरेि 'स्वविषयवृत्तिसद्भावै:' इत्यादिः ग्रन्थः उपलभ्यते । तस्यानन्वयात् आदर्शकोशे (68) पुटेभ्यःप्राक् लिखितः ‘च तत्सारूप्यमादर्शितं' इत्यादिः ग्रन्थः योजितः।
  42. आगमिभि:।
  43. अत्र आदर्शकोशे 'शुद्धि' इत्येतदुपरि 'फलं’ इत्यादि अत्र (219) पुटे मुद्रितं वाक्यं दृश्यते । तस्यानन्वयात्, आदर्शकोशे पुटद्वयव्यवहितं ‘मपश्यन्’ इत्यादि वाक्यं योजितम् ।
  44. यो. सू. पा. 1. सू. 34