सामग्री पर जाएँ

पातञ्जलयोगसूत्रभाष्यविवरणम्/प्रस्तावना

विकिस्रोतः तः

॥ श्रीः॥

प्रास्ताविकम्

  स्तुवे पतञ्जलिं व्यास शङ्कर च मुनित्रयम् ।

  कर्तृ सूत्रस्य भाष्यस्य क्रमाद्विवरणस्य च ॥

 इदमिदानीम् इदम्प्रथमतया मुद्रयित्वा प्रकाशपदवीमानीयते मद्रास्- नगरस्थराजकीयप्राच्यपुस्तकागाराध्यक्षैः श्रीपातञ्जलयोगशास्त्र [सूत्रभाष्य]- विवरणाभिधं ग्रन्थरत्नम्

 अस्य च निर्मातारः श्रीभगवत्पादा इति महदिदं प्रमोदस्थानम् ॥

 यद्यप्यत्र विवदेयुर्विमर्शकाभिमानिनः-" विवरणस्यास्य प्रणेतारः श्रीभगवत्पादा वा ? अन्ये वा ?' इति । किमत्र विशेषितेन, यत् एतदीयमूलग्रन्थयोः योगसूत्रतद्भाष्ययोः प्रणेतृविषयेऽपि समस्त्येव विप्रति पत्तिर्बहूनां ग्रन्थकर्तृकालयोर्विमर्शकानाम् -‌--- किमयं सूत्रकृत् महाभाष्यकर्तैव पतञ्जलिः ? उतान्यः ? इति, किमयं भाष्यकृत् ब्रह्मसूत्रकृद्वेदव्यास एव ? उतान्य: ?” इति च । ते यथामतिकौशलं बहूनुल्लेखानुल्लिखन्ति च ||

 अत्र च इत्थं प्रतिभाति-शब्दब्रह्मवित् भगवान् भर्तृहरिः स्वीये वाक्यपदीये ब्रह्मकाण्डे--

 "कायवाग्बुद्विविषया ये मलाः समवस्थिताः ।

 चिकेित्सालक्षणाध्यात्मशास्त्रैषां विशुद्धयः ॥"

इति पद्येन यत् शास्त्रत्रयं करणत्रयगतमलत्रयविशोधकम् आवेदयति, तत् शास्त्रत्रयमपि भगवान् पतञ्जलिः प्रणिनायेति प्रतिपादयति प्राचीनपारम्पर्यागतं प्रसिद्धं पद्यमिदम्

"योगेन चित्तस्य पदेन वाचां
मलं शरीरस्य च वैद्यकेन ।
योऽपाकरोत् तं प्रवरं मुनीनां
पतञ्जलिं प्राञ्जलिरानतोऽस्मि ॥” इति ।

पातञ्जलयोगसूत्रवृत्तिकृत् भोजदेवोऽपि---

 "वाक्चेतोवपुषां मलः फणभृतां भर्त्रेव येनोद्धृतः”

इति पतञ्जलिमुपमानीकृत्य स्वस्य ग्रन्थत्रयेण मलत्रयोद्धारकत्वमाचष्ट ॥

 तच्च शास्त्रत्रयं पातञ्जलम्, महाभाष्यम्, चरकप्रतिसंस्कृतं च इति चरकतन्त्रटीकाकृत् चक्रपाणिदत्त आवेदयति--

 "पातञ्जलमहाभाष्यचरकप्रतिसंस्कृतैः ।

 मनोवाक्कायदोषाणां हर्त्रेऽहिपतये नमः ॥" इति ॥

 अत्र च भगवदात्रेयशिष्येण अग्निवेशेन महर्षिणा प्रणीतमेव वैद्यकतन्त्रं खिलीभूतं चरकनाम्ना पतञ्जलिना प्रतिसंस्कृतत्वात् चरकप्रतिसंस्कृतपदेन व्यपदिश्यते । निरुपपदेन पातञ्जलमिति पदेन च योगसूत्रमुच्यते । अत एव योगसूत्रवृत्तौ भोजः---

 "शब्दानामनुशासनं विदधता पातञ्जले कुर्वता

 वृत्तिं राजमृगाङ्कसंज्ञकमपि व्यातन्वता वैद्यके ॥"

इति पातञ्जलपदेन निरुपपदेन योगसूत्रं निरदिक्षत् ॥

 योगे सूत्रस्य, व्याकरणे भाष्यस्य, वैद्यके वार्तिकस्य च कर्तृत्वात् पतञ्जलिः सूत्रकृत्, भाष्यकृत्, वार्तिककृच्च इति पतञ्जलिचरिते रामभद्र- दीक्षितः प्रतिपादयति--

 “सूत्राणि योगशास्त्रे वैद्यकशास्त्रे च वार्तिकानि ततः ।

 कृत्वा पतञ्जलिमुनिः प्रचारयामास जगदिदं त्रातुम् ॥” इति ।

 तत्र च पद्ये ततः इति पदं महाभाष्यप्रणयनानन्तरम् इत्यर्थकम् । लघुमञ्जूषायां "तदुक्तं चरके पतञ्जलिना" इति पुनःपुनः चरकवाक्यानि उदाहरन् नागेशभट्ट: चरकतन्त्रं पतञ्जलिप्रणीतमवबोधयति । चरकनामकपतञ्जलिकृतस्य ग्रन्थस्यापि चरकमिति व्यपदेशः । कर्तृनाम्ना ग्रन्थव्यपदेशश्च बहुलं दृश्यते ॥

 तदित्थं महाभाष्यकर्तैव श्रीशेषावतारभूतः पतञ्जलिः योगसूत्रकर्तेति निर्णयो भवितुमर्हति सहृदयानाम् ॥

 एवं ब्रह्मसूत्रकर्तैव च वेदव्यासः योगसूत्रभाष्यकर्तेति निर्णयेऽपि समस्ति प्रमाणम् । यतः- "ब्रह्मसूत्रकृते तस्मै वेदव्यासाय वेधसे ।

 ज्ञानशक्त्यवताराय नमो भगवतो हरेः ॥

इति भामत्याम्,

 "नत्वा पतञ्जलिमृषिं वेदव्यासेन भाषिते ।

 संक्षिप्तस्पष्टबह्नर्था भाष्ये व्याख्या विधास्यते॥'

इति योगभाष्यटीकायां तत्वविशारद्यां च, ब्रह्मसूत्रकृतम् योगभाष्यकृतं च वेदव्यासशब्देन व्यवहरन् श्रीवाचस्पतिमिश्रः ' ब्रह्मसूत्रकृत् श्रीमन्नारायणावतारः वेदव्यास एव योगभाष्यकृत् इत्यावेदयति ॥

 श्रीपातञ्जलभाष्यदुग्धजलधिर्विज्ञानरत्नाकर:

 वेदव्यासमुनीन्द्रबुद्धिखनितो योगीन्द्रपेयामृतः।”

इति विज्ञानभिक्षुप्रणीतयोगवार्तिकस्थं पद्यमपि अमुमभिप्रायं परिपोषयति ॥

 लघुमञ्जूषायाः कलाख्यटीकाकृत् पायगुण्डवैद्यनाथभट्टः (काशीमुद्रित पुस्तके (३२१) पुटे) "योगसूत्रभाष्ये वेदान्तसूत्रकृदुक्तत्वात्" इति वाक्येन स्पष्टमेव योग्भाष्यकर्तारमेव ब्र्ह्मसूत्रकर्तारमवगमयति ॥

 इत्थमेव विवरणकर्ताऽपि श्रीपरमेश्वरावतारभूतः भगवत्पाद एवेति निर्णेतुमस्त्यवकाशः । यतः प्रस्थानत्रयभाष्यग्रन्थेष्विव अत्रापि प्रतिपादम् ग्रन्थसमाप्तौ "इति श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकाचार्यस्य श्रीशङ्करभगवतः कृतौ श्रीपातञ्जलयोगशास्त्र(सूत्रभाष्य)- विवरणे प्रथमः पादः " इत्यादि स्फुटं विलिखितमादर्शकोशे ॥

 यद्यपि योगसूत्रतद्भाष्ययोः ग्रन्थान्तरेषु पतञ्जलिवेदव्यासकर्तृकत्वव्यवहारवत् अत्र विवरणे भगवत्पादकर्तृकत्वव्यवहारः इयदवधि नोपलभ्यते, तथाऽपि ग्रन्थसमाप्तौ भगवत्पादकृतत्वनिर्देश एव परमं प्रमाणं यावद्बाधकनुपलम्भं प्रमाणानां स्वतःप्रामाण्यवादिनामलम् ॥

 कि​ञ्च, 'ओमित्येतदक्षरमित्याद्यष्टाध्यायी छान्दोग्योपनिषत् । तस्याः संक्षेपतोऽर्थजिज्ञासुभ्यः ऋजुविवरणमल्पग्रन्थमिदमारभ्यते ? इति छान्दोग्योपनिषद्भाष्योपक्रम इव, "अथ 'आध्यात्मिकान् योगान् ? इत्याद्यध्यात्मपटलस्य संक्षेपतो विवरणं प्रस्तूयते" इति आपस्तम्बधर्मसूत्रीयप्रथमप्रश्नाष्टमपटलविवरणोपकम इव च, अत्रापि 'अथेत्यादिपातञ्जलयोगशास्त्र विवरणमारभ्यते' इति ग्रन्थारम्भशैलीसादृश्यं, ग्रन्थस्य विवरणनामसाजात्यं, ब्रह्मसूत्रभाष्ये "स्मरन्ति च" (४-१-१०) इत्यत्र "अत एव पद्मकादीनामासनविशेषाणामुपदेशो योगशास्त्रे” इति, "प्रदीपवदावेशस्तथा हि दर्शयति" (४-४-१५) इत्यत्र "एषैव च योगशास्त्रेषु योगिनामनेकशरीरयोगप्रक्रिया” इति, “एतेन योगः प्रत्युक्तः" (२-१-३) इत्यत्र "योगशास्त्रेऽपि ‘अथ तत्त्वदर्शनाभ्युपायो योगः" इति सम्यग्दर्शनाभ्युपायत्वेनैव योगोऽङ्गीक्रियते " इति च बहुषु स्थलेष्विव अत्रापि 'योगशास्त्रविवरणमारभ्यते' इति योगशास्त्रपदेनैव योगग्रन्थनिर्देश:, प्रमेयप्रतिपादनशैलीसाम्यं चेत्यादिकं • विमृश्यमानं भगवत्पादप्रणीतत्वं विवरणग्रन्थस्य अभ्यूहितुं कियन्तमिव अवकाशं ददाति । विमर्शकाभिमानिनः इयतैव च तुष्येरन् ॥

 अत्रेयं शङ्का केषाञ्चित् उदियात्-ब्रह्मसूत्रकृत् वेदव्यास एव योगभाष्यकर्ता, ब्रह्मसूत्रभाष्यकृत् भगवत्पाद एव च योगभाष्यविवरणकर्ता इत्यभ्युपगमो न युज्यते, वेदान्तदर्शने "एतेन योगः प्रत्युक्तः” इति योगदर्शननिराकरणात्, अप्रमाणत्वेनाभ्युपगतस्य योगसूत्रस्य निराकर्तृभ्यामेव वेदव्यासभगवत्पादाभ्यां भाष्यतद्विवरणप्रणयनायेागात्---इति !

 तस्या इत्थं समाधानं प्रतिभाति--योगदर्शनं न तु सर्वथा निराकृतम् , अप्रमाणत्वेनाभ्युपगतं च, ब्रह्मसूत्रतद्भाष्यकृद्भ्याम् । यतः योगप्रत्युक्त्यधिकरण एव वेदव्यासहृदयविदो भगवत्पादा:-'सम्यग्दर्शनाभ्युपायो हि योगो वेदे विहितः "श्रेोतव्यो मन्तव्यो निदिध्यासितव्यः"(बृह-उप.२-४.५०)इति ।"त्रिरुन्नतं स्थाप्य समं शरीरम्" (श्वेताश्व. २-८-) इत्यादिना च आसनादिकल्पनापुरस्सरं वहुप्रपञ्चं योगविधानं श्वेताश्वतरोपनिषदि दृश्यते । लिङ्गानि च वैदिकानि योगविषयाणि सहस्रश उपलभ्यन्ते-"तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्' (का.उ.२-६-११) इति, “ विद्यामेर्तं योगविधिं च कृत्स्नम्” इति चैवमादीनि । योगशास्त्रेऽपि-"अथ तत्त्वदर्शनाभ्युपायो योगः” इति। सम्यग्दर्शनाभ्युपायत्वेनैव योगोऽङ्गीक्रियते' इत्यादिना वाक्येन योगम् औपनिषदसम्यग्ज्ञानसाधनम् अभ्युपागमन् । ‘निराकरणं तु न साङ्ख्यज्ञानेन वेदनिरपेक्षेण योगमार्गेण वा नि:श्रेयसमधिगम्यते इति । श्रुतिर्हि वैदिकादात्मैकत्वविज्ञानादन्यनिःश्रेयससाधनं वारयति----"तुमेव वेिदित्वा अति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय"(श्वे.उ.३८)इति,'द्वैतिनो हि ते साङ्ख्या योगाश्व नात्मैकत्वदर्शिनः” 'येन त्वंशेन न विरुध्यते तेनेष्टमेव साङ्ख्ययोगस्मृत्योः सावकाशत्वम् ' तद्यथा--"असंगो ह्ययं पुरुषः"(बृ.उ.४-३-१६) इत्येवमादिश्रुतिप्रसिद्धमेव पुरुषस्य विशुद्धत्वं निर्गुणपुरुषनिरूपणेन साङ्ख्यैरभ्युपगम्यते । तथा च योगैरपि---“अथ परिव्राट् विवर्णवासा मुण्डोऽपरिग्रह:” (जाबाल. ३-५) इत्येवमादिश्रुतिप्रसिद्धमेव निवृत्तिनिष्ठत्वं प्रव्रज्याद्युपदेशेनानुगम्यते' इत्यादिना च वाक्येन हेयोपादेयविषयविभागेन योगदर्शनस्य ग्राह्मत्वं व्यवस्थापयामासुः॥

 भगवत्पादहृदयवित् भामतीकृदपि तत्रैवाधिकरणे-“नानेन योगशास्त्रस्य हैरण्यगर्भपातञ्जलादेः सर्वथा प्रामाण्यं निराक्रियते । किं तु,जगदुपादानस्वतन्त्रप्रधानतद्विकारमहदहंकारपञ्चतन्मात्रगोचरं प्रामाण्यं नास्तीत्युच्यते । न चैतावता एषामप्रामाण्यं भवितुमर्हति । यत्पराणि हि तानि, तत्राप्रामाण्ये अप्रामाण्यमश्नुवीरन् । न चैतानि प्रधानादिसद्भावपराणि। किं तु, योगस्वरूपतत्साधन - तदवान्तरफलविभूति - तत्परमफलैकवल्यव्युत्पादनपरााणि । तच्च किञ्चित् निमित्तीकृत्य व्युत्पाद्यमिति प्रधानं सविकारं निमित्तीकृतम् । पुराणेष्विव सर्गप्रतिसर्गवंशमन्वन्तरवंशानुचरितं तत्प्रतिपादनपरेषु । न तु तद्विवक्षितम् । अन्यपरादपि चान्यनिमित्तं तत् प्रतीयमानम् अभ्युपेयेत, यदि न मानान्तरेण विरुध्येत । अस्ति हि वेदान्तश्रुतिभिरस्य विरोध इत्युक्तम् । तस्मात् प्रमाणभूतादपि योगशास्त्रात् न प्रधानादिसिद्धिः । अत एव योगशास्त्रं व्युत्पादयिता आह स्म भगवान् वार्षगण्यः---

 "गुणानां परमं रूपे न दृष्टिपथमृच्छति ।

 "यत्तु दृष्टिपथं प्राप्तं तन्मायैव सुतुच्छकम् ॥ इति ।

 योगं व्युत्पिपादयिषता निमित्तमात्रेण इह गुणा उक्ताः, न तु भावतः, तेषामतात्विकत्वात् इत्यर्थः। अलोकसिद्धानामपि प्रधानादीनाम् अनदिपूर्वपक्षन्यायाभासोत्प्रेक्षितानाम् अनुवाद्यत्वमुपपन्नम्'“उपनिषदुपायस्य च तत्त्वज्ञानस्य योगापेक्षा अस्ति । न जातु योगशास्त्रविहितं यमनियमादि-बहिरङ्गमुपायमपहाय अन्तरङ्गञ्च धारणादिकमन्तरेण औपनिषदात्मतत्त्वसाक्षात्कार उदेतुमर्हति ।" यदि प्रधानादिसत्तापरं योगशास्त्रं भवेत्, भवेत् प्रत्यक्षवेदान्तश्रुतिविरोधेनाप्रमाणम् । तथा च तद्विहितेषु यमादिष्वप्यनाश्वासः स्यात् । तस्मात् न प्रधानादिपरं तत् । किं तु तन्निमित्तीकृत्य योगव्युत्पादनपरमित्युक्तम् । न चाविषये अप्रामाण्यं विषयेऽपि प्रामाण्यमुपहन्ति ! न हि चक्षू रसादावप्रमाणं रूपेऽप्यप्रमाणं भवितुमर्हति ।तस्मात् वेदान्तश्रुतिविरोधात् प्रधानादिरस्याविषयः न त्वप्रामाण्यमिति परमार्थः ।""न साङ्ख्यज्ञानेन वेदनिरपेक्षणेति--प्रधानादिविषयेणेत्यर्थः । द्वैतिनो हि ते साङ्ख्या योगाश्व----ये प्रधानादिपरतया तत् शास्त्रं व्याचक्षते इत्यर्थ: ।' इत्यादिग्रन्थेन भगवत्पादाशयोद्धाटनेन योगशास्त्रस्य प्रामाण्यं प्रत्यतिष्ठिपत् । प्रधानादिपरतया साङ्ख्ययोगशास्त्रं व्याचक्षाणानामेव परमनाप्तत्वम्, न योगादिशास्त्राप्रामाण्यम्, इति च स्फुटीचकार ॥

 तत्रैव परिमळेऽपि "योगशास्त्रे योगनिरूपणं श्वेताश्वतरोपनिषदाद्युपदिष्टयोगप्रपञ्चनरूपम्" इत्युक्तम् ॥

 इत्थमौपनिषदात्मतत्त्वज्ञानं प्रति शास्त्रान्तरापेक्षया विशिष्योपकारकत्वातिशयसद्भावादेव च हेतोः वेदान्तदर्शनप्रवर्तको भगवान् वेदव्यासः तद्भाष्यकृत् भगवत्पादश्च उभयेऽपि योगभाष्यं तद्विवरणं च चक्रतुरिति सुदृढं विश्वसिमः ॥

 न केवले भगवान् वेदव्यासो भगवत्पादश्च योगभाष्यतद्विवरणकर्तारौ औपनिषदात्माद्वैतदर्शनावलम्बिनौ, योगसूत्रकृत् भगवान् पतञ्जलिरपि हि तथैव । यतः तेन " कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् "(यो• सू २-२२) इति सूत्रे जगन्मिथ्यात्वं व्यवहृतम् । अस्य च सूत्रस्य जगन्मिथ्यात्वाभिप्रायकत्वं प्रदर्शितं श्रीमाधवाचार्यैः सूतसंहितातात्पर्यदीपिकायां यज्ञवैभवखण्डाष्टमाध्यायविवरणावसरे--'यद्यपि व्यवहारदशायां प्रकृतिप्राकृतलक्षणप्रपञ्चस्य सत्यत्वम् आत्मनानात्वं च व्यवहरन्ति (साङ्ख्यपातञ्जलादयः) तथाऽपि कैवल्यदशायां स्वरूपप्रकाशव्यतिरेकेण तस्य सर्वस्यानवभानं वर्णयन्ति । आत्मयाथात्म्यज्ञानलक्षणायाः प्रकृतिपुरुषविवेकख्यातेर्हि कैवल्यम् । तथाविधज्ञानोत्तरकालं प्रकृतिप्राकृतार्थात्मकं जगत् सर्वथाऽनवभातं चेत्। तदस्तित्वं कथं निश्चीयेत ? ज्ञेयसिद्धेः ज्ञानाधीनत्वात् । अतः आत्मयाथात्म्यज्ञानेन निवर्तितमेव तत् । तस्मात् प्रपञ्चस्यानवभातस्थ ज्ञाननिवर्त्यत्वेन मिथ्यात्वमवश्यमभ्युपगन्तव्यम् । ज्ञाननिवर्त्यानां शुक्तिरूप्यादीनां मिथ्यात्वदर्शनात् ॥

 किं च, "कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात्"इति पातञ्जलं सूत्रम् । अनेन च प्रकृतिप्राकृतिकात्मकं जगत् मुक्तापेक्षया नष्टं तदितरापेक्षया विद्यमानमेवेतेि, पुरुषविशेषापेक्षया, तस्याभावसद्भावौ प्रतिपाद्येते । एतच्च तन्मिथ्यात्वेऽवकल्पते । पुरुषविशेषमपेक्ष्य एकस्यैव वस्तुनः सद्भावासद्भावयोः शुक्तिरूप्यादौ दर्शनात् । तत्र हि काचकामलादिदोषदूषितनेत्रः पुरुषः शुक्तौ रूप्यसद्भावं प्रतिपद्यते । तदितरस्तु शुक्तिस्वरूपमेव जानन् तत्र रूप्याभावमवगच्छति । न हि पारमार्थिकं घटादि पुरुषविशेषं प्रति सद्भावासद्भावौ युगपत् प्राप्नोति । तस्मात् स्वरूपज्ञानपर्यन्तमनुवर्तमानस्य तत ऊर्ध्वमप्रतिभासमानस्य प्रपञ्चस्य वेदान्तिनामिव साङ्ख्यादीनामपि अविशेषात् मिथ्यात्वं सिद्धम् । अथापि कस्मात् न व्यवहरन्तीति चेत्--श्रोतुर्बुद्धिसमाधानार्थमिति ब्रूमः । स खलु प्रथमत एव सर्वं मिथ्येत्युक्ते, कथमेतत् घटत इत्ति व्याकुलितमनस्को भवेत्, तन्मा भूदिति सत्यत्वव्यवहार एव केवलम् । आत्मनानावस्य जीवेश्वरभेदस्य च मुक्तावनवभातत्वेनैव प्रपञ्चवन्मिथ्यात्वम् । यदि व्यवहारदशायामेक एव आत्मेत्यभिधीयेत, तदा तत्तदुपाधिपरिकल्पनेन जीवेश्वरव्यवस्था सुखदुःखादिव्यवस्था च प्रयाससमर्थनीया स्यादित्यभिप्रायेणैव तन्नानात्ववर्णनम् । मुक्तौ तु वेदान्तिनामिव सांख्यादीनामपि केवलात्मस्वरूपप्रतिभास एव संमत इति परमार्थतोऽद्वितीयत्वमात्मनः सिद्धम्" इति ॥

 यद्यपि पातञ्जलसूत्रे ‘नष्टम्’ इत्यत्र नाशोऽदर्शनम् इत्यर्थो वर्णयितुं शक्यते, व्याख्यातं च तथा व्याख्यातृभिः, तथाऽपि मानाधीनत्वान्मेयसिद्धेः मुक्तदृष्ट्या दर्शनागोचरस्य प्रपञ्चस्यासद्धाव एवेत्यत्र विवादायेगात् नाश: अदर्शनं वाऽस्तु, निवृत्तिर्वाऽस्तु, उभयथाऽपि फलमविशिष्टमिति बोध्यम् ॥

 एवं महाभाष्येऽपि पतझलिप्रणीते तृतीयाध्यायप्रथमपादप्रथमाह्निके "धातोः कर्मणः समानकर्तृकादिच्छायां वा" इति पाणिनिसूत्रविवरणावसरे “सर्वस्य वा चेतनावत्त्वात् (वार्तिकम) अथवा सर्वं चेतनावत् । एवं हि आह---कंसकाः सर्पन्ति, शिरीषोऽयं स्वपिति, सुवर्चला आदित्यमनुपर्येति, आस्कन्द कपिलकेत्युक्ते तृणमास्कन्दति, अयस्कान्तमयस्संक्रामति, ऋषिः पठति--शृणोति ग्रावाणः इति?" इत्युक्तम् । तत्र कैयटेन विवृतम्-"सर्वस्य वेति, आत्माद्वैतदर्शनेनेति भावः । ऋषिरिति-वेदः | सर्वभावानां चैतन्यं प्रतिपादयतीत्यर्थः" इति ॥

 एवञ्च आत्माद्वैतं महाभाष्ये स्फुटीकृतम् । एवं तत्रैव स्थलान्तरेष्वपि आत्माद्वैतमाविष्कृतं, विस्तरभिया उपरम्यते ॥

 परमार्थसाराभिधायाम् आर्यपञ्चाशीत्यामपि पतञ्जलिना अद्वैतदर्शनं स्फुटीकृतम्।  परमार्थसाराभिधश्च ग्रन्थः पतञ्जलिस्वरूपेणावतीर्णादिशेषकृत इति तत्रैव ग्रन्थे अन्तिमश्लोके व्यक्तम्--

 "वेदान्तशास्त्रमखिलं विलोक्य शेषस्तु जगत आधारः ।

 आर्यापञ्चाशीत्या बबन्ध परमार्थसारमिदम् ॥" इति ॥

 तत्र च--

 "सत्यमिव जगदसत्यं मूलप्रकृतेरिदं कृतं येन ।

 तं प्रणिपत्योपेन्द्रं वक्ष्ये परमार्थसारमिदम् ॥"

इति उपक्रमे एव जगन्मिथ्यात्वं प्रतिज्ञातम् ॥

 "मृगतृष्णायामुदकं शुक्तौ रजतं भुजङ्गमो रज्ज्वाम् ।

 तैमिरिकचन्द्रयुगवत् भ्रान्तं निखिलं जगद्रूपम् ॥"

इति सदृष्टान्तम् उपपादितं च ॥

 "यद्वद्दिनकर एको विभाति सलिलाशयेषु सर्वेषु ।

 तद्वत् सकलोपाधिष्ववस्थितो भाति परमात्मा ॥"

इति च आत्मद्वैतमुपवर्णितम् ॥

 परमार्थरूपब्रह्मप्राप्तिमार्गभूतसम्यग्ज्ञानसाधनीभूतो योग इति चोक्तं तत्रैव--

 "परमार्थमार्गसाधनमारभ्याप्राप्य योगमपि नाम ।

 सुरलोकभोगभोगी मुदितमना मोदते सुचिरम् ॥" इति ॥

 जीवन्मुक्तिविवेके च विद्यारण्यश्रीचरणैः परमार्थसारान्तर्गतश्लोकद्वयं शेषकृतत्वेनानूदितम्--"एतदेवाभिप्रेत्य भगवान् शेष आह--

 "तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन् देहम् ।

 ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः ॥" इति ॥

शेषोऽपि स्वकृतार्यापञ्चाशीत्यामिदमाह--

 हयमेधशतसहस्राण्यथ कुरुते ब्रह्मघातलक्षाणि ।

 परमार्थविन्न पुण्यैर्न च पापैः स्पृश्यते विमलः ॥" इति च ॥

 "तदुक्तं परमार्थसारे शेषनागेन" इत्यादिना ग्रन्थेन परमार्थसारं पदे पदे प्रमाणीकरोति लघुमञ्जूषायां भट्टनागेशः । "परमार्थसारविवरणे प्रपञ्चितमस्माभिः" इति परमार्थसारव्याख्यानमपि स्वेन कृतं ब्रवीति । भगवत्पतञ्जलि परमभक्तस्य नागेशभट्टस्य 'नागेश' इति तदीयं नामैव वहतः पतञ्जलिप्रणीतत्वादेव परमार्थसारग्रन्थे परमस्समादरः । कलाख्यटीकाकृदपि परमार्थसारकर्तारं पतञ्जलिमेव स्पष्टमाचचक्षे ॥

 एवं च पतञ्जलिव्यासशङ्कराख्यं शेषहरिहरावतारभूतं महामहिमशालि मुनित्रयमपि औपनिषदाद्वैततत्त्वपरिनिष्ठितम् एकाभिप्रायम् एकत्र अद्वैतात्मानुभवसाधनीभूतयोगविषये सूत्रतद्भाष्यतद्विवरणकर्तृत्वेन योगमन्वभूत् इति संशीलयतां सहृदयानां महदिदं प्रमोदस्थानम् इत्यलमियता ॥

 अस्य च योगशास्त्रस्य प्रथमं प्रवर्तको हिरण्यगर्भः ।

 "हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः"

इति योगियाज्ञवल्क्यस्मरणात् । पतञ्जलिः तदनुसारेण पश्चात् योगशास्त्रस्य प्रवर्तकः । अत एव "अथ योगानुशासनम्" इति सूत्रयामास । शिष्टस्य हि शासनम् अनुशासनम् । अत एव माधवाचार्याः प्रोचुः--"ननु हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः इति याज्ञवल्क्यस्मृतेः, पतञ्जलिः कथं योगस्य शासितेति चेत्--अद्धा । अत एव तत्र तत्र पुराणादौ योगस्य विप्रकीर्णतया विशिष्य दुर्ग्राह्यार्थत्वं मन्यमानेन भगवता दयासिन्धुना फणिपतिना सारं सञ्जिघृक्षुणा अनुशासनमारब्धम्, न तु साक्षात् शासनम् ॥" इति सर्वदर्शनसंग्रहान्तर्गतपातञ्जलदर्शनसंग्रहे ॥

 "पत्युरसामञ्जस्यात्" (२-२-३७) इति ब्रह्मसूत्रभाष्यगतं "साङ्ख्ययोगव्यपाश्रयाः" इति पदं व्याचक्षाणेन भामतीकृता 'सांख्ययोगव्यपाश्रयाः' हिरण्यगर्भपतञ्जलिप्रभृतयः, इत्युक्तम् ॥

 शैवाद्यागमेष्वपि चर्याक्रियायोगज्ञाननिरूपकपादचतुष्टयवत्सु योगपादे योगस्वरूपं सविस्तरमुक्तम् । पुराणेतिहासेष्वपि च प्रपञ्चितम् ॥

 इदं च योगशास्त्रं चिकित्साशास्त्रवत् चतुर्व्यूहम् । यथा हि चिकित्साशास्त्रं रोगः, रोगहेतुः, आरोग्यं, भैषज्यं, इति चतुर्व्यूहव्युत्पादनपरं, तद्वदेव इदमपि भवरोगचिकित्साशास्त्ररूपं योगशास्त्रं, हेयः, हेयहेतुः, हानं, हानोपाय इति चतुर्व्यूहव्युत्पादकम् । दुःखप्रचुरः संसारो हेयः, तस्य अविद्यानिमित्तः द्रष्टृदृश्यसंयोगो हेतुः, विवेकख्यातिरविप्लवा हानोपायः, विवेकख्यातौ च सत्यां अविद्यानिवृत्तिः, तन्निवृत्तौ आत्यन्तिको द्रष्टृदृश्यसंयोगोपरमो हानम्, तदेव च कैवल्यम् ॥  तदिदं योगशास्त्रं समाधिसाधनविभूतिकैवल्याख्यपादचतुष्टयविशिष्टम् । तत्र प्रथमे पादे (५१) एकपञ्चाशत्सूत्रोपेते प्राधान्येन समाधिप्रतिपादनात् समाधिपादाभिधे, योगोद्देशः, तल्लक्षणम्, चित्तवृत्तिभेदाः, तन्निरोधोपायभूताभ्यासवैराग्ये, चित्तस्थित्युपायाः केचन, सम्प्रज्ञातासम्प्रज्ञाताभिधो द्विविधो योगः सोपायः सफलः सावान्तरभेदश्च, ईश्वरस्य स्वरूपप्रमाणप्रभाववाचकोपासनतत्फलानि च, इत्यादिकं प्रत्यपादि ॥

 द्वितीये (५५) पञ्चपञ्चाशत्सूत्रमण्डिते कैवल्यसाधनसम्यग्दर्शनसाधनयोगसाधनानां प्राधान्येन प्रतिपादनात् साधनपादाभिधे, क्लेशतनूकरणद्वारा योगसाधनीभूतः क्रियायोगः, क्लेशकर्मविपाकाः, तेषां हेयत्वप्रयोजकं दुःखरूपत्वं, हेयतद्धेतुमोक्षतद्धेतवः चत्वारो व्यूहाः, योगं प्रति बहिरङ्गसाधनीभूतं यमादिपञ्चकं सावान्तरफलम्, इत्यादिकं प्रत्यपादि ॥

 तृतीये (५५) पञ्चपञ्चाशत्सूत्रालङ्कृते योगसाधनानुष्ठानप्रवृत्तस्य आनुषङ्गिकविभूतेः प्राधान्येन प्रतिपादनात् विभूतिपादाभिधे, धारणादित्रितयं योगं प्रति अन्तरङ्गसाधनीभूतं संयमसंज्ञं, संयमस्य लक्ष्याः परिणामभेदाः, संयमसाध्याः श्रद्धाद्वारा कैवल्यफलकयोगप्रवृत्तिहेतवः अतीतानागतज्ञानभुवनज्ञानकायव्यूहज्ञानादिरूपाः विभूतयः, इन्द्रियजयादिरूपाः साक्षाद्योगाङ्गभूताः सिद्धयः, योगफलभूता तारकसंज्ञितविवेकज्ञानसिद्धिः, इत्यादिकं प्रत्यपादि ॥

 चतुर्थे (३४) चतुस्त्रिंशत्सूत्रभूषिते सकलयोगैश्वर्येभ्यो विरक्तस्य सर्वोपसंहारद्वारेण कैवल्यस्य प्राधान्येन प्रतिपादनात् कैवल्यपादाभिधे, द्विविधं कैवल्यस्वरूपं, कैवल्यभागीयं चित्तं, परलोकः, परलोकगामी क्षणिकविज्ञानातिारक्तात्मा चित्तविकारसुखादिभोक्ता, धर्ममेघाख्यसमाधिः,प्रासङ्गिकं चान्यत् इत्यादिकं प्रत्यपादि ॥

 एवं पादचतुष्टयवता(१९५)पञ्चनवत्यधिकशतसूत्रयुजा योगसूत्रेण सूचितं महान्तं प्रमेयराशिं हृदयहारिण्या श्रोत्रपुटपेयया शैल्या विवृण्वतः वेदव्यासभाष्यस्य परमगम्भीरस्यानुरूपं प्रसन्नगम्भीरमिदं विवरणं विशेषतो भाष्याशयमभिव्यञ्जयत् परमोपकारकं योगविजिज्ञासूनाम् । कर्तृगौरवात् विषयविवेचनशैलीरामणीयकाच्च पठनमात्रेण हृदयावर्जकं नातीव विशिष्य वक्तव्यतामावहति ॥  अत्र च ग्रन्थे अनितरसाधारण्येन, ग्रन्थान्तरेष्वचर्चिताभिः बह्वीभिर्युक्तिभिः ईश्वरस्थापनं सविशेषमारचितम् । निरीश्वरवादिभिः प्रतिपक्षैः प्रदर्शिताश्च बह्व्यो युक्तयः अनूद्य निरस्ताः ॥

 अत्र च उदाहृताः प्राचीनग्रन्थास्त्विमे--१. दशोपनिषदः २. भगवद्गीता ३. महाभारते मोक्षधर्मपर्व ४. विष्णुसहस्रनामस्तोत्रम् ५. मनुस्मृतिः ६. गौतमधर्मसूत्रम् ७. पाणिनिसूत्रम् ८. महाभाष्यम् ९. शाबरभाष्यम् १०. श्लोकवार्तिकम् इत्यादयः ॥

 व्यासभाष्यस्य प्राचीनमपि व्याख्यानं विवरणे क्वचित् नामनिर्देशं विना 'अन्येषां व्याख्यानम्' इति अनूदितम् । तेन विवरणात् प्रागपि कानिचित् भाष्यव्याख्यानानि आसन् इति ज्ञायते । पश्चाच्च १. वाचस्पतिमिश्रप्रणीता तत्त्वविशारदीनाम्नी भाष्यटीका २. विज्ञानभिक्षुप्रणीतं योगवार्तिकापराभिधं भाष्यव्याख्यानम् इत्यपरं व्याख्याद्वयं भाष्यस्य मुद्रितमस्ति ॥

 योगसूत्रोपरि बह्व्यः टीकाः सन्ति मुद्रिताः--१. भोजदेवकृता राजमार्तण्डाभिधा वृत्तिः २. विज्ञानभिक्षुशिष्यभावागणेशकृता योगसूत्रदीपिका ३. तदनुसारिणी नागोजिभट्टीया वृत्तिः । २. ३. उभयमपीदं विज्ञानभिक्षुमार्गानुसारि । ४. श्रीरामानन्दयतिकृता मणिप्रभाख्या वृत्तिः ५. योगसिद्धान्तचन्द्रिका ६. सूत्रार्थबोधिनी, इति श्रीनारायणतीर्थविरचितटीकाद्वयम् ७. योगसुधाकरो नाम श्रीसदाशिवब्रह्मेन्द्रकृता योगसूत्रवृत्तिः इत्याद्याः ॥

 तदिदं पातञ्जलयोगसूत्रभाष्यविवरणम् इदंप्रथमतया मुद्रणपदवीमारोपितं मद्रास्नगरस्थराजकीयप्राच्यपुस्तकागाराध्यक्षैः । अस्य च मातृका एकैव पुस्तकागारस्था संशोधनाय समासादिता, नान्यत् पुस्तकं अन्वेषणेऽपि लब्धम् । तत्र च आदर्शकोशे लेखकप्रमादाद्वा, लेखकेन लेखनाय निरीक्षितस्य प्राचीनमूलपुस्तकस्य सम्बन्धिनां बहूनां पुटानाम् अधरोत्तरविपर्यासाद्वा, यतःकुतश्चित् अनिर्वचनीयात् हेतोः आदितः आरभ्य आाऽन्तं विंशतिसङ्ख्याकेषु स्थलेषु सान्तत्येन विलिखितान् मिथोऽनन्वितावयवान् अत एव दुर्बोधार्थान् ग्रन्थभागान् निरीक्ष्य कथमिदं मुद्रणार्हं, मुद्रितेऽपि निष्फलमेव भवेत् इति चिन्ताव्याकुलितमानसानामस्माकं दुर्वचेन महता प्रयासेन बहुपुटव्यवधानतो विशकलितानां विप्रकीर्णानां वाक्यानां मिथोऽन्वययोग्यानाम् अक्षरशो गवेषणेन सिंहावलोकमण्डूकप्लुत्यादिनीतिमनुसृत्य पश्चिमवाक्यस्य बहुदूरस्थेन पूर्ववाक्येनान्वयः, पूर्ववाक्यस्य बहुदूरस्थेन पश्चिमवाक्येनान्वय इति रीत्या विप्रकीर्णवाक्यानां व्यत्यासेन मिथोयोजने मतिरुदभूत् भगवत्पादानुग्रहवशात् । तथाविधयोजने कृते च मिथोऽन्वययोग्यार्थत्वं वाक्यानामालोच्य प्रमोदभरश्च समजनि । एतादृशानाम् अन्वितार्थानां वाक्यानां मिथो योजनं कुत्र कथं कृतम् ? आदर्शकोशे कतिपुटव्यवधानतः तानि लिखितान्यासन् ? इत्येतत्, ग्रन्थं एव विंशतिसङ्ख्याकेषु तत्तद्वाक्यमुद्रणस्थलेषु अधः टिप्पण्यां प्रदर्शितम् । तन्निरीक्षणेन च परिशोधनपरिश्रमः कियानभूदिति अवगम्येत सहृदयैः ॥

 एवं महता प्रयासेन शोधने कृतेऽपि मानुषशेमुषीस्वभावसिद्धेन प्रमादेन बह्व्यः अशुद्धयः सम्भाव्येरन् । पठनपाठनवशादेव तु ता निरसनीया भवेयुः सूक्ष्मेक्षिकया सहृदयैः, इति सविनयं निवेद्य एतावता उपसंह्रियते ॥

पूज्यान् पतञ्जलिव्यासशंकरांस्त्रीन् मुनीन् नुमः ।
योगशास्त्रस्य वेदान्तशास्त्रस्यापि प्रवर्तकान् ॥

इत्थम्

'शास्त्ररत्नाकर' बिरुदभूषितः

पोलकम् - सु. श्रीरामशास्त्री

मद्रपुरसंस्कृतकलाशाला - वेदान्तसाहित्याध्यापकः ।

'न्यायवेदान्तशिरोमणिः'

एस्. आर्. कृष्णमूर्तिशास्त्री

मद्रपुरसंस्कृतकलाशालान्यायवेदान्ताध्यापकः ॥

॥ शुभम् ॥

॥ सभाष्यविवरणश्रीपातञ्जलयोगसूत्रविषयानुक्रमणिका ॥

॥ प्रथमः समाधिपादः ॥

विषयः पृष्ठम्
१. योगशास्त्रारम्भः
२. योगलक्षणम्
३. निरोधकाले चित्तः स्वरूपमात्रावस्थानम् १३
४. व्युत्थानकाले चित्तो वृत्तिसारूप्यम् १४
५. वृत्तीनां पञ्चसङ्ख्यत्वम् १७
६. वृत्त्युद्देशः १८
७. प्रमाणविभागलक्षणे "
८. विपर्ययलक्षणम् ३३
९. विकल्पलक्षणम् ३५
१०. निद्रालक्षणम् ३८
११. स्मृतिलक्षणम् ३९
१२. निरोधोपायः ४२
१३. अभ्यासलक्षणम् "
१४. अभ्यासस्य दृढभूमित्वे उपायकथनम् ४३
१५. वैराग्यलक्षणम् "
१६. परवैराग्यलक्षणम् ४४
१७. संप्रज्ञातसमाधिलक्षणविभागौ ४७
१८. असंप्रज्ञातसमाधिलक्षणम् ४८
१९. निरोधसमाध्यवान्तरभेदभवप्रत्ययाधिकारिकथनम् ५०
२०. तदवान्तरभेदोपायप्रत्ययाधिकारिकथनम् ५१
२१. उपायतारतम्यप्रयुक्तफलतारतम्यम् ५२
२२. ईश्वराराधनस्यापि निरोधसमाध्युपायत्वम् "
२३. ईश्वरलक्षणम् ५३
२४. ईश्वरस्य सर्वज्ञत्वसाधनम् ५७
२५. ईश्वरस्य सर्वश्रेष्ठत्वम् ७४
२६. ईश्वरवाचकस्वरूपम् ७६
२७. ईश्वरप्रणिधानस्वरूपम् ७९
२८. ईश्वरप्रणिधानफलम् ८०

विषयः
पृष्ठम्
 
२९. अन्तरायकथनम् ८१
३०. तदर्थम् अभ्यसनीयविषयकथनम् ८३
३१. चित्तप्रसादनोपायाः ९१
३२. प्रसन्नचित्तस्थैर्योपायाः ९२
३३. स्थिरचित्तताऽवान्तरफलम् ९७
३४. स्थिरचित्तस्य समापत्तिस्वरूपकथनम् "
३५. सवितर्कसमापत्तिलक्षणम् १०२
३६. निर्वितर्कसमापत्तिलक्षणम् १०३,१०४
३७. सविचारनिर्विचारसमापत्तिलक्षणम् ११०
३८. सूक्ष्मविषयत्वावधिकथनम् १११
३९. उक्त्तसमापत्तीनां सबीजत्वकथनम् ११३
४०. निर्विचारोत्कर्षफलम् "
४१. ऋतम्भरप्रज्ञाकथनम् ११४
४२. ऋतम्भराया विशेषविषयत्वम् ११५
४३. निर्विचारसमापत्तिजन्यसंस्काराणामितरसंस्कारप्रतिबन्धकत्वम् ११६
४४. निर्बीजसमाधिदशाकालः ११७

॥ द्वितीयः साधनपादः ॥

१. क्रियायोगस्वरूपकथनम् १२१
२. क्रियायोगफलम् १२४
३. क्लेशोद्देशः १२५
४. क्लेशानामविद्यामूलकत्वम् १२७
५. अविद्यालक्षणम् १३२
६. अस्मितालक्षणम् १३७
७. रागलक्षणम् १३९
८. द्वेषलक्षणम् १४०
९. अभिनिवेशलक्षणम् "
१०. क्लेशानां पश्चिमावस्थाकथनम् १४२
११. तद्वृत्तीनां ध्यानहेयत्वम् "
१२. कर्माशयस्य क्लेशहेतुत्वम् १४३
१३. कर्माशयविपाकनिरूपणम् १४६
१४. विपाकफलकथनम् १५८
१५. सुखस्यापि दुःखात्मकतया हेयत्वम् १५९
विषयः पृष्ठम्
१६. हेयस्वरूपम् १७१
१७. हेयहेतुस्वरूपम् १७२
१८. दृश्यस्वरूपम् १७६
१९. दृश्यावान्तरविभागः १८२
२०. द्रष्टृस्वरूपम् १८८
२१. दृश्यस्य द्रष्ट्रर्थत्वम् १९२
२२. मुक्तेतरसंपर्कित्वाद्दृश्यस्यानष्टत्वम् १९४
२३. संयोगस्वरूपकथनम् १९५
२४. संयोगहेतुकथनम् २००
२५. हानस्वरूपम् २०३
२६. हानोपायकथनम् २०४
२७. उत्पन्नविवेकप्रज्ञायाः सप्तविधत्वम् २०५
२८. विवेकख्यातिसाधनकथनम् २०७
२९. योगाङ्गकथनम् २११
३०. यमस्वरूपम् २१२
३१. यमविशेषस्वरूपम् २१४
३२. नियमस्वरूपम् २१५
३३. यमनियमप्रतिबन्धबाधनम् २१७
३४. वितर्कस्वरूपादिकथनम् २१८
३५. अहिंसाप्रतिष्ठाफलम् २२१
३६. सत्य " " "
३७. अस्तेय " " "
३८. ब्रह्मचर्य " २२२
३९. अपरिग्रह " " "
४०. शौचफलम् "
४१. सन्तोषफलम् २२३
४२. तपःफलम् २२४
४३. स्वाध्यायफलम् "
४४. ईश्वरप्रणिधानफलम् "
४५. आसनस्वरूपम् २२५
४६. आसनसाधनकथनम् २२६
४७. आसनफलम् २२७
४८. प्राणायामसामान्यस्वरूपम् "
४९. प्राणायामविशेषस्वरूपम् "
विषयः पृष्ठम्
५०. प्राणायामावान्तरफलम् २३०
५१. प्रत्याहरस्वरूपम् २३१
५२. प्रत्याहारफलम् "

॥ तृतीयो विभूतिपादः ॥

१. धारणलक्षणम् २३३
२. ध्यानलक्षणम् २३४
३. समाधिलक्षणम् "
४. संयमपदार्थः २३५
५. संयमजयफलम् "
६. संयमसापेक्षता "
७. धारणाऽऽदीनामन्तरङ्गत्वम् २३७
८. एषामेव निर्बीजबहिरङ्गत्वम् २३८
९. निरोधपरिणामलक्षणम् २३९
१०. तेन चित्तप्रशान्तवाहितोक्तिः २४०
११. समाधिपरिणामलक्षणम् "
१२. एकाग्रतापरिणामलक्षणम् २४१
१३. धर्मादित्रयपरिणामलक्षणव्याख्यानम् २४२
१४. धर्मिलक्षणम् २५५
१५. परिणामान्यत्वे हेतूक्तिः २५९
१६. परिणामत्रयसंयमफलम् २६२
१७. शब्दार्थप्रत्ययविवेकसंयमफलम् २६३
१८. संस्कारसाक्षात्कृतिफलम् २७८
१९. प्रत्ययसाक्षात्कृतिफलम् २८०
२०. प्रत्ययसाक्षात्कृतौ तद्विषयस्यासाक्षात्कृतिः २८१
२१. कायरूपसंयमफलम् "
२२. कर्मसंयमफलम् २८२
२३. मैत्र्यादिसंयमफलम् २८३
२४. बलसंयमफलम् २८४
२५. प्रवृत्त्यालोकसंयमफलम् "
२६. सूर्यसंयमफलम् २८५
२७. चन्द्रसंयमफलम् २८७
२८. ध्रुवसंयमफलम् "
२९. नाभिचक्रसंयमफलम् २८८
  विषयः पृष्ठम्
३०. कण्ठकूपसंयमफलम् २८८
३१. कूर्मनाडीसंयमफलम् "
३२. मूर्धज्योतिःसंयमफलम् २८९
३३. प्रातिभसंयमफलम् "
३४. हृदयसंयमफलम् "
३५. पुरुषज्ञानसाधनसंयमकथनम् २९०
३६. प्रातिभादीनां स्वार्थसंयमफलत्वम् २९२
३७. पूर्वोक्तसिद्धीनां समाधिप्रतिपक्षत्वम् "
३८. चित्तस्य परदेहावेशोपायः "
३९. उदानसंयमफलम् २९३
४०. समानसंयमफलम् २९४
४१. श्रोत्राकाशसंबन्धसंयमफलम् "
४२. कायाकाशसंबन्धसंयमफलम् २९५
४३. प्रकाशावरणक्षयभूतजयोपायौ २९६,२९७
४४. अणिमादिसिद्धयाद्युपायः ३०१
४५. कायसंपत्स्वरूपम् ३०३
४६. इन्द्रियजयोपायः "
४७. इन्द्रियजयफलम् ३०५
४८. सर्वज्ञातृत्वाद्युपायः "
४९. कैवल्योपायः ३०६
५०. कैवल्यप्रत्यूहप्रशमोपायः ३०७
५१. क्षणतत्क्रमसंयमफलम् ३०९
५२. विवेकजज्ञानविषयोक्तिः ३१२
५३. विवेकजज्ञानलक्षणम् ३१४
५४. सत्वपुरुषान्यताख्यातिफलम् ३१५

॥ चतुर्थः कैवल्यपादः ॥

१. सिद्धिकारणवैविध्यम् ३१७
२. जात्यन्तरपरिणामप्रयोजकोक्तिः ३१८
३. धर्मादेः प्रकृतिप्रयोजकत्वाभावः "
४. निर्माणचित्तकथनम् ३२०
५. तत्प्रयोजकचित्तकथनम् ३२१
६. निर्मितचित्तस्य वासनाशून्यत्वम् "
७. कर्मभेदः ३२२
विषयः पृष्ठम्
८. वासनानां कर्मानुगुणत्वम् ३२४
९. व्यवहितवासनानामप्यव्यवधानोपपत्तिः ३२६
१०. वासनानामनादित्वम् ३२८
११. अनादित्वेऽपि वासनानामुच्छेदः ३३१
१२. धर्माणामध्वभेदपरिणामः ३३३
१३. धर्माणां गुणत्वकथनम् ३३७
१४. वस्तुगतैकत्वव्यवहारनिमित्तोक्तिः ३३८
१५. अर्थज्ञानभेदसाधनम् ३४१
१६. अर्थस्य ज्ञानसहभावित्वखण्डनम् ३४४
१७. चित्तपरिणामित्वव्यञ्जनम् ३४६
१८. पुरुषापरिणामित्वोक्तिः ३४७
१९. चित्तस्य स्वयंप्रकाशत्वाभावः ३४९
२०. चित्तस्य स्वाभासत्वे दोषः ३५१
२१. चित्तान्तरभास्यत्वे च चित्तस्य, दोषः ३५२
२२. अपरिणामिन्या अपि चितितो बुद्धिवेदनम् ३५४
२३. चित्ते सर्वार्थत्वस्यौपाधिकत्वम् ३५५
२४. चित्तातिरिक्तचेतने हेत्वन्तरम् ३५८
२५. आत्मज्ञानाधिकारिपरिचयः ३६०
२६. आत्मज्ञानाधिकारिचित्तस्वरूपम् ३६१
२७. विवेकिनो व्युस्थितचित्तत्वे हेतुः ३६२
२८. विवेकिनो व्युत्थितचित्तत्वनिराकृतिप्रकारः "
२९. प्रसंख्याननिरोधोपायः ३६३
३०. धर्ममेघसमाधिफलम् "
३१. धर्ममेघकाले चित्तावस्थाकथनम् ३६४
३२. गुणपरिणामक्रमसमाप्तिः ३६५
३३. क्रमलक्षणम् "
३४. कैवल्यस्वरूपम् ३६८

॥ समाप्तेयं योगसूत्रविषयानुक्रमणिका ॥