सामग्री पर जाएँ

पाणिनीयशिक्षा/दशमखण्डः

विकिस्रोतः तः
← खण्डः ९ पाणिनीयशिक्षा
खण्डः १०
पाणिनी
खण्डः ११ →

चाषस्तु वदते मात्रां द्विमात्रं त्वेव वायसः ।
शिखी रौति त्रिमात्रं तु नकुलस्त्वर्धमात्रकम् ।। ४९ ।।

कुतीर्थादागतं दग्धमपवर्णं च भक्षितम् ।
न तस्य पाठे मोक्षोऽस्ति पापाहेरिव किल्बिषात् ।। ५० ।।

सुतीर्थादगतं व्यक्तं स्वाम्नाय्यं सुव्यवस्थितम् ।
सुस्वरेण सुवक्त्रेण प्रयुक्तं ब्रह्म राजते ।। ५१ ।।

मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह ।
स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोपराधात् ।। ५२ ।।

अनक्षरं हतायुष्यं विस्वरं व्याधिपीडितम् ।
अक्षताश्शस्त्ररूपेण वज्रं पतति मस्तके ।। ५३ ।।

हस्तहीनं तु योऽधीते स्वरवर्णविवर्जितम् ।
ऋग्यजुःसामभिर्दग्धो वियोनिमधिगच्छति ।। ५४ ।।

हस्तेन वेदं योऽधीते स्वरवर्णर्थसंयुतम् ।
ऋग्यजुः सामभिः पूतो ब्रह्मलोके महीयते ।। ५५ ।।