पाणिनीयशिक्षा/नवमखण्डः

विकिस्रोतः तः
(पाणिनीयशिक्षा/नवमोखण्डः इत्यस्मात् पुनर्निर्दिष्टम्)
← खण्डः ८ पाणिनीयशिक्षा
खण्डः ९
पाणिनी
खण्डः १० →


उदात्तमाख्याति वृषोऽङ्गुळीनां प्रदेशिनीमूलनिविष्टमूर्धा ।
उपान्तमध्ये स्वरितं ध्रुतं च कनिष्ठकायामुदात्तमेव ।। ४३ ।।

उदात्तं प्रदेशिनीं विद्यात्प्रचयं मध्यतोङ्गुलिम् ।
निहतं तु कनिष्ठिक्यां स्वरितोपकनिष्ठिकाम् ।। ४४ ।।

अन्तोदात्तमाद्युदात्तमुदात्तमनुदात्तं नीचस्वरितम् ।
मध्योदात्तं स्वरितं द्व्युदात्तं त्र्युदात्तमिति नवपदशय्या ।। ४५ ।।

अग्निः सोमः प्र वो वीर्यं हविषां स्वर्बृहस्पतिरिन्द्राबृहस्पती
अग्निरित्यन्तोदात्तं सोम इत्यादयुदात्तम् ।
प्रेत्युदात्तं व इत्यनुदात्तं वीर्यं नीचस्वरितम् ।। ४६ ।।

हविषां मध्योदात्तं स्वरिति स्वरितम् ।
बृहस्पतिरिति द्व्युदात्तमिन्द्राबृहस्पती इति त्र्युदात्तम् ।। ४७ ।।

अनुदात्तो हृदि ज्ञेयो मूर्ध्न्युदात्त उदाहृतः ।
स्वरितः कर्णमूलीयः सर्वास्ये प्रचयः स्मृतः ।। ४८ ।।