परिव्रात् उपनिषद् (नारदपरिव्राजक)/उपदेशः ८

विकिस्रोतः तः
← उपदेशः ७ परिव्रात् उपनिषद् (नारदपरिव्राजक)
उपदेशः ८
[[लेखकः :|]]
उपदेशः ९ →

अथ हैनं भगवन्तं परमेष्ठिनं नारदः
पप्रच्च्ह संसारतारकं प्रसन्नो ब्रूहीति ।
तथेति परमेष्ठी वक्तुमुचक्रमे ओमिति ब्रह्मेति
व्यष्टिसमष्टिप्रकारेण । का व्यष्टिः का
समष्टिः संहारप्रणवः सृष्टिप्रणव
श्चान्तर्बहिश्चोभयात्मकत्वात्त्रिविधो
ब्रह्मप्रणवः । अन्तःप्रणवो व्यावहारिकप्रणवः ।
बाह्यप्रणव आर्षप्रणवः । उभयात्मको
विराट्प्रणवः । संहारप्रणवो ब्रह्मप्रणव
अर्धमात्राप्रणवः । ओमितिब्रह्म । ओमित्येकाक्षर
मन्तःप्रणवं विद्धि । सचाष्टधा भिद्यते ।
अकारोकारमकारार्धमात्रानादबिन्दुकलाशक्तिश्चेति ।
तत्र चत्वार अकारश्चायुतावयवान्वित उकारः
सहस्रावयवान्वितो मकारः शतावयवोपेतोऽर्धमात्रा
प्रणवोऽनन्तावयवाकारः । सगुणो विराट्प्रणवः संहारो
निर्गुणप्रणव उभयात्मकोत्पत्तिप्रणवो यथाप्लुतो
विराट्प्लुतः प्लुतसंहारो विराट्प्रणवः षोडशमात्रात्मकः
षट्त्रिंशत्तत्त्वातीतः । षोडशमात्रात्मकत्वं
कथमित्युच्यते । अकारः प्रथमोकारो द्वितीया मकार
स्तृतीयार्धमात्रा चतुर्थी नादः पञ्चमी बिन्दुः
षष्ठी कला सप्तमी कलातीताष्टमी शान्तिर्नवमी
शान्त्यतीता दशमी उन्मन्येकादशी मनोन्मनी द्वादशी
पुरी त्रयोदशी मध्यमा चतुर्दशी पश्यन्ती पञ्चदशी
परा । षोडशी पुनश्चतुःषष्टिमात्रा प्रकृति
पुरुषद्वैविध्यमासाद्याष्टाविंशत्युत्तरभेदमात्रा
स्वरूपमासाद्य सगुणनिर्गुणत्वमुपेत्यैकोऽपि ब्रह्मप्रणवः
सर्वाधारः परंज्योतिरेष सर्वेश्वरो विभुः । सर्वदेवमयः
सर्वप्रपञ्चाधारगर्भितः ॥ १॥

सर्वाक्षरमयः कालः सर्वागममयः शिवः ।
सर्वश्रुत्युत्तमो मृग्यः सकलोपनिषन्मयः ॥ २॥

भूतं भव्यं भविष्यद्यत्त्रिकालोदितमव्ययम् ।
तदप्योङ्कारमेवायं विद्धि मोक्षप्रदायकम् ॥ ३॥

तमेवात्मानमित्येतद्ब्रह्मशब्देन वर्णितम् ।
तदेकममृतमजरमनुभूय तथोमिति ॥ ४॥

सशरीरं समारोप्य तन्मयत्वं तथोमिति ।
त्रिशरीरं तमात्मानं परंब्रह्म विनिश्चिनु ॥ ५॥

परंब्रह्मानुसन्दध्याद्विश्वादीनां क्रमः क्रमात् ।
स्थूलत्वात्स्थूलभुक्त्वाच्च सूक्ष्मत्वात्सूक्ष्मभुक् परम् ॥ ६॥

ऐकत्वानन्दभोगाच्च सोऽयमात्मा चतुर्विधः ।
चतुष्पाज्जागरितः स्थूलः स्थूलप्रज्ञो हि विश्वभुक् ॥ ७॥

एकोनविंशतिमुखः साष्टाङ्गः सर्वगः प्रभु ।
स्थूलभुक् चतुरात्माथ विश्वो वैश्वानरः पुमान् ॥ ८॥

विश्वजित्प्रथमः पादः स्वप्नस्थानगतः प्रभुः ।
सूक्ष्मप्रज्ञः स्वतोऽष्टाङ्ग एको नान्यः परंतप ॥ ९॥

सूक्ष्मभुक् चतुरात्माथ तैजसो भूतराडयम् ।
हिरण्यगर्भः स्थूलोऽन्तर्द्वितीयः पाद उच्यते ॥ १०॥

कामं कामयते यावद्यत्र सुप्तो न कञ्चन ।
स्वप्नं पश्यति नैवात्र तत्सुषुप्तमपि स्फुटम् ॥ ११॥

एकीभूतः सुषुप्तस्थः प्रज्ञानघनवान्सुखी ।
नित्यानन्दमयोऽप्यात्मा सर्वजीवान्तरस्थितः ॥ १२॥

तथाप्यानन्दभुक् चेतोमुखः सर्वगतोऽव्ययः ।
चतुरात्मेश्वरः प्राज्ञस्तृतीयः पादसंज्ञितः ॥ १३॥

एष सर्वेश्वरश्चैष सर्वज्ञः सूक्ष्मभावनः ।
एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ ॥ १४॥

भूतानां त्रयमप्येतत्सर्वोपरमबाधकम् ।
तत्सुषुप्तं हि यत्स्वप्नं मायामात्रं प्रकीर्तितम् ॥ १५॥

चतुर्थश्चतुरात्मापि सच्चिदेकरसो ह्ययम् ।
तुरीयावसितत्त्वाच्च एकैकत्वनुसारतः ॥ १६॥

ज्ञातानुज्ञात्रननुज्ञातृविकल्पज्ञानसाधनम् ।
विकल्पत्रयमत्रापि सुषुप्तं स्वप्नमान्तरम् ॥ १७॥

मायामात्रं विदित्वैवं सच्चिदेकरसो ह्ययम् ।
विभक्तो ह्ययमादेशो न स्थूलप्रज्ञमन्वहम् ॥ १८॥

न सूक्ष्मप्रज्ञमत्यन्तं न प्रज्ञं न क्वचिन्मुने ।
नैवाप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञमान्तरम् ॥ १९॥

नाप्रज्ञमपि न प्रज्ञाघनं चादृष्टमेव च ।
तदलक्षणमग्राह्यं यद्व्यवहार्यमचिन्त्य
मव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं
शिवं शान्तमद्वैतं चतुर्थं मन्यन्ते स ब्रह्म
प्रणवः स विज्ञेयो नापरस्तुरीयः सर्वत्र
भानुवन्मुमुक्षूणामाधारः स्वयंज्योतिर्ब्रह्माकाशः
सर्वदा विराजते परंब्रह्मत्वादित्युपनिषत् ॥

इति अष्टमोपदेशः ॥ ८॥