सामग्री पर जाएँ

परिव्रात् उपनिषद् (नारदपरिव्राजक)/उपदेशः ७

विकिस्रोतः तः
← उपदेशः ६ परिव्रात् उपनिषद् (नारदपरिव्राजक)
उपदेशः ७
[[लेखकः :|]]
उपदेशः ८ →

अथ यतेर्नियमः कथमिति पृष्टं नारदं पितामहः
पुरस्कृत्य विरक्तः सन्यो वर्षासु ध्रुवशीलोऽष्टौ
मास्येकाकी चरन्नेकत्र निवसेद्भिक्षुर्भयात्सारङ्गवदेकत्र
न तिष्ठेस्वगमननिरोधग्रहणं न कुर्याद्धस्ताभ्यां
नद्युत्तरणं न कुर्यान्न वृक्षारोहणमपि न
देवोत्सवदर्शनं कुर्यान्नैकत्राशी न बाह्यदेवार्चनं
कुर्यात्स्वव्यतिरिक्तं सर्वं त्यक्त्वा मधुकरवृत्त्याहारमहारन्कृशो
भूत्वा मेदोवृद्धिमकुर्वन्नाज्यं रुधिरमिव त्यजेदेकत्रान्नं
पललमिव गन्धलेपनमशुद्धिलेपनमैव क्षारमन्त्यजमिव
वस्त्रमुच्च्हिष्टपात्रमिवाभ्यङ्गं स्त्रीसङ्गमिव
मित्राह्लादकं मूत्रमिव स्पृहां गोमांसमिव ज्ञातचरदेशं
चण्डालवाटिकामिव स्त्रियमहिमिव सुवर्णं कालकूटमिव
सभास्थलं स्मशानस्थलमिव राजधानीं कुम्भीपाकमिव
शवपिण्डवदेकत्रान्नं न देहान्तरदर्शनं प्रपञ्चवृत्तिं
परित्यज्य स्वदेशमुत्सृज्य ज्ञातचरदेशं विहाय
विस्मृतपदार्थं पुनः प्राप्तहर्ष इव स्वमानन्दमनुस्मर
न्स्वशरीराभिमानदेशविस्मरणं मत्वा शवमिव हेयमुपगम्य
कारागृहविनिर्मुक्तचोरवत्पुत्राप्तबन्धुभवस्थलं
विहाय दूरतो वसेत् ।
अयत्नेन प्राप्तमाहरन्ब्रह्मप्रणवध्यानानुसन्धानपरो
भूत्वा सर्वकर्मनिर्मुक्तः कामक्रोधलोभमोहमद
मात्सर्यादिकं दग्ध्वा त्रिगुणातीतः षडूर्मिरहितः
षड्भावविकारशून्यः । सत्यवाक्च्हुचिरद्रोही ग्राम
एकरात्रं पत्तने पञ्चरात्रं क्षेत्रे पञ्चरात्रं तीर्थे
पञ्चरात्रमनिकेतः स्थिरमतिर्नानृतवादी गिरिकन्दरेषु
वसेदेक एव द्वौ वा चरेत् ग्रामं त्रिभिर्नगरं चतुर्भि
र्ग्राममित्येकश्चरेत् । भिक्षुश्चतुर्दशकरणानां
न तत्रावकाशं दद्यादविच्च्हिन्नज्ञानाद्वैराग्यसंपत्ति
मनुभूय मत्तो न कश्चिन्नान्यो व्यतिरिक्त इत्यात्मन्यालोच्य
सर्वतः स्वरूपमेव पश्यञ्जीवन्मुक्तिमवाप्य प्रारब्ध
प्रतिभासनाशपर्यन्तं चतुर्विधं स्वरूपं ज्ञात्वा
देहपतनपर्यन्तं स्वरूपानुसन्धानेन वसेत् ।
त्रिषवणस्नानं कुटीचकस्य बहूदकस्य द्विवारं
हंसस्यैकवारं परमहंसस्य मानसस्नानं
तुरीयातीतस्य भस्मस्नानमवधूतस्य वायव्यस्नानं
ऊर्ध्वपुण्ड्रं कुटीचकस्य त्रिपुण्ड्रं बहूदकस्य
ऊर्ध्वपुण्ड्रं त्रिपुण्ड्रं हंसस्य भस्मोद्धूलनं
परमहंसस्य तुरीयातीतस्य तिलकपुण्ड्रमवधूतस्य न
किञ्चित् । तुरीयातीतावधूतयोः ऋतुक्षौरं कुटीचकस्य
ऋतुद्वयक्षौरं बहूदकस्य न क्षौरं हंसस्य
परमहंसस्य च न क्षौरम् । अस्तिचेदयनक्षौरम् ।
तुरीयातीतावधूतयोः न क्षौरम् । कुटीचकस्यैकान्नं
माधुकरं बहूदकस्य हंसपरमहंसयोः करपात्रं
तुरीयातीतस्य गोमुखं अवधूतस्याजगरवृत्तिः । शाटिद्वयं
कुटीचकस्य बहूदकस्यैकशाटी हंसस्य खण्डं
दिगंबरं परमहंसस्य एककौपीनं वा तुरीयातीतावधूतयो
र्जातरूपधरत्वं हंसपरमहंसयोरजिनं न त्वन्येषाम् ।
कुटीचकबहूदकयोर्देवार्चनं हंसपरमहंसयो
र्मानसार्चनं तुरीयातीतावधूतयोः सोहंभावना ।
कुटीचकबहूदकयोर्मन्त्रजपाधिकारो हंसपरमहंसयो
र्ध्यानाधिकारस्तुरीयातीतावधूतयोर्न त्वन्याधिकार
स्तुरीयातीतावधूतयोर्महावाक्योपदेशाधिकारः
परमहंसस्यापि । कुटीचकबहूदकहंसानां
नान्यस्योपदेशाधिकारः। कुटीचकबहूदकयोर्मानुषप्रणवः
हंसपरमहंसयोरान्तरप्रणवः तुरीयातीतावधूतयोर्ब्रह्मप्रणवः ।
कुटीचकबहूदकयोः श्रवणं हंसपरमहंसयोर्मननं
तुरीयातीतावधूतयोर्निदिध्यासः । सर्वेषामात्मनुसन्धानं
विधिरित्येव मुमुक्षुः सर्वदा संसारतारकं तारकमनुस्मर
ञ्जीवन्मुक्तो वसेदधिकारविशेषेण कैवल्यप्राप्त्युपाय
मन्विष्येद्यतिरित्युपनिषत् ॥

इति सप्तमोपदेशः ॥ ७॥