पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः २२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २१ पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)
अध्यायः २२
[[लेखकः :|]]
अध्यायः २३ →

शौनकउवाच
माहात्म्यं ब्रूहि सर्वज्ञ शृण्वतां पापनाशनम्
सर्वप्राणिहितार्थाय तुलस्या अनुकंपया १
सूत उवाच
तुलस्याः परिसरे यस्य काननं तिष्ठति द्विज
गृहस्य तीर्थरूपत्वान्नायांति यमकिंकराः २
तुलस्याः काननं विप्र सर्वपापहरं शुभम्
रोपयंति नराः श्रेष्ठास्ते न पश्यंति भास्करिम् ३
रोपणं पालनं सेवां दर्शनं स्पर्शनं तु यः
कुर्य्यात्तस्य प्रणष्टं स्यात्सर्वपापं द्विजोत्तम ४
कोमलैस्तुलसीपत्रैरर्चयंति हरिं तु ये
कालस्य सदनं विप्र ते न यांति महाशयाः ५
गंगाद्याः सरितः श्रेष्ठा विष्णु ब्रह्म महेश्वराः
देवैस्तीर्थैः पुष्कराद्यैस्तिष्ठंति तुलसीदले ६
यो युक्तस्तुलसीपत्रैः पापी प्राणान्विमुञ्चति
विष्णोर्निकेतनं याति सत्यमेतन्मयोदितम् ७
तुलसीमृत्तिकालिप्तो युक्तः पापशतैरपि
विमुंचति नरः प्राणान्स याति हरिमन्दिरम् ८
यो नरो धारयेद्विप्र तुलसीकाष्ठचंदनम्
तस्याङ्गं न स्पृशेत्पापं स याति परमं पदम् ९
तुलसीकाष्ठमालां तु कण्ठस्थां वहते तु यः
अप्यशौचोप्यनाचारो भक्त्या याति हरेर्गृहम् १०
धात्रीफलकृतामाला तुलसीकाष्ठसंभवा
दृश्यते यस्य देहे तु स वै भागवतो नरः ११
तुलसीदलजां मालां कण्ठस्थां वहते तु यः
विष्णूच्छिष्टां विशेषेण स नमस्यो दिवौकसाम् १२
यः पुनस्तुलसीमालां कण्ठे कृत्वा जनार्दनम्
पूजयेत्पुण्यमाप्नोति प्रतिपुष्पं गवायुतम् १३
धारयन्ति न ये मालां हैतुकाः पापबुद्धयः
नरकान्न निवर्तंते दग्धाः कोपाग्निना हरेः १४
न जह्यात्तुलसीमालां धात्रीमालां विशेषतः
महापातकसंहर्त्रीं धर्मकामार्थदायिनीम् १५
स्पृशेच्च यानि लोमानि धात्रीमाला कलौ नृणाम्
तावद्वर्षसहस्राणि वसते केशवालये १६
निवेद्य केशवे मालां तुलसीकाष्ठसंभवाम्
वहते यो नरो भक्त्या तस्य वै नास्ति पातकम् १७
तुलसीकाष्ठमालां तु प्रेतराजस्य दूतकाः
दृष्ट्वा नश्यन्ति दूरेण वातोद्धूतं यथा दलम् १८
तुलस्या विपिने धात्र्याश्छायासु यो नरोत्तमः
पिण्डं ददाति पितरो मुक्तिं यान्ति द्विजोत्तम १९
पाणौ मूर्ध्नि गले चैव कर्णयोश्च मुखे द्विज
धात्रीफलं यस्तु धत्ते स विज्ञेयो हरिः स्वयम् २०
धात्रीपत्रैः फलैर्विप्र श्रीहरिं चार्चयेद्द्विज
कोटिजन्मार्जितं पापं पूजया नश्यति सकृत् २१
यज्ञादेवाश्च मुनयस्तीर्थानि कार्तिके द्विज
धात्रीवृक्षं समाश्रित्य तिष्ठन्ति कार्तिके सदा २२
धात्रीपत्रं कार्तिके च द्वादश्यां तुलसीदलम्
चिनोति यो नरो गच्छेन्निरयं यातनामयम् २३
धात्रीछायासु यो विप्र चान्नं भुनक्ति कार्तिके
अन्नसंसर्गजं पापमावर्षं तस्य नश्यति २४
तुलसीवनमध्ये च धात्रीमूले च कार्तिके
कुर्याद्धर्यर्चनं विप्र वैकुण्ठं याति स ध्रुवम् २५
तुलसीमूलदेशेऽपि स्थितं वारि द्विजोत्तम
गृह्णाति मस्तके भक्त्या पापी याति हरेर्गृहम् २६
तुलसीपत्रगलितं यस्तोयं शिरसावहेत्
सर्वतीर्थेषु स स्नातश्चांते याति हरेर्गृहम् २७
पुरा कश्चिद्द्विजश्रेष्ठो द्वापरेऽभून्महामुने
स्नात्वैकदा तुलस्यै स वनं दत्वा गृहं गतः २८
आदित्यो वर्चसा नाम्ना मार्त्तंड इव पुण्यतः
तृषार्तो भक्षकः कश्चिदागतो बहुकल्मषः २९
तुलस्यामूलतस्तोयं पीत्वा चासौ हतांहसः
त्वरयाप्यागतो व्याधो नाम्ना यश्चासिमर्द्दनः ३०
उवाच भुक्तं चान्नं च भुक्त्वा भग्नं गतः किमु
कृत्वा मे पाकभांडस्थं चागतो हिंसकस्य ते ३१
विव्याध तं गतप्राणं नेतुं वै शमनाज्ञया
आगताः किंकराः क्रुद्धाः पाशमुद्गरपाणयः ३२
बद्ध्वा नेतुं मनश्चक्रुरागता विष्णुकिंकराः
तदा छित्त्वा चर्मपाशं स्यंदने तं मनोहरे ३३
तूर्णमारोहयामासुः पप्रच्छुर्विनयान्विताः
तेऽपि पुण्येन भोः संतः केन वै नीयतेऽप्यसौ ३४
ऊचुस्तेऽसौ पुरा राजा पुण्यं बहुतरं कृतम्
अकरोद्धरणं कांचित्सुंदरीं चांगनामयम् ३५
अनेन चांहसा राजा गतो वै शमनक्षयम्
तत्रक्लेशं तु युष्माभिर्दत्तं वै शमनाज्ञया ३६
ताम्रमय्यास्त्रियासार्द्धं क्रीडां सुप्त्वा चकार सः
तप्तायां लोहशय्यायां वैक्लव्यं कर्मणा नृप ३७
तप्तायोभीषणं तप्तं लोहस्तंभं यमाज्ञया
ततः स्थितः समालिंग्य भुक्त्वा दुःखं चिरं नृपः ३८
सिक्तः क्षारांबुधाराभिरन्यैर्वै शमनालये
ततो नरकशेषे च पापयोनौ मुहुर्मुहुः ३९
जन्मासाद्य चिरं दुःखमनुभूतं स्वकर्मणा
तुलसीमूलकं वारि पीत्वा याति हरेर्गृहम् ४०
इदानीं तद्वचः श्रुत्वा गतादूता यथागताः
तेन सार्द्धं विष्णुदूता गता वैकुंठमंदिरम् ४१
माहात्म्यं कथितं ब्रह्मन्तुलस्याः पापनाशनम्
कुर्वंति सेवां ये भक्त्या न जाने किं भवेन्मुने ४२

इति श्रीपाद्मेमहापुराणे ब्रह्मखण्डे सूतशौनकसंवादे तुलस्या माहात्म्यंनाम द्वाविंशोऽध्यायः २२