पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः २३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २२ पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)
अध्यायः २३
[[लेखकः :|]]
अध्यायः २४ →

शौनक उवाच
कथयस्व मुने सूत माहात्म्यं कलुषक्षयम्
शेषपंचदिनस्यापि कार्त्तिकस्यानुकंपया १
सूत उवाच
शृणु शौनक यत्पृष्टं माहात्म्यं पापनाशनम्
वक्ष्याम्यहं वै चोर्जस्य शेषपंचदिनस्य च २
व्रतानां मुनिशार्दूल प्रवरं विष्णुपंचकम्
तस्मिन्यः पूजयेद्भक्त्या श्रीहरिं राधया सह ३
गंधपुष्पैर्धूपदीपैर्वस्त्रैर्नानाविधैः फलैः
स याति विष्णुसदनं सर्वपापविवर्जितः ४
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा यतिः
न प्राप्नोति परं स्थानमकृत्वा विष्णुपंचकम् ५
सर्वपापहरं पुण्यं विख्यातं विष्णुपंचकम्
तत्र स्नानं तु यः कुर्यात्सर्वतीर्थफलं लभेत् ६
श्रीहरेः पुरतो विप्र तुलस्याश्च समीपतः
प्रदीपं सर्पिषा पूर्णं दद्याद्यो भक्तिभावतः ७
नभसि श्रीहरेः प्रीत्यै याति स विष्णुमंदिरम्
पापी याति हरेर्धाम सत्यमेतन्मयोदितम् ८
स्नापयेच्चाच्युतं भक्त्या मधुक्षीरघृतादिभिः
दद्यात्किं नो हरिः प्रीतस्तस्मै साधुजनाय वै ९
नैवेद्यं देवदेवेशं परमान्नं निवेदयेत्
तस्य पुण्यं प्रसंख्यातुं न शक्तो वै चतुर्मुखः १०
अर्चयित्वा हृषीकेशमेकादश्यां समाहितः
निष्प्राप्य गोमयं सम्यक्मंत्रवत्समुपासते ११
गोमूत्रं मंत्रवद्भूयो द्वादश्यां प्राशयेद्व्रती
क्षीरं तथा त्रयोदश्यां चतुर्दश्यां तथा दधि १२
संप्राप्य पापशुद्ध्यर्थं लंघयित्वा चतुर्दिनम्
पंचमे तु दिने स्नात्वा विधिवत्पूज्य केशवम् १३
भोजयेद्ब्राह्मणान्भक्त्या तेभ्यो दद्याच्च दक्षिणाम्
ततो नक्तं समश्नीयात्पंचगव्यं सुमंत्रितम् १४
एवं कर्तुमशक्तो यः फलमूलं च भोजनम्
कुर्याद्धविष्यं वा विप्र यथोक्तविधिना ह वै १५
श्रीहरेः पंचकं विप्र कुर्याद्यस्तुलसीदलैः
पूजयेत्तं स विज्ञेयः स्वयं नारायणः प्रभुः १६
पुरा त्रेतायुगे शूद्रो दस्युवृत्तिपरायणः
नाम्ना दंडकरो नित्यं धर्मनिंदां करोति यः १७
असत्यभाषी मित्रघ्नो वेश्याविभ्रम लोलुपः
ब्रह्मस्वहारी क्रूरश्च परस्त्रीगमने रतः १८
शरणागतहंता च पाखंडजनसंगभाक्
गोमांसाशी सुरापश्च परनिंदाकरः सदा १९
विश्वासघाती ज्ञातीनां वृत्तिच्छेदी द्विजोत्तम
दुष्टं सर्वे समालोक्य तादृशं तद्गृहे द्विजः २०
आगता ज्ञातयः क्रुद्धास्तस्य पापपरायणम्
ज्ञातय ऊचुः
रे रे मूढ दुराचार विनाशं प्रतिनीयते
या प्रतिष्ठार्जिता पूर्वैरस्माकं निर्मलेऽन्वये २१
इति क्रुद्धा द्विजश्रेष्ठ अपकीर्तिभयादपि
पापिनां प्रवरं सर्वे तत्यजुस्तं कुलादरम् २२
ततो गतो महारण्यं विनष्टाखिल वैभवः
कुर्यात्स दस्युभिः सार्द्धं दस्युकर्म निरंतरम् २३
पथि प्रगच्छतां तेषां भयाद्विप्र न खादितुम्
प्राप्तं किंचित्क्षुधार्त्तास्ते गताश्चान्य स्थलं प्रति २४
तत्र प्रविष्टास्ते सर्वे दृष्ट्वा पुण्यजनान्बहून्
धात्रीमूले स्थितान्ब्रह्मन्वैष्णवान्द्विजसत्तमान् २५
सर्वे ते दस्यवो विप्र गता दंडकरोऽपि सः
तेषां परिसरं गत्वा प्रणामं वै चकार ह २६
दंडकर उवाच
क्षुधार्तोऽहं द्विजश्रेष्ठाः प्राणा यास्यंति मे ध्रुवम्
ददध्वं खादितुं किंचिद्युष्माकं शरणं गतः २७
आकर्ण्य वचनं तस्य चोचुस्ते धर्मतत्पराः
सर्वपापहरे त्वं च विख्याते विष्णुपंचके २८
कथमन्नं खादितुं ते वांछा त्वद्य हरेर्दिने
विशेषं ते ब्रूहि संज्ञा काते भवति सांप्रतम् २९
स उवाच मुदा विप्रा नाम्ना दंडकरोप्यहम्
सर्वपापसमायुक्तश्चोद्धारो मे कथं भवेत् ३०
ऊचुस्ते वै व्रतं श्रेष्ठं कुरुष्व विष्णुपंचकम्
विप्राणामाज्ञया विप्र चकार विष्णुपंचकम् ३१
स प्रेत्य च हरेः स्थानमारुह्य स्यंदने वरे
आसाद्य श्रीहरेरूपं तस्थौ जन्मविवर्जितः ३२
य इदं शृणुयाद्भक्त्या चाख्यानं पापनाशनम्
कोटिजन्मार्जितं पापं तस्य नश्यति तत्क्षणात् ३३
 इति श्रीपाद्मेमहापुराणे ब्रह्मखण्डे सूतशौनकसंवादे विष्णुपंचक-
माहात्म्यंनाम त्रयोविंशोऽध्यायः २३