पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः १०४

विकिस्रोतः तः
← अध्यायः १०३ पद्मपुराणम्
अध्यायः १०४
वेदव्यासः
अध्यायः १०५ →

ऋषय ऊचुः -
भूयो वद महाभाग रामचारित्रमद्भुतम् ।
राममाहात्म्यसर्वस्वं भक्तानां प्रीतिदायकम् १।
सूत उवाच-
अश्वमेधं क्रतुवरं कृत्वा दाशरथिर्यथा २।
प्रवृत्तो लोककृत्येषु शास्त्रकृत्येषु कोविदः ।
अयोध्यां गंतुकामेन शंकरेण महात्मना ३।
पार्वत्या सह देवेन उषितः सरयूतटे ।
मुनयस्तं समभ्येत्य शंकरं विश्वरूपिणम् ४।
कश्यपाद्या महात्मानः पप्रच्छुरमितौजसम् ।
स्वागतं ते मुनिश्रेष्ठ सभार्यः कुत आगतः ५।
किमागमनकृत्यं ते कं देशं गंतुमुद्यतः ।
शंकर उवाच-
अहं शंभुरिति ख्यातो विप्रो हिमगिरिस्थितः ६।
द्रष्टुं च राघवं गच्छे मम कार्यं महत्ततः ।
मामाह्वयति राजासौ पुराणश्रवणे रतः ७।
आगच्छंतु भवंतोऽपि राघवः परितुष्यति ।
ततस्ते मुनयः शंभुर्ययू रामदिदृक्षया ८।
तानागतान्वसिष्ठस्तु ज्ञात्वा रामाय चोक्तवान् ।
ततः सत्वरमुत्थाय निर्ययौ स पुरोहितः ९।
अर्घ्यपाद्यादिकैस्सर्वान्पूजयामास तानृषीन् ।
गृहराजं ततः सर्वान्प्रावेशयदरिंदमः १०।
प्रत्येकमासनं दत्वा स्वागतोक्त्यासनस्थितान् ।
क्रमेण रघुशार्दूलः पूजयामास तानृषीन् ११।
वाचा मधुरया प्रीणन्निदमाहासनस्थितान् ।
श्रीराम उवाच-
अद्य मे सफलं जन्म प्राप्तमद्य तपः फलम् १२।
अद्याभ्यासस्य विद्यानां फलकालोऽयमागतः ।
अद्य मे पितरस्तुष्टा राज्यं च सफलं मम १३।
अद्य मे सफलं वृत्तमद्य मे सफलं श्रुतम् ।
एवं वदंतं राजानं ब्राह्मणाः कश्यपादयः १४।
ऊचुः प्रियतरं वाक्यं रामं राजीवलोचनम् ।
ऋषय ऊचुः
अयं शंभुर्द्विजः प्राप्तः सर्वशास्त्रविशारदः १५।
वेदवेदांगतत्त्वज्ञः सर्वभूतहिते रतः ।
कैलासवासी सततं तपसे कृतनिश्चयः १६।
ब्रह्मणा ब्रह्मवर्चस्के तुल्यो ब्रह्मविदां वरः ।
हरिणा ब्रह्मवात्सल्ये प्रसादे शंकरोपमः १७।
एवंविधो महातेजाः शंभुर्ब्राह्मणपुंगवः ।
अष्टादशपुराणज्ञो मीमांसा न्यायकोविदः १८।
त्वद्भाग्यगौरवादेव प्राप्तोऽयं मुनिसत्तमः ।
त्वयाहूतो मुनिवरः कैलासादागतः प्रभो १९।
अतः पृच्छ महाभाग पुराणाख्यानमुत्तमम् ।
श्रोतुकामा वयं प्राप्तास्त्वामद्य रघुनंदन २०।
अंतं गतस्य वेदानां सर्वशास्त्रार्थवेदिनः ।
पुंसोऽश्रुतपुराणस्य न सम्यग्याति दर्शनम् २१।
सूत उवाच-
एवमुक्तो रघुश्रेष्ठो मुनिभिस्तत्त्वदर्शिभिः ।
प्रहर्षमतुलं लेभे पुराणश्रवणोत्सुकः २२।
श्रीराम उवाच-
लिगार्चनप्रकारं च लिंगमाहात्म्यमेव च ।
महेशनाममाहात्म्यं पूजामाहात्म्यमेव च २३।
नमस्कारस्य माहात्म्यं दृष्टिमाहात्म्यमेव च ।
जलदानस्य माहात्म्यं धूपदानस्य सत्तम २४।
दीपगंधादिदानस्य पुष्पमाहात्म्यमेव च ।
नानाख्यानेतिहासानां कथां पापप्रणाशिनीम् २५।
धर्मार्थकाममोक्षांश्च तदुपायांश्च सुव्रत ।
तत्सर्वं श्रोतुमिच्छामि त्वत्तो मुनिवरोत्तम २६।
शंभुरुवाच-
रामराम महाबाहो पुण्यवानसि राघव ।
राज्यासक्तस्य ते जाता पुराणश्रवणे रतिः २७।
स्यान्महत्सेवया राम पुण्यतीर्थनिषेवणात् ।
सा जिह्वा या शिवं गायेत्तच्चित्तं यत्तदर्प्पितम् २८।
तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ ।
सुजन्मदेहमत्यर्थं तदेवाशेषजन्मसु २९।
यदेवोत्पुलकोभासि हर नामानुकीर्तनात् ।
कृतार्थोऽसि महाराज तत्प्रश्नानुगता मतिः ३०।
अनंतरं समाजग्मुर्जांघिकाः सत्वरश्रमाः ।
तत्करात्पत्रिकां गृह्य पपाठ रघुसत्तमः ३१।
मनसाऽचिंतयद्रामः कथमेतदभूदिति ।
रामं शंभुस्तदा प्राह देव्या ब्राह्मणवेषवान् ३२।
किं चिंतयसि काकुत्स्थ मुनिष्वग्रे वसत्स्वपि ।
तद्वाक्यं राघवः श्रुत्वा पप्रच्छ मुनिपुंगवान् ३३।
श्रीरामउवाच-
विभीषणः कथमसौ बद्धः शृंखलया नृभिः ।
मत्स्थापितं शिवं लिगं दृष्ट्वा रामेश्वरं त्वहो ३४।
द्राविडैः कुटिलैर्दुष्टैरात्मना तद्विचार्यताम् ।
विचार्य मुनिवर्यास्ते नेशास्तज्ज्ञातुमल्पतः ३५।
न जानीम इति प्राहू रामं रामस्तदाब्रवीत् ।
पुराणं वीक्ष्य विधिना तत्सर्वं ब्रूत सत्तमाः ३६।
भवदज्ञानहेतुश्च विचार्यस्तदनंतरम् ।
किं किं पुराणं प्रेक्ष्यं स्याद्वर्जनीयं तथैव किम् ३७।
प्रशस्तः कीदृशः श्लोकस्तदन्यः कीदृशो भवेत् ।
कीदृशेषु च कार्येषु कीदृशः पूजकस्तथा ३८।
पूजा च कीदृशैर्भक्तैः कार्या निर्णयदर्शने ।
इति रामस्य वचनं श्रुत्वा ते द्विजसत्तमाः ३९।
प्रत्यूचुस्तं रघुश्रेष्ठं चिंताव्याकुलमानसम् ।
न वक्तारो वरं राम वीक्षतां तु पुराणवित् ४०।
तच्छ्रुत्वा राघवः शंभुं पप्रच्छ विनयान्वितः ।
सोपि तद्वाक्यमाकर्ण्य प्रत्युवाच महामतिः ४१।
शंभुरुवाच-
पुराणजीवी पूजार्हः स्वशाखाध्ययनः शुचिः ।
मीमांसातत्त्वविज्ञानः श्रोत्रियोऽनृतदूषकः ४२।
देवेषु च समस्तेषु समदृष्टिः शिवे रतः ।
शतरुद्रियजापी च साग्निकश्चातिवाचकः ४३।
यजुर्वेदी विशेषेण पूजयेत्पुस्तकं सुधीः ।
श्रीतालपत्रलिखितं देवलिप्यन्वितं शुभम् ४४।
बंधाद्यतिप्रपंचं यद्युगपत्प्रणवाक्षरम् ।
प्रागूर्द्ध्वंरेखयोः प्रांते प्रणवस्याग्रयोजिका ४५।
रेखा भवेदेवमेका अकारस्तस्य पार्श्वतः ।
शिरोभागमुपक्रम्य सकोणाधः प्रलंबिनी ४६।
आकारः स हि विज्ञेयः पट्टिकादक्षरेखया ।
वामे षड्वक्रबिंदूद्वा विकार इति कीर्तितः ४७।
तस्य वामशिरोरेखा लंबिन्या ई उदाहृतः ।
सर्वाक्षरे शिरोरेखा अवक्रा प्रणवं विना ४८।
तस्यां तु लंबरेखान्या तदंते च लवित्रवत् ।
उकारः स हि विख्यातो लवित्रद्वयतस्तदू ४९।
एवमन्यानि सर्वाणि अक्षराण्याह भारती ।
लिप्यानयैव लिखितं पुराणं तु प्रशस्यस्ते ५०।
ब्राह्मं पाद्मं वैष्णवं च मार्तंडं नारदेरितम् ।
मार्कंडेयमथाग्नेयं कौर्मं वामनमेव च ५१।
गारुडं लैंगमाख्यातं स्कांदं मात्स्यं नृसिंहकम् ।
तथैव गदितं राम पुराणं कापिलं तथा ५२।
वाराहं ब्रह्मवैवर्तं शकुनेषु प्रशस्यते ।
शैवं भागवतं दौर्गं भविष्योत्तरमेव च ५३।
भविष्यं चोपसंज्ञानि त्वन्यानि च विवर्जयेत् ।
विमुच्य पुस्तकं रत्नपीठे निक्षिप्य संस्कृतम् ५४।
धौतवस्त्रधरः स्नात्वा शुचिरक्रोधनोऽज्वरः ।
आदावात्मानमभ्यर्च्य कृत्वा संकल्पमेव च ५५।
अंकुशं चाक्षसूत्रं च पाशं पुस्तकमेव च ।
धारयंतीं सितां ध्यायेत्प्रसन्नास्यां सरस्वतीम् ५६।
गोक्षीरसदृशाकारं त्रिनेत्रं वृषवाहनम् ।
सहासवदनं शांतं शुक्लांबरधरं शिवम् ५७।
हरिणं चाभयं चोर्द्ध्वबाहुयुग्मं किरीटिनम् ।
व्याख्यामुद्रा चं दक्षेधो वामहस्ते वरप्रदम् ५८।
नानारत्नविभूषाढ्यं गिरिजार्द्धांबुजासनम् ।
बहुभिर्मुनिमुख्यैस्तु ध्यायमान पदांबुजम् ५९।
मूर्तिमद्भिस्तथा वेदैः स्तूयमानं पुराणकैः ।
अन्यैः समस्तलोकैश्च संसेवितपदांबुजम् ६० ।
ध्यात्वैवं पूजकः सम्यगादौ पूजां समारभेत् ।
आपो वा इदमित्येतत्कलशस्याभिमंत्रणम् ६१।
तज्जलं च गृहीत्वा च पात्रस्थमभिमंत्रयेत् ।
तत्सद्ब्रह्मेति मंत्रेण प्रशस्य प्रणवेन तु ६२।
आत्मानं सर्वपात्राणि तत आवाहयेदिति ।
यद्वागिति तृचेनैव भारती षोडशार्चनम् ६३।
पुरुषसूक्तेन वा कुर्याद्गायत्र्या वा समर्चयेत् ।
ॐ नमो भगवते अमुक पुराणेति पुराणमर्चयेत् ६४।
[१]कांडादिति हि मंत्रेण दूर्वामानीय पूजयेत् ।
ॐ नमो भगवत्यै दूर्वायै इति ६५।
सलोकपाल पूजा स्यादथ कन्या समर्चनम् ।
वत्सरात्पंचकादूर्द्ध्वं दशवर्षादधः शुभाः ६६।
अनुत्पन्नऋतुर्वापि तां प्रयत्नेन पूजयेत् ।
गंधपुष्पाक्षतैर्धूपैर्दीपतांबूलभूषणैः ६७।
पाठयेदप्यमुं मंत्रं पूजकः कन्यकामिमाम् ६८।
सत्यं ब्रूहि प्रियं ब्रूहि भगवति सरस्वति नमस्ते नमस्त इति ६९।
गायत्र्यानुक्रमार्थात्तु दूर्वायुग्मं तु कारयेत् ।
सन्निधौ पुस्तकस्याधः सहस्रपरमेत्यृचा ७०।
दूर्वायुग्मत्रयं दद्यात्तस्या हस्ते विचक्षणः ।
सा प्रक्षिपेत्पुस्तसंधौ शलाकात्रयमन्वनु ७१।
विसृज्यतां पुनर्दद्याच्छिवाभ्यां नम इत्यथ ।
पत्रयोर्मध्यमः श्लोकः कार्यसिद्धेर्हि सूचकः ७२।
पूर्वपत्रे समाप्तिः स्याच्छ्लोकस्य यदि राघव ।
परपत्रे पठेच्छ्लोकं विविच्यार्थमुदीरयेत् ७३।
शनैःशनैः पठेत्प्राज्ञो व्याख्यासेच्च शनैःशनैः ।
त्वरेह न हि कर्तव्या कुप्यति त्वरया तु गीः ७४।
घटिकायास्तु पादः स्यादत्वरास्यात्ततोधिका ।
त्वरयेन्न च वक्तारं ज्ञातव्यांशमनुद्विजम् ७५।
विविच्य पाठं श्लोकस्य निश्चित्यार्थं च मानसे ।
प्रतीपं तन्न वक्तव्यं विविच्य रघुनंदन ७६।
यदि युक्तमयुक्तं वा श्लोकमन्यं पठेदसौ ।
पुस्तकस्थं च हित्वैव पूजकः स द्विजो यदि ७७।
तत्तथैव हि विज्ञेयं विसंवादो न शस्यते ।
दैवागतो हि स श्लोको दैवं हि बलवत्तरम् ७८।
उपश्रुतिषु यद्वच्च नापराधो द्विजस्य तु ।
विस्मयो न च कर्तव्यो दैवस्य कुटिला गतिः ७९।
यत्तत्पदविपर्यासे पत्रे चोपरिवारिणि ।
तमादेशं तिरस्कृत्य द्वितीयं तु पठेदतः ८०।
ततस्तृतीयं पाठ्यं स्यात्ततः कार्यं विवेचनम् ।
अविसर्गांतपूर्वास्ते पवर्गेतरपंचमाः ८१।
स्तुतिलिड्वर्जितः श्लोकः शकुनेषु प्रशस्यते ।
अध्यायादिः समाप्तिश्च वृथा पत्रं वृथा लिपिः ८२।
उक्तानुवचनं चैव द्व्युपस्तुतमथैव च ।
दग्धपत्रं नष्टलिपिः संदिग्धाक्षरमेव च ८३।
एतानि शकुने नित्यं वर्जनीयानि पंडितैः ।
प्रश्नो हि द्विविधो ज्ञेयो दीप्तशांत प्रभेदतः ८४।
शांतं च द्विविधं ज्ञेयमुत्पत्तिस्थितिवृद्धितः ।
तत्र शांतं प्रशस्तं स्याल्लक्षितं पूर्वलक्षणैः ८५।
कार्यभेदास्तु वर्ण्यंते केचिन्मर्त्योपयोगिनः ।
कस्यचित्कार्यमादाय कश्चित्प्रष्टा भवत्यपि ८६।
स करोति तदा प्रश्नं समेत्य स्मरतेऽत्र किम् ।
स पुनर्धार्य पत्रं तत्तस्मिन्पत्रं प्रशस्यते ८७।
अथवा तत्क्षमोपेतं वैराग्यं परमेव च ।
यतः कुतश्चिद्दृष्टस्तु स्तुतिपादकमेव च ८८।
परिहृत्य परं चापि तस्मिन्नर्थे शुभावहम् ।
मृतो गृह्णाति वागर्थमिति प्रश्नोऽशुभप्रदः ८९।
विवादे विजयप्रश्ने जयद्योतकमिष्यते ।
सृष्टिरप्यत्र शस्ता स्यात्क्रूरायां क्लेशतो जयः ९०।
प्रशांतायामुपायैस्तु मिश्रायां विड्वरो भवेत् ।
पुरादिवर्णनं यत्तु मध्यमं यदि चोत्तमम् ९१।
कलिसंभावनायास्तु शृंगारस्योपवर्णने ।
राज्यनिर्वाहचिंतायां राज्यलिंगंशुभावहम् ९२।
यस्यापि यादृशं योग्यं विचार्य तादृशं बुधैः ।
स्तुतिवैराग्ययोः कार्यं विलयः परिकीर्तितः ९३।
कार्याल्पसिद्धिः स्खलितेन च निर्वाहमृच्छति ।
तस्यान्यार्थस्यान्यभावो राम शांतिविचारणे ९४।
विसर्गांतश्च पूर्वार्द्ध विपर्यासो भविष्यतः ।
संकल्पितान्यथाभावो ह्यध्यायस्य समापने ९५।
कांडादेस्तु समाप्तौ तु स्यात्तत्कार्यविनाशनम् ।
तस्मादेतादृशे दोषे शकुनस्य विपर्ययः ९६।
क्षुते पुस्तकपाते च त्वाहते मस्तकादिषु ।
वक्ता वैमाननं याति ततः शकुननाशनम् ९७।
तस्मादेतादृशे दोषे शकुनं परिवर्जयेत् ।
उपमायां भवेद्राम कार्याभासो न वस्तुतः ९८।
संतानं भोन्यत्र चोक्ता सृष्टिर्मध्यफलप्रदा ।
स्तुतिः प्रशस्ता कुत्रापि गुणवत्कार्यनिर्णये ९९।
विवाहे चौषधे दाने व्यवहारे कृषौ तथा ।
यथार्था च स्तुती राम निर्वाहेऽपि न दूषणम् १००।

  1. काण्डात्-काण्डात् प्ररोहन्ती परुषः-परुषस् परि ।
    एवा नो दूर्वे प्र तनु सहस्रेण शतेन च ॥ - वासं १३.२०