पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०१७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०१६ पद्मपुराणम्
अध्यायः ०१७
वेदव्यासः
अध्यायः ०१८ →

शेष उवाच
शत्रुघ्नश्च्यवनस्याथ दृष्ट्वाऽचिंत्यं तपोबलम्
प्रशशंस तपो ब्राह्मं सर्वलोकैकवंदितम् १
अहो पश्यत योगस्य सिद्धिं ब्राह्मणसत्तमे
यः क्षणादेव दुष्प्रापं तद्विमानमचीकरत् २
क्व भोगसिद्धिर्महती मुनीनाममलात्मनाम्
क्व तपोबलहीनानां भोगेच्छा मनुजात्मनाम् ३
इति स्वगतमाशंसञ्छत्रुघ्नश्च्यवनाश्रमे
क्षणं स्थित्वा जलं पीत्वा सुखसंभोगमाप्तवान् ४
हयस्तस्याः पयोष्ण्याख्या नद्याः पुण्यजलात्मनः
पयः पीत्वा ययौ मार्गे वायुवेगगतिर्महान् ५
योधास्तन्निर्गमं दृष्ट्वा पृष्ठतोऽनुययुस्तदा
हस्तिभिः पत्तिभिः केचिद्रथैः केचन वाजिभिः ६
शत्रुघ्नोऽमात्यवर्येण सुमत्याख्येन संयुतः
पृष्ठतोऽनुजगामाशु रथेन हयशोभिना ७
गच्छन्वाजीपुरं प्राप्तो विमलाख्यस्य भूपतेः
रत्नातटाख्यं च जनैर्हृष्टपुष्टैः समाकुलम् ८
स सेवकादुपश्रुत्य रघुनाथ हयोत्तमम्
पुरोंतिके हि संप्राप्तं सर्वयोधसमन्वितम् ९
तदा गजानां सप्तत्या चंद्रवर्णसमानया
अश्वानामयुतैः सार्धं रथानां कांचनत्विषाम् १०
सहस्रेण च संयुक्तः शत्रुघ्नं प्रति जग्मिवान्
शत्रुघ्नं स नमस्कृत्य सर्वान्प्राप्तान्महारथान् ११
वसुकोशं धनं सर्वं राज्यं तस्मै निवेद्य च
किं करोमीति राजा तं जगाद पुरतः स्थितः १२
राजापि तं स्वीयपदे प्रणम्रं
दोर्भ्यां दृढं संपरिषस्वजे महान्
जगाम साकं तनये स्वराज्यं
निक्षिप्य सर्वं बहुधन्विभिर्वृतः १३
रामचंद्राभिधां श्रुत्वा सर्वश्रुतिमनोहराम्
सर्वे प्रणम्य तं वाहं ददुर्वसुमहाधनम् १४
राजानं पूजयित्वा तु शत्रुघ्नः परया मुदा
सेनया सहितोऽगच्छद्वाजिनः पृष्ठतस्तदा १५
एवं स गच्छंस्तन्मार्गे पर्वताग्र्यं ददर्श ह
स्फाटिकैः कानकै रौप्यै राजितं प्रस्थराजिभिः १६
जलनिर्झरसंह्रादं नानाधातुकभूतलम्
गैरिकादिकसद्धातु लाक्षारंगविराजितम् १७
यत्र सिद्धांगनाः सिद्धैः संक्रीडंत्यकुतोभयाः
गंधर्वाप्सरसो नागा यत्र क्रीडंति लीलया १८
गंगातरंगसंस्पर्श शीतवायुनिषेवितम्
वीणारणद्धंसशुकक्वणसुंदरशोभितम् १९
पर्वतं वीक्ष्य शत्रुघ्न उवाच सुमतिं त्विदम्
तद्दर्शनसमुद्भूत विस्मयाविष्टमानसः २०
कोऽयं महागिरिवरो विस्मापयति मे मनः
महारजतसत्प्रस्थो मार्गे राजति मेऽद्भुतः २१
अत्र किं देवतावासो देवानां क्रीडनस्थलम्
यदेतन्मनसः क्षोभं करोति श्रीसमुच्चयैः २२
इति वाक्यं समाकर्ण्य जगाद सुमतिस्तदा
वक्ष्यमाणगुणागार रामचंद्र पदाब्जधीः २३
नीलोऽयं पर्वतो राजन्पुरतो भाति भूमिप
मनोहरैर्महाशृङ्गैः स्फाटिकाग्रैः समंततः २४
एनं पश्यंति नो पापाः परदाररता नराः
विष्णोर्गुणगणान्ये वै न मन्यंते नराधमाः २५
श्रुतिस्मृतिसमुत्थं ये धर्मं सद्भिः सुसाधितम्
न मन्यंते स्वबुद्धिस्थ हेतुवादविचारणाः २६
नीलीविक्रयकर्तारो लाक्षाविक्रयकारकाः
यो ब्राह्मणो घृतादीनि विक्रीणाति सुरापकः २७
कन्यां रूपेण संपन्नां न दद्यात्कुलशीलिने
विक्रीणाति द्रव्यलोभात्पिता पापेन मोहितः २८
पत्नीं दूषयते यस्तु कुलशीलवतीं नरः
स्वयमेवात्ति मधुरं बंधुभ्यो न ददाति यः २९
भोजने ब्राह्मणार्थे च पाकभेदं करोति यः
कृसरं पायसं वापि नार्थिनं दापयेत्कुधीः ३०
अतिथीनवमन्यंते सूर्यतापादितापितान्
अंतरिक्षभुजो ये च ये च विश्वासघातकाः ३१
न पश्यंति महाराज रघुनाथ पराङ्मुखाः
असौ पुण्यो गिरिवरः पुरुषोत्तम शोभितः ३२
पवित्रयति सर्वान्नो दर्शनेन मनोहरः
अत्र तिष्ठति देवानां मुकुटैरर्चितांघ्रिकः ३३
पुण्यवद्भिर्दर्शनार्हः पुण्यदः पुरुषोत्तमः
श्रुतयो नेतिनेतीति ब्रुवाणा न विदंति यम् ३४
यत्पादरज इंद्रादिदेवैर्मृग्यं सुदुर्ल्लभम्
वेदांतादिभिरन्यूनैर्वाक्यैर्विदंति यं बुधाः ३५
सोऽत्र श्रीमान्नीलशैले वसते पुरुषोत्तमः
आरुह्य तं नमस्कृत्य संपूज्य सुकृतादिना ३६
नैवेद्यं भक्षयित्वा वै भूप भूयाच्चतुर्भुजः
अत्राप्युदाहरंतीममितिहासं पुरातनम् ३७
तं शृणुष्व महाराज सर्वाश्चर्यसमन्वितम्
रत्नग्रीवस्य नृपतेर्यद्वृत्तं सकुटुंबिनः ३८
चतुर्भुजादिकं प्राप्तं देवदानवदुर्लभम्
आसीत्कांची महाराज पुरी लोकेषु विश्रुता ३९
महाजनपरीवारसमृद्धबलवाहना
यस्यां वसंति विप्राग्र्याः षट्कर्मनिरता भृशम् ४०
सर्वभूतहिते युक्ता रामभक्तिषु लालसाः
क्षत्रिया रणकर्तारः संग्रामेऽप्यपलायिनः ४१
परदार परद्रव्य परद्रोहपराङ्मुखाः
वैश्याः कुसीदकृष्यादिवाणिज्यशुभवृत्तयः ४२
कुर्वन्ति रघुनाथस्य पदाम्भोजे रतिं सदा
शूद्रा ब्राह्मणसेवाभिर्गतरात्रिदिनान्तराः ४३
कुर्वंति कथनं रामरामेति रसनाग्रतः
प्राकृताः केऽपि नो पापं कुर्वंति मनसात्र वै ४४
दानं दया दमः सत्यं तत्र तिष्ठंति नित्यशः
वदते न पराबाधं वाक्यं कोऽपि नरोऽनघः ४५
न पारक्ये धने लोभं कुर्वंति न हि पातकम्
एवं प्रजा महाराज रत्नग्रीवेण पाल्यते ४६
षष्ठांशं तत्र गृह्णाति नान्यं लोभविवर्जितः
एवं पालयमानस्य प्रजाधर्मेण भूपतेः ४७
गतानि बहुवर्षाणि सर्वभोगविलासिनः
विशालाक्षीं महाराज एकदा ह्यूचिवानिदम् ४८
पतिव्रतां धर्मपत्नीं पतिव्रतपरायणाम्
पुत्रा जाता विशालाक्षि प्रजारक्षा धुरंधराः ४९
परीवारो महान्मह्यं वर्तते विगतज्वरः
हस्तिनो मम शैलाभा वाजिनः पवनोपमाः ५०
रथाश्च सुहयैर्युक्ता वर्तंते मम नित्यशः
महाविष्णुप्रसादेन किंचिन्न्यूनं ममास्ति न ५१
एवं मनोरथस्त्वेकस्तिष्ठते मानसे मम
परं तीर्थं मया नाद्य कृतं परमशोभने ५२
गर्भवासविरामाय क्षमं गोविंदशोभितम्
वृद्धो जातोऽस्म्यहं तावद्वलीपलितदेहवान् ५३
करिष्यामि मनोहारि तीर्थसेवनमादृतः
यो नरो जन्मपर्यंतं स्वोदरस्य प्रपूरकः ५४
न करोति हरेः पूजां स नरो गोवृषः स्मृतः
तस्माद्गच्छामि भो भद्रे तीर्थयात्रां प्रति प्रिये ५५
सकुटुंबः सुते न्यस्य धुरं राज्यस्य निर्भृताम्
इति व्यवस्य संध्यायां हरिं ध्यायन्निशांतरे ५६
अद्राक्षीत्स्वप्नमप्येकं ब्राह्मणं तापसं वरम्
प्रातरुत्थाय राजासौ कृत्वा संध्यादिकाः क्रियाः ५७
सभां मंत्रिजनैः सार्द्धं सुखमासेदिवान्महान्
तावद्विप्रं ददर्शाथ तापसं कृशदेहिनम् ५८
जटावल्कलकौपीनधारिणं दंडपाणिनम्
अनेकतीर्थसेवाभिः कृतपुण्यकलेवरम् ५९
राजा तं वीक्ष्य शिरसा प्रणनाम महाभुजः
अर्घ्यपाद्यादिकं चक्रे प्रहृष्टात्मा महीपतिः ६०
सुखोपविष्टं विश्रांतं पप्रच्छ विदितं द्विजम्
स्वामिंस्त्वद्दर्शनान्मेऽद्य गतं देहस्य पातकम् ६१
महांतः कृपणान्पातुं यांति तद्गेहमादरात्
तस्मात्कथय भो विप्र वृद्धस्य मम संप्रति ६२
को देवो गर्भनाशाय किं तीर्थं च क्षमं भवेत्
यूयं सर्वगताः श्रेष्ठाः समाधिध्यानतत्पराः ६३
सर्वतीर्थावगाहेन कृतपुण्यात्मनोऽमलाः
यथावच्छृण्वते मह्यं श्रद्दधानाय विस्तरात् ६४
कथयस्व प्रसादेन सर्वतीर्थविचक्षण
ब्राह्मण उवाच
शृणु राजेंद्र वक्ष्यामि यत्पृष्टं तीर्थसेवनम् ६५
कस्य देवस्य कृपया गर्भनिर्वारणं भवेत्
सेव्यः श्रीरामचंद्रोऽसौ संसारज्वरनाशकः ६६
पूज्यः स एव भगवान्पुरुषोत्तमसंज्ञकः
नाना पुर्यो मया दृष्टाः सर्वपापक्षयंकराः ६७
अयोध्या सरयूस्तापी तथा द्वारं हरेः परम्
अवंती विमला कांची रेवा सागरगामिनी ६८
गोकर्णं हाटकाख्यं च हत्याकोटिविनाशनम्
मल्लिकाख्यो महाशैलो मोक्षदः पश्यतां नृणाम् ६९
यत्रांगेषु नृणां तोयं श्यामं वा निर्मलं भवेत्
पातकस्यापहारीदं मया दृष्टं तु तीर्थकम् ७०
मया द्वारवती दृष्टा सुरासुर निषेविता
गोमती यत्र वहति साक्षाद्ब्रह्मजला शुभा ७१
यत्र स्वापो लयः प्रोक्तो मृतिर्मोक्ष इति श्रुतिः
यस्यां संवसतां नॄणां न कलि प्रभवेत्क्वचित् ७२
चक्रांका यत्र पाषाणा मानवा अपि चक्रिणः
पशवः कीटपक्ष्याद्याः सर्वे चक्रशरीरिणः ७३
त्रिविक्रमो वसेद्यस्यां सर्वलोकैकपालकः
सा पुरी तु महापुण्यैर्मया दृग्गोचरीकृता ७४
कुरुक्षेत्रं मया दृष्टं सर्वहत्यापनोदनम्
स्यमंतपंचकं यत्र महापातकनाशनम् ७५
वाराणसी मया दृष्टा विश्वनाथकृतालया
यत्रोपदिशते मंत्रं तारकं ब्रह्मसंज्ञितम् ७६
यस्यां मृताः कीटपतंगभृंगाः
पश्वादयो वा सुरयोनयो वा
स्वकर्मसंभोगसुखं विहाय
गच्छंति कैलासमतीतदुःखाः ७७
मणिकर्णिर्यत्र तीर्थं यस्यामुत्तरवाहिनी
करोति संसृतेर्बंधच्छेदं पापकृतामपि ७८
कपर्दिनः कुंडलिनः सर्पभूषाधरावराः
गजचर्मपरीधाना वसंति गतदुःखकाः ७९
कालभैरवनामात्र करोति यमशासनम्
न करोति नृणां वार्तां यमो दंडधरः प्रभुः ८०
एतादृशी मया दृष्टा काशी विश्वेश्वरांकिता
अनेकान्यपि तीर्थानि मया दृष्टानि भूमिप ८१
परमेकं महच्चित्रं यद्दृष्टं नीलपर्वते
पुरुषोत्तमसान्निध्ये तन्न क्वाप्यक्षिगोचरम् ८२

इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे ब्राह्मणसमागमोनामसप्तदशोऽध्यायः १७