पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः १४
← अध्यायः १३ | पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः) अध्यायः १४ [[लेखकः :|]] |
अध्यायः १५ → |
शौनक उवाच।
कथयस्व महाप्राज्ञ ब्राह्मणस्य कृपार्णव ।
माहात्म्यं सर्ववर्णानां श्रेष्ठस्य कृपया च मे १।
सूत उवाच।
ब्राह्मणः सर्ववर्णानां गुरुरेव द्विजोत्तम ।
सर्वामराश्रयो ज्ञेयः साक्षान्नारायणः प्रभुः २।
कुर्यात्प्रणामं यो विप्रं हरिबुद्ध्या तु भूसुरम् ।
भक्त्या तस्य द्विजश्रेष्ठ वर्द्धते संपदादिकम् ३।
न नमेद्ब्राह्मणं दृष्ट्वा हेलयापि च गर्वितः ।
छेदनं तु तस्य शिरः कर्तुमिच्छेत्सदा हरिः ४।
कृतापराधं विप्रं ये द्विषंति पापबुद्धयः ।
हरिं द्विषंति ते ज्ञेया निरयं यांति दारुणम् ५।
यः कर्तुं प्रार्थनां विप्रं पश्येत्क्रोधेन चागतम् ।
कृतांतश्चक्षुषोस्तस्य तप्तसूचीं ददाति वै ६।
कुरुते भूसुरं मूढो भर्त्सनं यो नराधमः ।
यमदूता मुखे तस्य तप्तलोहं ददंति च ७।
येषां निकेतने भुंक्ते क्ष्मासुरो वै तपोधनः ।
सुपर्वाणैः स्वयं कृष्णो भुंक्ते तेषां निकेतने ८।
नश्यंति सर्वपापानि द्विजहत्यादिकानि च ।
कणमात्रं भजेद्यस्तु विप्रांघ्रिसलिलं नरः ९।
यो नरश्चरणौधौतं कुर्याद्धस्तेन भक्तितः ।
द्विजातेर्वच्मि सत्यं ते स मुक्तः सर्वपातकैः १०।
पुत्रहीना च या नारी मृतवत्सा च यांगना ।
सपुत्रा जीववत्सा सा द्विजपद्मांघ्रिसेवनात् ११।
ब्रह्मांडे यानि तीर्थानि तानि तीर्थानि सागरे ।
उदधौ यानि तीर्थानि तिष्ठंति द्विजपादयोः ।
द्विजांघ्रिसलिलैर्नित्यं सेचितं यस्य मस्तकम् १२।
स स्नातः सर्वतीर्थेषु स मुक्तः सर्वपातकैः ।
शृणु शौनक वक्ष्यामि माहात्म्यं पापनाशनम् १३।
विप्रपादोदकस्याहमितिहासं तपोधन ।
आसीत्पुरा द्विजश्रेष्ठ वैश्यवृत्तिपरायणः १४।
शूद्रो भीमो द्वापरे च ब्रह्महत्यासहस्रकृत् ।
निष्ठुरः सर्वदा तुष्टः समहान्वैश्यया पुनः १५।
शूद्राचारपरिभ्रष्टो भीमोऽसौ गुरुतल्पगः ।
प्रत्येकं वच्मि किं तस्य दस्योः संख्या न विद्यते १६।
पापानां मुनिशार्दूल भीमस्य दुष्टचेतसः ।
एकदा स गतः कश्चिद्ब्राह्मणस्य निवेशनम् १७।
गत्वा तं तस्य गेहात्तु द्रव्यं नेतुं मनो दधे ।
तत्रोवास ब्राह्मणस्य बहिर्द्वारसमीपतः १८।
दैन्ययुक्तं वचः प्राह क्ष्मासुरं स तपोधनम् ।
भो स्वामिन्शृणु मे वाक्यं दयालुरिव मन्यते १९।
क्षुधार्तोऽहं देहि चान्नं प्राणा यास्यंति मे द्रुतम् २०।
ब्राह्मण उवाच-
क्षुधार्त्त शृणु मे कश्चिद्वाक्यं कर्तुं न विद्यते ।
पाकं मे तंडुलानि त्वं नीत्वा भुंक्ष्व यथासुखम् २१।
नास्ति मे जनको माता नास्ति सूनुः सहोदरः ।
नास्ति जाया मातृबंधुर्मृताः सर्वे विहाय माम् २२।
तिष्ठाम्येको गृहेऽकर्मा भाग्यहीनोतिथे हरिः ।
एको मे वसतौ चास्ति न जाने तद्विना किल २३।
भीम उवाच।मम कश्चिद्द्विजश्रेष्ठ नास्ति सेवां तवापि च ।
शूद्रोऽहं निलये जात्या कृत्वा स्थास्यामि ते सदा २४।
सूत उवाच।इति तस्य वचः श्रुत्वा सानंदः क्ष्मासुरस्तदा ।
पाकं विधाय तूर्णं स ददावन्नं तपोधन २५।
सोऽपि हर्षसमायुक्तस्तस्थौ तत्र द्विजालये ।
सेवां कुर्वन्स्नेहयुक्तां भूसुरस्य मनोहराम् २६।
अद्य श्वो वा हनिष्यामि द्रव्यमस्य ममापि च ।
नेतुं यदा करिष्यामि नेष्यामि नात्र संशयः २७।
परामृश्य च हृद्यंतः कृत्वा तस्य क्रियां वदेत् ।
पादधौतादिकं चासौ शिरसा गतपातकः २८।
आचम्यांघ्रिजलं दध्रेच्छद्मना प्रतिदिनं द्विजः ।
एकदा हारकः कश्चिद्द्रव्यं नेतुं समागतः २९।
उत्पाट्य रात्रावररं गतोऽसौ तद्गृहांतरम् ।
दृष्ट्वा भीमं प्रहारार्थं दंडहस्तः समागतः ३०।
हारको मस्तकं तस्य छित्त्वा तूर्णं पलायितः ।
अथ तस्य भटा विष्णोः शंखचक्रगदाधराः ३१।
समायातास्तथा नेतुं भीमं तं वीतकिल्बिषम् ।
स्यंदनं चागतं दिव्यं राजहंसयुतं द्विज ३२।
तत्रारूढो ययौ विष्णोर्भवनं दुर्लभं किल ।
माहात्म्यं भूमिदेवस्य मया ते तत्प्रकीर्तितम् ।
शृणुयाद्यो नरो भक्त्या तस्य पातकनाशनम् ३३।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे ब्राह्मणमाहात्म्यंनाम चतुर्दशोऽध्यायः १४।