पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः १०
← अध्यायः ०९ | पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः) अध्यायः १० [[लेखकः :|]] |
अध्यायः ११ → |
सूत उवाच-
ऐरावतस्ततो जज्ञे तथैवोच्चैःश्रवा हयः ।
धन्वंतरिः पारिजातः सुरभिश्चाप्सरोदयः १।
ततः प्रभातसमये द्वादश्यामुदिते रवौ ।
उत्पन्ना श्रीर्महालक्ष्मीः सर्वलक्षणशोभिता २।
ददृशुस्तां महादेवीं मातरं धर्मदेवताः ।
प्रहृष्टाः सर्वजंतूनां श्रीकृष्णहृदयालयाम् ३।
लक्ष्मीभ्राता शीतरश्मिर्जातश्च सुधया ततः ।
उत्पन्ना सा हरेर्जाया तुलसी लोकपावनी ४।
तं शैलं पूर्ववत्स्थाप्य परिपूर्णमनोरथाः ।
समेत्य मातरं स्तुत्वा जेपुः श्रीसूक्तमुत्तमम् ५।
ततः प्रसन्ना सा देवी सर्वान्देवानुवाच ह ।
वरं वृणीध्वं भद्रं वो वरदाहं सुरोत्तमाः ६।
देवा ऊचुः-
प्रसीद कमले देवि सर्वमातर्हरिप्रिये ।
त्वया विना जगच्छून्यं कुरु प्राणप्ररक्षणम् ७।
इत्युक्ता सा महालक्ष्मीः प्राह नारायणप्रिया ।
इदानीं सर्वजंतूनां प्राणरक्षां करोम्यहम् ८।
ततो नारायणः श्रीमाञ्छंखचक्रगदाधरः ।
आविर्बभूव सहसा दयालुर्जगदीश्वरः ९।
ततस्ते तुष्टुवुर्देवाः प्रणम्य जगतां पतिम् ।
कृतांजलिपुटाः प्रोचुः हर्षगद्गदभाषिणः १०।
गृहाण मातरं विष्णो महिषीं वल्लभां तव ।
संसाररक्षणार्थाय लक्ष्मीमनपगामिनीम् ।
यावत्प्रतिज्ञां नो चक्रे तावत्प्राहेंदिरा हरिम् ११।
लक्ष्मीरुवाच-
अविवाह्य कथं ज्येष्ठामलक्ष्मीं मधुसूदन ।
तस्याः कनिष्ठां मां नाथ विवाहं कर्तुमिच्छसि ।
ज्येष्ठायां च स्थितायां वै कनिष्ठा परिणीयते १२।
सूत उवाच-
इति श्रुत्वा ततो विष्णुर्ददौ चोद्दालकाय च ।
वेदवाक्यानुरूपेण ह्यलक्ष्मीं निर्जरैः सह १३।
ततो नारायणः श्रीमान्लक्ष्मीमंगीचकार ह ।
ततः सुरगणाः सर्वे नमश्चक्रुः पुनःपुनः १४।
अथ ते चासुरान्सर्वान्जघ्नुः सर्वे बलाधिकाः ।
सर्वे ते क्रंदमानाश्च गताश्चैव दिशो दश १५।
सुधां तत्खादितुं चक्रुर्देवाः पंक्तिं यथाक्रमम् ।
श्रीविष्णोराज्ञया सर्वे चोचुश्चैव परस्परम् १६।
त्वं च देहि त्वं च देहि त्वं च देहीति चाब्रुवन् ।
न शक्तोऽस्मि न शक्तोऽस्मि न शक्तोऽस्मीति चाब्रुवन् १७।
ततो विष्णुः समुत्तस्थौ स्त्रीरूपं च दधार ह ।
चकार स्वर्णपात्रे तत्पीयूषपरिवेषणम् १८।
पीयूषभक्षणं राहुर्यावत्कुर्याद्द्विजोत्तम ।
चंद्रसूर्यौ चोक्तवंतौ राक्षसोऽसौ छलागतः १९।
ततः क्रुद्धो जगन्नाथो जघान स्वर्णपात्रतः ।
शिरस्तस्य पपातोर्व्यां केतुर्नाम्ना बभूव ह २०।
राहुकेतू ततस्तूर्णं गतौ तौ भयविह्वलौ ।
इदानीं तद्दिने प्राप्ते चंद्रसूर्यौ स युध्यति २१।
कुर्याद्ग्रासं सैंहिकेयस्तत्क्षणं दुर्लभं भवेत् ।
सर्वं गंगासमं तोयं वेदव्याससमा द्विजाः २२।
स्नानं वायसतीर्थे यो गंगास्नानफलं लभेत् ।
दानमक्षयपुण्यं स्यात्कोटिजन्मार्जितं तथा २३।
पापं नश्येत्समूलं च किं पुनः क्रतुकोटिभिः ।
विद्यार्थी लभते विद्यां पुत्रार्थी पुत्रमाप्यते २४।
मोक्षार्थी लभते मोक्षं मंत्रसिद्धिर्भवेद्ध्रुवम् ।
इति ते कथितं विप्र समुद्रमथनं तु तत् २५।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकादिकसंवादे समुद्रमथनंनाम दशमोऽध्यायः १०।