पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः ०७
← अध्यायः ०६ | पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः) अध्यायः ०७ [[लेखकः :|]] |
अध्यायः ०८ → |
शौनक उवाच-
कथयस्व महाप्राज्ञ गोलोकं याति कर्मणा ।
सुमते दुस्तरात्केन जनः संसारसागरात् ।
राधायाश्चाष्टमी सूत तस्या माहात्म्यमुत्तमम् १।
सूत उवाच-
ब्रह्माणं नारदोऽपृच्छत्पुरा चैतन्महामुने ।
तच्छृणुष्व समासेन पृष्टवान्स इति द्विज २।
नारद उवाच-
पितामह महाप्राज्ञ सर्वशास्त्रविदां वर ।
राधाजन्माष्टमी तात कथयस्व ममाग्रतः ३।
तस्याः पुण्यफलं किंवा कृतं केन पुरा विभो ।
अकुर्वतां जनानां हि किल्बिषं किं भवेद्द्विज ४।
केनैव तु विधानेन कर्त्तव्यं तद्व्रतं कदा ।
कस्माज्जाता च सा राधा तन्मे कथय मूलतः ५।
ब्रह्मोवाच-
राधाजन्माष्टमीं वत्स शृणुष्व सुसमाहितः ।
कथयामि समासेन समग्रं हरिणा विना ६।
कथितुं तत्फलं पुण्यं न शक्नोत्यपि नारद ।
कोटिजन्मार्जितं पापं ब्रह्महत्यादिकं महत् ७।
कुर्वंति ये सकृद्भक्त्या तेषां नश्यति तत्क्षणात् ।
एकादश्याः सहस्रेण यत्फलं लभते नरः ८।
राधाजन्माष्टमी पुण्यं तस्माच्छतगुणाधिकम् ।
मेरुतुल्यसुवर्णानि दत्वा यत्फलमाप्यते ९।
सकृद्राधाष्टमीं कृत्वा तस्माच्छतगुणाधिकम् ।
कन्यादानसहस्रेण यत्पुण्यं प्राप्यते जनैः १०।
वृषभानुसुताष्टम्या तत्फलं प्राप्यते जनैः ।
गंगादिषु च तीर्थेषु स्नात्वा तु यत्फलं लभेत् ११।
कृष्णप्राणप्रियाष्टम्याः फलं प्राप्नोति मानवः ।
एतद्व्रतं तु यः पापी हेलया श्रद्धयापि वा १२।
करोति विष्णुसदनं गच्छेत्कोटिकुलान्वितः ।
पुरा कृतयुगे वत्स वरनारी सुशोभना १३।
सुमध्या हरिणीनेत्रा शुभांगी चारुहासिनी ।
सुकेशी चारुकर्णी च नाम्ना लीलावती स्मृता १४।
तया बहूनि पापानि कृतानि सुदृढानि च ।
एकदा साधनाकांक्षी निःसृत्य पुरतः स्वतः १५।
गतान्यनगरं तत्र दृष्ट्वा सुज्ञ जनान्बहून् ।
राधाष्टमीव्रतपरान्सुंदरे देवतालये १६।
गंधपुष्पैर्धूपदीपैर्वस्त्रैर्नानाविधैः फलैः ।
भक्तिभावैः पूजयंतो राधाया मूर्तिमुत्तमाम् १७।
केचिद्गायंति नृत्यंति पठंति स्तवमुत्तमम् ।
तालवेणुमृदंगांश्च वादयंति च के मुदा १८।
तांस्तांस्तथाविधान्दृष्ट्वा कौतूहलसमन्विता ।
जगाम तत्समीपं सा पप्रच्छ विनयान्विता १९।
भोभोः पुण्यात्मानो यूयं किं कुर्वंतो मुदान्विताः ।
कथयध्वं पुण्यवंतो मां चैव विनयान्विताम् २०।
तस्यास्तु वचनं श्रुत्वा परकार्यहितेरताः ।
आरेभिरे तदा वक्तुं वैष्णवा व्रततत्पराः २१।
राधाव्रतिन ऊचुः-
भाद्रे मासि सिताष्टम्यां जाता श्रीराधिका यतः ।
अष्टमी साद्य संप्राप्ता तां कुर्वाम प्रयत्नतः २२।
गोघातजनितं पापं स्तेयजं ब्रह्मघातजम् ।
परस्त्रीहरणाच्चैव तथा च गुरुतल्पजम् २३।
विश्वासघातजं चैव स्त्रीहत्याजनितं तथा ।
एतानि नाशयत्याशु कृता या चाष्टमी नृणाम् २४।
तेषां च वचनं श्रुत्वा सर्वपातकनाशनम् ।
करिष्याम्यहमित्येव परामृष्य पुनः पुनः २५।
तत्रैव व्रतिभिः सार्द्धं कृत्वा सा व्रतमुत्तमम् ।
दैवात्सा पंचतां याता सर्पघातेन निर्मला २६।
ततो यमाज्ञया दूताः पाशमुद्गरपाणयः ।
आगतास्तां समानेतुं बबंधुरतिकृच्छ्रतः २७।
यदा नेतुं मनश्चक्रुर्यमस्य सदनं प्रति ।
तदागता विष्णुदूताः शंखचक्रगदाधराः २८।
हिरण्मयं विमानं च राजहंसयुतं शुभम् ।
छेदनं चक्रधाराभिः पाशं कृत्वा त्वरान्विताः २९।
रथे चारोपयामासुस्तां नारीं गतकिल्बिषाम् ।
निन्युर्विष्णुपुरं ते च गोलोकाख्यं मनोहरम् ३०।
कृष्णेन राधया तत्र स्थिता व्रतप्रसादतः ।
राधाष्टमीव्रतं तात यो न कुर्य्याच्च मूढधीः ३१।
नरकान्निष्कृतिर्नास्ति कोटिकल्पशतैरपि ।
स्त्रियश्च या न कुर्वंति व्रतमेतच्छुभप्रदम् ३२।
राधाविष्णोः प्रीतिकरं सर्वपापप्रणाशनम् ।
अंते यमपुरीं गत्वा पतंति नरके चिरम् ३३।
कदाचिज्जन्मचासाद्य पृथिव्यां विधवा ध्रुवम् ।
एकदा पृथिवी वत्स दुष्टसंघैश्च ताडिता ३४।
गौर्भूत्वा च भृशं दीना चाययौ सा ममांतिकम् ।
निवेदयामास दुःखं रुदंती च पुनः पुनः ३५।
तद्वाक्यं च समाकर्ण्य गतोऽहं विष्णुसंनिधिम् ।
कृष्णे निवेदितश्चाशु पृथिव्या दुःखसंचयः ३६।
तेनोक्तं गच्छ भो ब्रह्मन्देवैः सार्द्धं च भूतले ।
अहं तत्रापि गच्छामि पश्चान्ममगणैः सह ३७।
तच्छ्रुत्वा सहितो दैवैरागतः पृथिवीतलम् ।
ततः कृष्णः समाहूय राधां प्राणगरीयसीम् ३८।
उवाच वचनं देवि गच्छेहं पृथिवीतलम् ।
पृथिवीभारनाशाय गच्छ त्वं मर्त्त्यमंडलम् ३९।
इति श्रुत्वापि सा राधाप्यागता पृथिवीं ततः ।
भाद्रे मासि सिते पक्षे अष्टमीसंज्ञिके तिथौ ४०।
वृषभानो र्यज्ञभूमौ जाता सा राधिका दिवा ।
यज्ञार्थं शोधितायां च दृष्टा सा दिव्यरूपिणी ४१।
राजानं दमना भूत्वा तां प्राप्य निजमंदिरम् ।
दत्तवान्महिषीं नीत्वा सा च तां पर्यपालयत् ४२।
इति ते कथितं वत्स त्वया पृष्टं च यद्वचः ।
गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ४३।
सूत उवाच-
य इदं शृणुयाद्भक्त्या चतुर्वर्गफलप्रदम् ।
सर्वपापविनिर्मुक्तश्चांतेयातिहरेर्गृहम् ४४।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे ब्रह्मनारदसंवादे श्रीराधाष्टमीमाहात्म्यंनाम सप्तमोऽध्यायः ७।