सामग्री पर जाएँ

पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ०३

विकिस्रोतः तः

ऋषय ऊचुः-।
नदीनां पर्वतानां च नामधेयानि सर्वशः ।
तथा जनपदानां च ये चान्ये भूमिमाश्रिताः १।
प्रमाणं च प्रमाणज्ञ पृथिव्याः किल सर्वतः ।
निखिलेन समाचक्ष्व काननानि च सत्तम २।
सूत उवाच-।
पंचेमानि महाप्राज्ञ महाभूतानि संग्रहात् ।
जगतीस्थानि सर्वाणि समान्याहुर्मनीषिणः ३।
भूमिरापस्तथा वायुरग्निराकाशमेव च ।
गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः ४।
शब्दस्पर्शश्च रूपं च रसो गंधश्च पंचमः ।
भूमेरेतेगुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिः ५।
चत्वारोप्सुगुणा विप्रा गंधस्तत्र न विद्यते ।
शब्दः स्पर्शश्च रूपं च तेजसोथ गुणास्त्रयः ६।
शब्दः स्पर्शश्च वायोस्तु आकाशे शब्द एव च ।
एते पंच गुणा विप्रा महाभूतेषु पंचसु ७।
वर्तंते सर्वलोकेषु येषु भूताः प्रतिष्ठिताः ।
अन्योन्यं नातिवर्तंते साम्यं भवति वै तदा ८।
यदा तु विषमीभावमाविशंति परस्परम् ।
तदा देहैर्देहवंतो व्यतिरोहंति नान्यथा ९।
आनुपूर्व्या विनश्यंति जायंते चानुपूर्वशः ।
सर्वाण्यपरिमेयाणि तदेषां रूपमैश्वरम् १०।
यत्रयत्र हि दृश्यंते धावंति पांचभौतिकाः ।
तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ११।
अचिंत्याः खलु ये भावास्तान्न तर्केण साधयेत् ।
सुदर्शनं प्रवक्ष्यामि द्वीपं तु मुनिपुंगवाः १२।
परिमंडलो महाभागा द्वीपोऽसौ चक्रसंस्थितः ।
नदीजलपरिच्छिन्नः पर्वतैश्चाब्धिसन्निभैः १३।
पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा ।
वृक्षैः पुष्पफलोपेतैः संपन्नो धनधान्यवान् १४।
लवणेन समुद्रेण समंतात्परिवारितः ।
यथा हि पुरुषः पश्येदादर्शे मुखमात्मनः १५।
एवं सुदर्शनो द्वीपो दृश्यते चक्रमंडलः ।
द्विरंशे पिप्पलस्तस्य द्विरंशे च शशो महान् १६।
सर्वौषधिं समादाय सर्वतः परिवारितः ।
आपस्ततोन्या विज्ञेयाः शेषः संक्षेप उच्यते १७।
ऋषय ऊचुः-।
उक्तो यस्य च संक्षेपो बुद्धिमन्विधिवत्त्वया ।
तत्त्वज्ञश्चासि सर्वस्य विस्तरं सूत नो वद १८।
यावान्भूम्यवकाशोयं दृश्यते शशलक्षणे ।
तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम् १९।
एवं तैः किल पृष्टः स सूतो वाक्यमथाब्रवीत् ।
सूत उवाच-।
प्रागायता महाप्राज्ञाः षडेते रत्नपर्वताः २०।
अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ ।
हिमवान्हिमकूटश्च निषधश्च नगोत्तमः २१।
नीलश्च वैडूर्यमयः श्वेतश्च शशिसन्निभः ।
सर्वधातुपिनद्धश्च शृंगवान्नामपर्वतः २२।
एते वै पर्वता विप्राः सिद्धचारणसेविताः ।
तेषामंतरविष्कुंभौ योजनानि सहस्रशः २३।
तत्र पुण्या जनपदास्तानि वर्षाणि सत्तमाः ।
वसंति तेषां सत्त्वानि नानाजातीनि सर्वशः २४।
इदं तु भारतं वर्षं ततो हैमवतं परम् ।
हेमकूटात्परं चैव हरिवर्षं प्रचक्षते २५।
दक्षिणेन तु नीलस्य निषधस्योत्तरेण च ।
प्रागायतो महाभागा माल्यवान्नाम पर्वतः २६।
ततः परं माल्यवतः पर्वतो गंधमादनः ।
परिमंडलस्तयोर्मध्ये मेरुः कनकपर्वतः २७।
आदित्यतरुणाभासो विधूम इव पावकः ।
योजनानां सहस्राणि चतुरशीतिरुच्छ्रितः २८।
अधस्ताच्चतुरशीतिर्योजनानां द्विजोत्तमाः ।
ऊर्ध्वमधश्च तिर्यक्च लोकानावृत्य तिष्ठति २९।
तस्य पार्श्वेष्वमी द्वीपाश्चत्वारः संस्थिता द्विजाः ।
भद्राश्वः केतुमालश्च जंबूद्वीपश्च सत्तमाः ३०।
उत्तराश्चैव कुरुवः कृतपुण्य प्रतिश्रयाः ।
विहंगसुमुखो यस्तु सुपार्श्वस्यात्मजः किल ३१।
स वै विचिंतयामास सौवर्णान्प्रेक्ष्य वायसान् ।
मेरुरुत्तममध्यानामधमानां च पक्षिणाम् ३२।
अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम् ।
तमादित्योनुपर्येति सततं ज्योतिषां वरः ३३।
चंद्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणः ।
स पर्वतो महाप्राज्ञा दिव्यपुष्पसमन्वितः ३४।
भवनैरावृतैः सर्वैः र्जांबूनदमयैः शुभैः ।
तत्र देवगणा विप्रा गंधर्वासुरराक्षसाः ३५।
अप्सरोगणसंयुक्ताः शैले क्रीडंति सर्वदा ।
तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः ३६।
समेत्य विविधैर्यज्ञैर्यजंतेऽनेक दक्षिणैः ।
तुंबुरुर्नारदश्चैव विश्वावसुर्हाहा हूहूः ३७।
अभिगम्यामरश्रेष्ठं स्तुवंति विविधैः स्तवैः ।
सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः ३८।
तत्र गच्छंति भद्रं वः सदा पर्वणि पर्वणि ।
तस्यैव मूर्द्धन्युशना काव्यो दैत्यैर्महीयते ३९।
तस्य हैमानि रत्नानि तस्यैते रत्नपर्वताः ।
तस्मात्कुबेरो भगवांश्चतुर्थं भागमश्नुते ४०।
ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति ।
पर्वतस्यांतरे दिव्यं सर्वर्तुकुसुमैश्चितम् ४१।
कर्णिकारवनं रम्यं शिलाजालसमुच्छ्रितम् ।
तत्र साक्षात्पशुपतिर्दिव्यभूतैः समावृतः ४२।
उमासहायोभगवान्रमते भूतभावनः ।
कर्णिकारमयीं मालां बिभ्रदापादलंबिनीम् ४३।
त्रिभिर्नेत्रैः कृतोद्द्योतस्त्रिभिः सूर्यैरिवोदितैः ।
तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः ४४।
पश्यंति नहि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः ।
तस्य शैलस्य शिखरात्क्षीरधारा द्विजोत्तमाः ४५।
विश्वरूपात्परमिता भीमनिर्घातनिस्वना ।
पुण्यापुण्यतमैर्जुष्टा गंगा भागीरथी शुभा ४६।
प्लवंती च प्रवेगेन ह्रदे चंद्रमसः शुभे ।
तया ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः ४७।
तां धारयामास तदा दुर्द्धरां पर्वतैरपि ।
शतं वर्षसहस्राणि शिरसैव पिनाकधृक् ४८।
मेरोस्तु पश्चिमे पार्श्वे केतुमालो द्विजोत्तमाः ।
जंबूखंडे तु तत्रैव महाजनपदो द्विजाः ४९।
आयुर्दशसहस्राणि वर्षाणां तत्र सत्तमाः ।
सुवर्णवर्णाश्च नरा स्त्रियश्चाप्सरसां समाः ५०।
अनामया वीतशोका नित्यं मुदितमानसाः ।
जायंते मानवास्तत्र निस्तप्तकनकप्रभाः ५१।
गंधमादनशृंगेषु कुबेरः सह राक्षसैः ।
संवृतोप्सरसां संघैर्मोदते गुह्यकाधिपः ५२।
गंधमादनपार्श्वे तु परे विगतपातकाः ।
एकादशसहस्राणि वर्षाणां परमायुषः ५३।
तत्र कृष्णा नरा विप्रास्तेजोयुक्ता महाबलाः ।
स्त्रियश्चोत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः ५४।
नीलोत्पलधरं श्वेतं श्वेताद्धैरण्यकं वरम् ।
वर्षमैरावतं विप्रा नानाजनपदावृतम् ५५।
धनुखंडेः महाभागा द्वे वर्षे दक्षिणोत्तरे ।
इलावृत्तं मध्यगं तु पंचवर्षाणि चैव हि ५६।
उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः ।
आयुः प्रमाणमारोग्यं धर्मतः कामतोऽर्थतः ५७।
समन्वितानि भूतानि तेषु सर्वेषु सत्तमाः ।
एवमेषा महाभागाः पर्वतैः पृथिवी चिता ५८।
हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः ।
तत्र वैश्रवणो देवो गुह्यकैः सह मोदते ५९।
अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति ।
हिरण्यशृंगः सुमहान्दिव्यो मणिमयो गिरिः ६०।
तस्य पार्श्वे महद्दिव्यं शुभ्रं कांचनवालुकम् ।
रम्यं विष्णुसरो नाम यत्र राजा भगीरथः ६१।
दृष्ट्वा भागीरथीं गंगामुवास बहुलाः समाः ।
यूपा मणिमयास्तत्र क्षेत्राश्चापि हिरण्मयाः ६२।
तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः ।
स्रष्टा भूतिपतिर्यत्र सर्वलोकैः सनातनः ६३।
उपास्यते तिग्मतेजा यत्र भूतः समंततः ।
नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पंचमः ६४।
तत्र दिव्या त्रिपथगा प्रथमं तु प्रतिष्ठिता ।
ब्रह्मलोकादपाक्रांता सप्तधा प्रतिपद्यते ६५।
वटोदका सा नलिनी पार्वती च सरस्वती ।
जंबूनदी च सीता च गंगा सिंधुश्च सप्तमी ६६।
अचिंत्या दिव्यसंज्ञा सा प्रभावैश्च समन्विता ।
उपास्यते यत्र सत्रं सहस्रयुगपर्यये ६७।
दृश्यादृश्या च भवति तत्रतत्र सरस्वती ।
एता दिव्याः सप्तगंगास्त्रिषुलोकेषु विश्रुताः ६८।
रक्षांसि वै हिमवती हेमकूटे च गुह्यकाः ।
सर्पा नागाश्च निषधे गोकर्णं च तपोवनम् ६९।
देवासुराणां सर्वेषां श्वेतः पर्वतमुच्यते ।
गंधर्वा निषधे नित्यं नीले ब्रह्मर्षयस्तथा ७०।
शृंगवांस्तु महाभागा देवानां प्रतिसंचरः ।
इत्येतानि महाभागाः सप्तवर्षाणि भागशः ७१।
भूतान्युपनिविष्टानि गतिमंति ध्रुवाणि च ।
तेषामृद्धिर्बहुविधा दृश्यते देवमानुषा ७२।
अशक्यं परिसंख्यातुं श्रद्धे या तु विभूषिता ।
यां तु पृच्छथ मां विप्रा दिव्यमेनां शशाकृतिम् ७३।
पार्श्वे शशस्य द्वे वर्षे उक्ते ये दक्षिणोत्तरे ।
कर्णे तु नागद्वीपश्च काश्यपद्वीप एव च ७४।
कर्णद्वीपशिलो विप्राः श्रीमान्मलयपर्वतः ।
एतद्द्वितीयं द्वीपस्य दृश्यते शशिसंस्थितम् ७५।
इति श्रीपाद्मेमहापुराणे स्वर्गखंडे तृतीयोऽध्यायः ३।