पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ११५

विकिस्रोतः तः
← अध्यायः ११४ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ११५
अज्ञातलेखकः
अध्यायः ११६ →

कुंजल उवाच-
ततस्त्वसौ संयति राजमानः समुद्यतश्चापधरो महात्मा ।
यथैव कालः कुपितः सलोकान्संहर्तुमैच्छत्तु तथा सुदानवान् १।
महास्त्रजालै रवितेजतुल्यैः सुदीप्तिमद्भिर्निजघान दानवान् ।
वायुर्यथोन्मूलयतीह पादपांस्तथैव राजा निजघान दानवान् २।
वायुर्यथा मेघचयं च दिव्यं संचालयेत्स्वेन बलेन तेजसा ।
तथा स राजा असुरान्मदोत्कटाननाशयद्बाणवरैः सुतीक्ष्णैः ३।
न शेकुर्दानवाः सर्वे बाणवर्षं महात्मनः ।
मृताः केचिद्द्रुताः केचित्केचिन्नष्टा महाहवात् ४।
सूत उवाच-
महातेजं महाप्राज्ञं महादानवनाशनम् ।
चुक्रोध हुंडो दुष्टात्मा दृष्ट्वा तं नृपनंदनम् ५।
स्थितो गत्वेदमाभाष्य तिष्ठतिष्ठेति चाहवे ।
त्वामद्य च नयिष्यामि आयुपुत्र यमांतिकम् ६।
नहुष उवाच-
स्थितोस्मि समरे पश्य त्वामहं हंतुमागतः ।
अहं त्वां तु हनिष्यामि दानवं पापचेतनम् ७।
इत्युक्त्वा धनुरादाय बाणानग्निशिखोपमान् ।
छत्रेण ध्रियमाणेन शुशुभे सोऽपि संयुगे ८।
इंद्रस्य सारथिं दिव्यं मातलिं वाक्यमब्रवीत् ।
वाहयतु रथं मेऽद्य हुंडस्य सम्मुखं भवान् ९।
इत्युक्तस्तेन वीरेण मातलिर्लघुविक्रमः ।
तुरगांश्चोदयामास महावातजवोपमान् १०।
उत्पेतुश्च ततो वाहा हंसा इव यथांबरे ।
छत्रेण इंदुवर्णेन रथेनापि पताकिना ११।
नभस्तलं तु संप्राप्य यथा सूर्यो विराजते ।
आयुपुत्रस्तथा संख्ये तेजसा विक्रमेण तु १२।
अथ हुंडो रथस्थोऽपि राजमानः स्वतेजसा ।
सर्वायुधैश्च संयुक्तस्तद्वद्वीरव्रते स्थितः १३।
उभयोर्वीरयोर्युद्धं देवविस्मयकारकम् ।
तदा आसीन्महाप्राज्ञ दारुणं भीतिदायकम् १४।
सुबाणैर्निशितैस्तीक्ष्णैः कंकपत्रैः शिलीमुखैः ।
हुंडेन ताडितो राजा सुबाह्वोरंतरे तदा १५।
सुभाले पंचभिर्बाणैर्विद्धः क्रुद्धोऽभवत्तदा ।
सविद्धस्तु तदा बाणैरधिकं शुशुभे नृपः १६।
सारुणः करमालाभिरुदयंश्च दिवाकरः ।
रुधिरेण तु दिग्धांगो हेमबाणैस्तनुस्थितैः १७।
सूर्यवच्छोभते राजा पूर्वकालस्य चांबरे ।
दृष्ट्वा तु पौरुषं तस्य दानवं वाक्यमब्रवीत् १८।
तिष्ठतिष्ठ क्षणं दैत्य पश्य मे लाघवं पुनः ।
इत्युक्त्वा तु रणे दैत्यं जघान दशभिः शरैः १९।
मुखे भाले हतस्तेन मूर्च्छितो निपपात ह ।
पश्यामानैः सुरैर्दिव्यै रथोपरि महाबलः २०।
देवैश्च चारणैः सिद्धैः कृतः शब्दः सुहर्षजः ।
जयजयेति राजेंद्र शंखान्दध्मुः पुनः पुनः २१।
सकोलाहलशब्दस्तु तुमलो देवतेरितः ।
कर्णरंध्रमाविवेश हुंडस्य मूर्छितस्य च २२।
श्रुत्वा सधनुरादाय बाणमाशीविषोपमम् ।
स्थीयतां स्थीयतां युद्धे न मृतोस्मि त्वया हतः २३।
इत्युक्त्वा पुनरुत्थाय लाघवेन समन्वितः ।
एकविंशतिभिर्बाणैर्नहुषं चाहनत्पुनः २४।
एकेन मुष्टिमध्ये तु चतुर्भिर्बाहुमध्यतः ।
चतुर्भिश्च महाश्वांश्च छत्रमेकेन तेन वै २५।
पंचभिर्मातलिं विद्ध्वा रथनीडं तु सप्तभिः ।
ध्वजदंडं त्रिभिस्तीक्ष्णैर्दानवः शिखिपत्रिभिः २६।
आदानं तु निदानं तु लक्षमोक्षं दुरात्मनः ।
लाघवं तस्य संदृष्ट्वा देवता विस्मयंगताः २७।
तस्य पौरुषमापश्य स राजा दानवोत्तमम् ।
शूरोसि कृतविद्योसि धीरोसि रणपंडितः २८।
इत्युक्वा दानवं तं तु धनुर्विस्फार्य भूपतिः ।
मार्गणैर्दशभिस्तं तु विव्याध लघुविक्रमः २९।
त्रिभिर्ध्वजं प्रचिच्छेद स पपात धरातले ।
तुरगान्पातयामास चतुर्भिस्तस्य सायकैः ३०।
एकेन छत्रं तस्यापि चकर्त लघुविक्रमः ।
दशभिः सारथिस्तस्य प्रेषितो यममंदिरम् ३१।
दंशनं दशभिश्छित्त्वा शरैश्च विदलीकृतः ।
सर्वांगेषु च त्रिंशद्भिर्विव्याध दनुजेश्वरम् ३२।
हताश्वो विरथो जातो बाणपाणिर्धनुर्धरः ।
अभ्यधावत्स वेगेन वर्षयन्निशितैः शरैः ३३।
खड्गचर्मधरो दैत्यो राजानं तमधावत ।
धावमानस्य हुंडस्य खड्गं चिच्छेद भूपतिः ३४।
क्षुरप्रैर्निशितैर्बाणैश्चर्म चिच्छेद भूपतिः ।
अथ हुंडः स दुष्टात्मा समालोक्य समंततः ३५।
जग्राह मुद्गरं तूर्णं मुमोच लघुविक्रमः ।
वज्रवेगं समायांतं ददृशे नृपतिस्तदा ३६।
मुद्गरं स्वनवंतं चापातयदंबरात्ततः ।
दशभिर्निशितैर्बाणैः क्षुरप्रैश्च स्वविक्रमात् ३७।
मुद्गरं पतितं दृष्ट्वा दशखण्डमयं भुवि ।
गदामुद्यम्य वेगेन राजानमभ्यधावत ३८।
खड्गेन तीक्ष्णधारेण तस्य बाहुं विचिच्छिदे ।
सगदं पतितं भूमौ सांगदं कटकान्वितम् ३९।
महारावं ततः कृत्वा वज्रस्फोटसमं तदा ।
रुधिरेणापि दिग्धांगो धावमानो महाहवे ४०।
क्रोधेन महताविष्टो ग्रस्तुमिच्छति भूपतिम् ।
दुर्निवार्यः समायातः पार्श्वं तस्य च भूपतेः ४१।
नहुषेण महाशक्त्या ताडितो हृदि दानवः ।
पतितः सहसा भूमौ वज्राहत इवाचलः ४२।
तस्मिन्दैत्ये गते भूमावितरे दानवा गताः ।
विविशुः कति दुर्गेषु कति पातालमाश्रिताः ४३।
देवाः प्रहर्षमाजग्मुर्गंधर्वाः सिद्धचारणाः ।
हते तस्मिन्महापापे नहुषेण महात्मना ४४।
तस्मिन्हते दैत्यवरे महाहवे देवाश्च सर्वे प्रमुदं प्रलेभिरे ।
तां देवरूपां तपसा प्रवर्द्धितां स आयुपुत्रः प्रतिलभ्य हर्षितः ४५।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने पंचदशाधिकशततमोऽध्यायः ११५।