पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०९७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०९६ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ९७
अज्ञातलेखकः
अध्यायः ०९८ →

सप्तनवतितमोऽध्यायः
कुंजल उवाच-
एवमाकर्ण्य तां राजा मुनिना भाषितां तदा
धर्माधर्मगतिं सर्वां तं मुनिं समभाषत १
सुबाहुरुवाच-
सोहं धर्मं करिष्यामि सोहं पुण्यं द्विजोत्तम
वासुदेवं जगद्योनिं यजिष्ये नितरां मुने २
होमेन तु जपेनैव पूजयेन्मधुसूदनम्
यष्ट्वा यज्ञं तपस्तप्त्वा विष्णुलोकं स भूपतिः ३
पूजितः सर्वकामैश्च प्राप्तवान्सत्वरं मुदा
गते तस्मिन्महालोके देवदेवं न पश्यति ४
क्षुधा जाता महातीव्रा तृष्णा चाति प्रवर्तते
तयोश्चापि महाप्राज्ञ जीवपीडाकरा बहु ५
राजापि प्रियया सार्द्धं क्षुधातृष्णाप्रपीडितः
न पश्यति हृषीकेशं दुःखेन महतान्वितः ६
सूत उवाच-
एवं स दुःखितो राजा प्रियया सह सत्तम
आकुल व्याकुलो जातः पीडितः क्षुधया भृशम् ७
इतश्चेतश्च वेगैश्च धावते वसुधाधिपः
सर्वाभरणशोभांगो वस्त्रचंदनभूषितः ८
पुष्पमालाप्रशोभांगो हारकुंडलकंकणैः
रत्नदीप्तिप्रशोभांगः प्रययौ स महीपतिः ९
एवं दुःखसमाचारः स्तूयमानश्च पाठकैः
दुःखशोकसमाविष्टः स्वप्रियां वाक्यमब्रवीत् १०
विष्णुलोकमहं प्राप्तस्त्वया सह सुशोभने
ऋषिभिः स्तूयमानोपि विमानेनापि भामिनि ११
कर्मणा केन मे चेयं क्षुधातीव प्रवर्द्धते
विष्णुलोकं च संप्राप्य न दृष्टो मधुसूदनः १२
तत्किं हि कारणं भद्रे न भुनज्मि महत्फलम्
कर्मणाथ निजेनापि एतद्दुःखं प्रवर्त्तते १३
सैवं श्रुत्वा च तद्वाक्यं राजानमिदमब्रवीत् १४
भार्योवाच-
सत्यमुक्तं त्वया राजन्नास्ति धर्मस्य वै फलम्
वेदशास्त्रपुराणेषु ये पठंति च ब्राह्मणाः १५
दुःखशोकौ विधूयेह सर्वदोषैः प्रमुच्यते
नामोच्चारेण देवस्य विष्णोश्चैव सुचक्रिणः १६
पुण्यात्मानो महाभागा ध्यायमाना जनार्दनम्
त्वयैवाराधितो देवः शंखचक्रगदाधरः १७
अन्नादिदानं विप्रेभ्यो न प्रदत्तं द्विजोदितम्
फलं तस्य प्रजानामि न दृष्टो मधुसूदनः १८
क्षुधा मे बाधते राजंस्तृष्णा चैव प्रशोषयेत्
कुंजल उवाच-
एवमुक्तस्तु प्रियया राजा चिंताकुलेंद्रियः १९
ततो दृष्ट्वा महापुण्यमाश्रमं श्रमनाशनम्
दिव्यवृक्षसमाकीर्णं तडागैरुपशोभितम् २०
वापीकुंडतडागैश्च पुण्यतोयप्रपूरितैः
हंसकारंडवाकीर्णं कह्लारैरुपशोभितम् २१
आश्रमः शोभते पुत्र मुनिभिस्तत्त्ववेदिभिः
दिव्यवृक्षसमाकीर्णं मृगव्रातैश्च शोभितम् २२
नानापुष्पसमाकीर्णं हृद्यगंधसमाकुलम्
द्विजसिद्धैः समाकीर्णमृषिशिष्यैः समाकुलम् २३
योगियोगेंद्र संघुष्टं देववृंदैरलंकृतम्
कदलीवनसंबाधैः सुफलैः परिशोभितम् २४
नानावृक्षसमाकीर्णं सर्वकामसमन्वितम्
श्रीखंडैश्चारुगंधैश्च सुफलैः शोभितं सदा २५
एवं पुण्यं समाकीर्णं ब्रह्मलक्ष्मसमायुतम्
स सुबाहुस्ततो राजा तया सुप्रियया सह २६
प्रविवेश महापुण्यं तद्वनं सर्वकामदम्
भासमानो दिशः सर्वा यत्रास्ते सूर्यसंनिभः २७
राजमानो महादीप्त्या परया सूर्यसंनिभः
योगासनसमारूढो योगपट्टेन संवृतः २८
वामदेवऋषिश्रेष्ठो वैष्णवानां वरस्तथा
ध्यायमानो हृषीकेशं भुक्तिमुक्तिप्रदायकम् २९
वामदेवं महात्मानं तं दृष्ट्वा मुनिसत्तमम्
त्वरं गत्वा प्रणम्यैव स राजा प्रियया सह ३०
वामदेवस्ततो दृष्ट्वा प्रणतं राजसत्तमम्
आशीर्भिरभिनंद्यैव राजानं प्रिययान्वितम् ३१
उपवेश्यासने पुण्ये सुबाहुं राजसत्तमम्
आसनादि ततः पाद्यैरर्घपूजादिभिस्तथा ३२
मुनिना पूजितो भूपः प्रियया सह चागतः
अथ पप्रच्छ राजानं महाभागवतोत्तमम् ३३
वामदेव उवाच-
त्वामहं विष्णुधर्मज्ञं विष्णुभक्तं नरोत्तमम्
जाने ज्ञानेन राजेंद्र दिव्येन चोलभूमिपम् ३४
निरामयश्चागतोसि तार्क्ष्यया भार्यया सह
राजोवाच-
निरामयश्चागतोऽस्मि प्राप्तो विष्णोः परं पदम् ३५
मया हि परया भक्त्या देवदेवो जनार्दनः
आराधितो जगन्नाथो भक्तिप्रीतः सुरेश्वरम् ३६
कस्मात्पश्याम्यहं तात न देवं कमलापतिम्
क्षुधा मे बाधते तात तृष्णातीव सुदारुणा ३७
ताभ्यां शांतिं न गच्छाव सुखं विंदाव नैव च
एतन्मेकारणं दुःखं संजातं मुनिसत्तम ३८
तन्मे त्वं कारणं ब्रूहि प्रसादात्सुमुखो भव
वामदेव उवाच-
त्वं तु भक्तोसि राजेंद्र श्रीकृष्णस्य सदैव हि ३९
आराधितस्त्वया भक्त्या परया मधुसूदनः
भक्त्योपचारैः स्नानाद्यैर्गंधपुष्पादिभिस्तथा ४०
न पूजितोऽथ नैवेद्यैः फलैश्च जगतांपतिः
दशमीं प्राप्य राजेंद्र त्वयैव च सदा कृतम् ४१
एकभक्तं न दत्तं तु ब्राह्मणाय सुभोजनम्
एकादशीं तु संप्राप्य न कृतं भोजनं त्वया ४२
विष्णुमुद्दिश्य विप्राय न दत्तं भोजनं त्वया
अन्नं चामृतरूपेण पृथिव्यां संस्थितं सदा ४३
अन्नदानं विशेषेण कदा दत्तं न हि त्वया
ओषध्यश्च महाराज नानाभेदास्तु ताः शृणु ४४
कटु तिक्त कषायाश्च मधुराम्लाश्च क्षारकाः
हिंग्वाद्योपस्कराः सर्वे नानारूपाश्च भूपते ४५
अमृताज्जज्ञिरे सर्वा ओषध्यः पुष्टिहेतवः
अन्नमेव सुसंस्कृत्य औषधव्यंजनान्वितम् ४६
देवेभ्यो विष्णुरूपेभ्य इति संकल्प्य दीयते
पितृभ्यो विष्णुरूपेभ्यो हस्ते च ब्राह्मणस्य हि ४७
अतिथिभ्यस्ततो दत्वा परिजनं प्रभोजयेत्
स्वयं तु भुंजते पश्चात्तदन्नममृतोपमम् ४८
प्रेत्य दुःखं न चैवास्ति तस्य सौख्यं तु भूपते
ब्राह्मणाः पितरो देवाः क्षत्ररूपाश्च भूपते ४९

यथा हि कर्षकः कश्चित्सुकृषिं कुरुते सदा
तद्वन्मर्त्यः कृषिं कुर्यात्क्षेत्रे विप्रास्यके नृप ५०
स्वभावलांगलेनापि श्रद्धा शस्त्रेण भेदयेत्
वृषभौ तु मतौ नित्यं बुद्धिश्चैव तपस्तथा ५१
सत्यज्ञानानुभावीशः शुद्धात्मा तु प्रतोदकः
विप्रनाम्नि महाक्षेत्रे नमस्कारैर्विसर्जयेत् ५२
स्फोटयेत्कल्मषं नित्यं कृषिको हि यथा नृप
क्षेत्रस्य उद्यमे युक्तो विष्णुकामः प्रसादयेत् ५३
तद्वद्वाक्यैः शुभैः पुण्यैर्विप्रांश्चापि प्रसादयेत्
पर्वतीर्थाप्तिकालश्च घनरूपोभिवर्षणे ५४
वप्तुकामो भवेत्क्षेत्री ततः क्षेत्रे प्रवापयेत्
तद्वद्भूपप्रसन्नाय विप्राय परिदीयते ५५
क्षेत्रस्य उप्तबीजस्य यथा क्षेत्री प्रभुंजति
फलमेव महाराज तथा दाता भुनक्ति च ५६
प्रेत्य चात्रैव नित्यं च तृप्तो भवति नान्यथा
ब्राह्मणाः पितरो देवाः क्षेत्ररूपा न संशयः ५७
मानवानां महाराज वापिताः प्रददंति च
फलमेवं न संदेहो यादृशं तादृशं ध्रुवम् ५८
कटुकाद्धि न जायेत राजन्मधुर एव च
तद्वच्च मधुराख्याच्च न जायेत्कटुकः पुनः ५९
यादृशं वपते बीजं तादृशं फलमश्नुते
न वापयति यः क्षेत्रं न स भुंजति तत्फलम् ६०
तद्वद्विप्राश्च देवाश्च पितरः क्षेत्ररूपिणः
दर्शयंति फलं राजन्दत्तस्यापि न संशयः ६१
यादृशं हि कृतं कर्म त्वयैव च शुभाशुभम्
तादृशं भुंक्ष्व वै राजन्नन्यथा तन्न जायते ६२
न पुरा देवविप्रेभ्यः पितृभ्यश्च कदाचन
मिष्टान्नपानमेवापि दत्तं सुमनसा तदा ६३
सुभोज्यैर्भोजनैर्मृष्टैर्मधुरैश्चोष्यपेयकैः
सुभक्ष्यैरात्मना भुक्तं कस्मै दत्तं न च त्वया ६४
स्वशरीरं त्वया पुष्टमन्नैरमृतसन्निभैः
यस्मात्कृतं महाराज तस्मात्क्षुधा प्रवर्तते ६५
कर्मैव कारणं राजन्नराणां सुखदुःखयोः
जन्ममृत्य्वोर्महाभाग भुंक्ष्व तत्कर्मणः फलम् ६६
पूर्वेपि च महात्मानो दिवं प्राप्ताः स्वकर्मणा
पुनः प्रयाता भूर्लोकं कर्मणः क्षयकालतः ६७
नलो भगीरथश्चैव विश्वामित्रो युधिष्ठिरः
कर्मणैव हि संप्राप्ताः स्वर्गं राजन्स्वकालतः ६८
दिष्टं हि प्राक्तनं कर्म तेन दुःखं सुखं लभेत्
तदुल्लंघयितुं राजन्कः समर्थोपि हीश्वरः ६९
अथ तस्मान्नृपश्रेष्ठ स्वर्गतस्यापि तेऽभवत्
क्षुत्तृष्णासंभवो वेगस्ततो दुष्टं हि कर्म ते ७०
यदि ते क्षुत्प्रतीकारो ह्यभीष्टो नृपसत्तम
तद्गत्वा भुंक्ष्व कायं स्वमानंदारण्यसंस्थितम् ७१
तव चेयं महाराज्ञी क्षुत्क्षामातीव दृश्यते
सुबाहुरुवाच-
कियत्कालमिदं कर्म कर्तव्यं प्रियया सह ७२
तन्मे ब्रूहि महाभागानुग्रहो दृश्यते कदा
कस्य दानेन किं पुण्यं द्रव्यस्य मुनिसत्तम ७३
तत्प्रब्रूहि महाप्राज्ञ यदि तुष्टोसि सांप्रतम्
वामदेव उवाच-
अन्नदानान्महासौख्यमुदकस्य महामते ७४
भुंजंति मर्त्याः स्वर्गं वै पीड्यंते नैव पातकैः
यदा दानं न दत्तं तु भवेदपि हि मानवैः ७५
मृत्युकालेपि संप्राप्ते दानं सर्वे ददंति च
आदावेव प्रदातव्यमन्नं चोदकसंयुतम् ७६
सुच्छत्रोपानहौ दद्याज्जलपात्रं सुशोभनम्
भूमिं सुकांचनं धेनुमष्टौ दानानि योऽर्पयेत् ७७
स्वर्गे न जायते तस्य क्षुधातृष्णादिसंभवः
क्षुधा न बाधते राजन्नन्नदानात्स तृप्तिमान् ७८
तृष्णा तीव्रा नहि स्याद्वै तृप्तो भवति सर्वदा
पादुकायाः प्रदानेन च्छत्रदानेन भूपते ७९
छायामाप्नोति दाता वै वाहनं च नृपोत्तम
उपानहप्रदानेन अन्यदेवं वदाम्यहम् ८०
भूमिदानान्महाभाग सर्वकामानवाप्नुयात्
गोदानेन महाराज रसैः पुष्टो भवेत्सदा ८१
सर्वान्भोगान्प्रभुंजानः स्वर्गलोके वसेन्नरः
तृप्तो भवति वै दाता गोदानेन न संशयः ८२
नीरुजः सुखसंपन्नः संतुष्टस्तु धनान्वितः
कांचनेन सुवर्णस्तु जायते नात्र संशयः ८३
श्रीमांश्च रूपवांस्त्यागी रत्नभोक्ता भवेन्नरः
मृत्युकाले तु संप्राप्ते तिलदानं प्रयच्छति ८४
सर्वभोगपतिर्भूत्वा विष्णुलोकं प्रयाति सः
एवं दानविशेषेण प्राप्यते परमं सुखम् ८५
गोदानं भूमिदानं तु अन्नोदके च वै त्वया
जीवमानेन राजेंद्र न दत्तं ब्राह्मणाय वै ८६
मृत्युकालेपि नो दत्तं तस्मात्क्षुधा प्रवर्तते
एतत्ते कारणं प्रोक्तं जातं कर्मवशानुगम् ८७
यादृशं तु कृतं कर्म तादृशं परिभुज्यते
सुबाहुरुवाच-
कथं क्षुधा प्रशांतिं मे प्रयाति मुनिसत्तम ८८
अनया शोषितः कायो ह्यतीव परिदूयते
क्षुधां प्रति द्विजश्रेष्ठ प्रायश्चित्तं वदस्व नौः ८९
कर्मणश्चास्यघोरस्य यथा शांतिर्भवेन्मम
वामदेव उवाच-
प्रायश्चित्तं न चैवास्ति ऋतेभोगान्नृपोत्तम ९०
कर्मणोस्य फलं सर्वं भवान्स्वस्थः प्रभोक्ष्यति
यत्र ते पतितः कायः प्रियायाश्चैव भूपते ९१
युवाभ्यां हि प्रगंतव्यमितश्चैव न संशयः
उभाभ्यामपि भोक्तव्यं कायमक्षयमेव तत् ९२
स्वंस्वं राजन्न संदेहस्त्वया वै प्रियया सह
राजोवाच-
कियत्कालं प्रभोक्तव्यं मयैवं प्रियया सह ९३
तदादिश महाभाग प्रमाणं तद्वचो मम
वामदेव उवाच-
वासुदेव महास्तोत्रं महापातकनाशनम् ९४
यदा त्वं श्रोष्यसे पुण्यं तदा मोक्षं प्रयास्यसि
एतत्ते सर्वमाख्यातं गच्छ राजन्प्रभुंक्ष्वहि ९५
एवं श्रुत्वा ततो राजा भार्यया सह वै पुनः
स्वशरीरस्य वै मांसं भक्षते प्रियया सह ९६
नित्यमेव महाप्राज्ञ तद्वत्पूर्णं भवेद्वपुः
नित्यं प्रभक्षते राजा राज्ञी तस्य च पुत्रक ९७
यथायथा च राजा च भक्षते च कलेवरम्
हसेते वै सदा नार्यौ तयोर्भावं वदाम्यहम् ९८
प्रज्ञा सार्द्धं महासाध्वी चरित्रं तस्य भूपतेः
हास्यं हि कुरुते नित्यं तस्य श्रद्धानपायिनी ९९
प्रज्ञया प्रेर्यमाणेन न दत्तं श्रद्धयान्वितम्
ब्राह्मणेभ्यः सुसंकल्प्य अन्नमुद्दिश्य वैष्णवे १००
एवं स भक्षते मांसं स्वस्य कायस्य नित्यदा
योषिदप्यात्मकायं च रसैश्चामृतसन्निभैः १०१
ततो वर्षशतांते तु वामदेवं महामुनिम्
स्मृत्वा स गर्हयामास आत्मानं प्रति सुव्रत १०२
न दत्तं पितृदेवेभ्यो ब्राह्मणेभ्यः कदा मया
न दत्तमतिथिभ्यो हि वृद्धेभ्यश्च विशेषतः १०३
दीनेभ्यो हि न दत्तं च कृपया चातुराय च
एवं स भुंक्ते स्वं मांसं गर्हयन्स्वीय कर्म च १०४
एवं स्वमांसं भुंजानं सुबाहुं प्रियया सह
हसेते च तदा दृष्ट्वा प्रज्ञा श्रद्धा च द्वे स्त्रियौ १०५
तस्य कर्मविपाकस्य शुभात्मा हसते नृप
मम संगप्रसंगेन न दत्तं पापचेतन १०६
प्रज्ञा च वचनैस्तैस्तु राजानं हसते पुनः
क्वगतोसौ महामोहो येन त्वं मोहितो नृप १०७
लोभेन मोहयुक्तेन तमोगर्ते निपात्यते
तत्रापतित्वा मामैव पतितं दुःखसंकटे १०८
दानमार्गं परित्यज्य लोभमार्गं गतो नृप
भार्यया सह भुंक्ष्व त्वं व्यापितः क्षुधया भृशम् १०९
एवं तं हसते प्रज्ञा सुबाहुं प्रिययान्वितम्
एतद्धि कारणं सर्वं तयोर्हासस्य पुत्रक ११०
भक्ष्यमाणस्य भूपस्य देहं स्वं दुःखिते तदा
ऊचतुर्देहिदेहीति याच्यमानः सदैव हि १११
क्षुधातृष्णामहाप्राज्ञ भीमरूपे भयानके
पयसा मिश्रितं भक्षं याचेते नृपतीश्वरम् ११२
एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम्
अन्यत्किं ते प्रवक्ष्यामि तद्वदस्व महामते ११३
विज्वल उवाच-
वासुदेवाभिधानं तत्स्तोत्रं कथय मे पितः
येन मोक्षं व्रजेद्राजा तद्विष्णोः परमं पदम् ११४
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये-
च्यवनचरित्रे सप्तनवतितमोऽध्यायः ९७