सामग्री पर जाएँ

पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०९४

विकिस्रोतः तः
← अध्यायः ०९३ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ९४
अज्ञातलेखकः
अध्यायः ०९५ →

कुंजल उवाच-
श्रूयतामभिधास्यामि तत्सर्वं कारणं सुत ।
यस्मात्तौ तादृशौ जातौ स्वमांसपरिभक्षकौ १।
सर्वत्र कारणं कर्म शुभाशुभं न संशयः ।
पुण्येन कर्मणा पुत्र नरः सौख्यं प्रभुंजति २।
दुष्कृतं भुंजते चात्र पापयुक्तेन कर्मणा ।
सूक्ष्मवर्त्मविचार्यैवं शास्त्रज्ञानेन चक्षुषा ३।
स्थूलधर्मं प्रदृष्ट्वैव सुविचार्य पुनः पुनः ।
समारभेन्नरः कर्म मनसा निपुणेन च ४।
समूर्तिकारकः शिल्पी रसमावर्त्तयेद्यथा ।
अग्नेश्च तेजसा पुत्र ज्वालाभिश्च समंततः ५।
द्रवीभूतो भवेद्धातुर्वह्निना तापितः शनैः ।
यादृशं वत्स भक्ष्यंतु रसपक्वं निषेच्यते ६।
तादृशं जायते वत्स रूपं चैव न संशयः ।
यादृशं क्रियते कर्म तादृशं परिभुज्यते ७।
कर्म एव प्रधानं यद्वर्षारूपेण वर्त्तते ।
क्षेत्रेषु यादृशं बीजं वपते कृषिकारकः ८।
तादृशं भुंजते तात फलमेव न संशयः ।
यादृशं क्रियते कर्म तादृशं परिभुज्यते ९।
विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम् ।
कर्म दायादका लोके कर्म संबंधिबांधवाः १०।
कर्माणि चोदयंतीह पुरुषं सुखदुःखयोः ।
सुवर्णं रजतं वापि यथारूपं निषिच्यते ११।
तथा निषिच्यते जंतुः पूर्वकर्मवशानुगः ।
पंचैतानीह दृश्यंते गर्भस्थस्यैव देहिनः १२।
आयुः कर्म च वित्तं च विद्यानि धनमेव च ।
यथा मृत्पिंडकं कर्त्ता कुरुते यद्यदिच्छति १३।
तथा कर्मकृतं चैव कर्त्तारं प्रतिपद्यते ।
देवत्वमथ मानुष्यं पशुत्वं पक्षितां तथा १४।
तिर्यक्त्वं स्थावरत्वं वा याति जंतुः स्वकर्मभिः ।
स एव तु तथा भुंक्ते नित्यं विहितमात्मनः १५।
आत्मना विहितं दुःखमात्मना विहितं सुखम् ।
गर्भशय्यामुपादाय भुंजते पूर्वदेहिकम् १६।
पूर्वदेहकृतं कर्म न कश्चित्पुरुषोत्तमः ।
बलेन प्रज्ञया वापि समर्थः कर्तुमन्यथा १७।
स्वकृतान्येव भुंजंति दुःखानि च सुखानि च ।
हेतुतः कारणैर्वापि सोहं कारेण बाध्यते १८।
यथा धेनुसहस्रेषु वत्सो विंदति मातरम् ।
तद्वच्छुभाशुभं कर्म कर्तारमनुगच्छति १९।
उपभोगादृते यस्य नाश एव न विद्यते ।
प्राक्तनं बंधनं कर्म कोन्यथाकर्तुमर्हति २०।
सुशीघ्रमनुधावंतं विधानमनुधावति ।
शोभते संनिपातेन यथाकर्म पुराकृतम् २१।
उपतिष्ठति तिष्ठंतं गच्छं तमनुगच्छति ।
करोति कुर्वतः कर्मच्छायेवानु विधीयते २२।
यथा छायातपौ नित्यं सुसंबद्धौ परस्परम् ।
उपसर्गा हि विषया उपसर्गा जरादयः २३।
पीडयंति नरं पश्चात्पीडितं पूर्वकर्मणा ।
येन यत्रोपभोक्तव्यं दुःखं वा सुखमेव च २४।
स तत्र बद्ध्वा रज्ज्वेव बलाद्दैवेन नीयते ।
दैवं प्राहुश्च भूतानां सुखदुःखोपपादनम् २५।
अन्यथा कर्मतच्चिंत्यं जाग्रतः स्वपतोपि वा ।
अन्यथा ह्युद्यते दैवं बध्यते च जिघांसति २६।
शस्त्राग्निविषदुर्गेभ्यो रक्षितव्यं सुरक्षति ।
यथा पृथिव्यां बीजानि वृक्षगुल्मतृणान्यपि २७।
तथैवात्मनि कर्माणि तिष्ठंति प्रभवंति च ।
तैलक्षयाद्यथा दीपो निर्वाणमधिगच्छति २८।
कर्मक्षयात्तथा जंतोः शरीरं नाशमृच्छति ।
कर्मक्षयात्तथा मृत्युस्तत्त्वविद्भिरुदाहृतम् २९।
विविधाः प्राणिनां रोगाः स्मृतास्तेषां च हेतवः ।
तस्मात्तत्त्वप्रधानस्तु कर्म एव हि प्राणिनाम् ३०।
यत्पुरा क्रियते कर्म तदिहैव प्रभुज्यते ।
यत्त्वया दृष्टमेवापि पृच्छितं तात सांप्रतम् ३१।
तस्यार्थं तु मया प्रोक्तं भुंजाते तौ हि सांप्रतम् ।
आनंदे कानने दृष्टं तयोः कर्मसुदारुणम् ३२।
तयोश्चेष्टां प्रवक्ष्यामि शृणु वत्स प्रभाषतः ।
कर्मभूमिरियं तात अन्या भोगार्थभूमयः ३३।
सर्गादीनां महाप्राज्ञ तासु गत्वा सुभुंजति ।
सूत उवाच-
चौलदेशे महाप्राज्ञः सुबाहुर्नाम भूमिपः ३४।
रूपवान्गुणवान्धीरः पृथिव्यां नास्ति तादृशः ।
विष्णुभक्तो महाप्राज्ञो वैष्णवानां च सुप्रियः ३५।
कर्मणा त्रिविधेनापि प्रध्यायन्मधुसूदनम् ।
अश्वमेधादिकान्यज्ञान्यजेत सकलान्नृप ३६।
पुरोधास्तस्य चैवास्ति जैमिनिर्नाम ब्राह्मणः ।
स चाहूय सुबाहुं तमिदं वचनमब्रवीत् ३७।
राजन्देहि सुदानानि यैः सुखं तु प्रभुंज्यत ।
दानैस्तु तरते लोकान्दुर्गान्प्रेत्य गतो नरः ३८।
दानेन सुखमाप्नोति यशः प्राप्नोति शाश्वतम् ।
दानेन चातुला कीर्तिर्जायते मृत्युमंडले ३९।
यावत्कीर्तिः स्थिता चात्र तावत्कर्ता दिवं वसेत् ।
तद्दानं दुष्करं प्राहुर्दातुं नैव प्रशक्यते ४०।
तस्मात्सर्वप्रयत्नेन दातव्यं मानवैः सदा ।
सुबाहुरुवाच-
दानाच्च तपसो वापि द्वयोर्मध्ये सुदुष्करम् ४१।
किं वा महत्फलं प्रेत्य तन्मे ब्रूहि द्विजोत्तम ।
जैमिनिरुवाच-
दानान्न दुष्करतरं पृथिव्यामस्ति किंचन ४२।
राजन्प्रत्यक्षमेवैकं दृश्यते लोकसाक्षिकम् ।
परित्यज्य प्रियान्प्राणान्धनार्थं लोभमोहिताः ४३।
प्रविशंति नरा लोके समुद्रमटवीं तथा ।
सेवामन्ये प्रपद्यंतेऽश्ववृत्तिरिति या स्थिता ४४।
हिंसाप्रायां बहुक्लेशां कृषिं चैव तथा पुरा ।
तस्य दुःखार्जितस्यापि प्राणेभ्योपि गरीयसः ४५।
अर्थस्य पुरुषव्याघ्र परित्यागः सुदुष्करः ।
विशेषतो महाराज तस्य न्यायार्जितस्य च ४६।
श्रद्धया विधिवत्पात्रे दत्तस्यांतो न विद्यते ।
श्रद्धा धर्मसुता देवी पावनी विश्वतारिणी ४७।
सावित्री प्रसवित्री च संसारार्णवतारिणी ।
श्रद्धया साध्यते धर्मो महद्भिर्न्नार्थराशिभिः ४८।
निष्किंचनास्तु मुनयः श्रद्धाधर्मा दिवं गताः ।
संति दानान्यनेकानि नानाभेदैर्नृपोत्तम ४९।
अन्नदानात्परं नास्ति प्राणिनां गतिदायकम् ।
तस्मादन्नं प्रदातव्यं पयसा च समन्वितम् ५०।
मधुरेणापि पुण्येन वचसा च समन्वितम् ।
नास्त्यन्नात्तु परं दानमिहलोके परत्र च ५१।
तारणाय हितायैव सुखसंपत्तिहेतवे ।
श्रद्धया विधिवत्पात्रे निर्मलेनापि चेतसा ५२।
अन्नैकस्य प्रदानस्य फलं भुंक्ते भवेन्नरः ।
ग्रासाद्ग्रासं प्रदातव्यं मुष्टिप्रस्थं न संशयः ५३।
अक्षयं जायते तस्य दानस्यापि महाफलम् ।
न च प्रस्थं न वा मुष्टिं नरस्य हि न संभवेत् ५४।
अनास्तिक्यप्रभावेण पर्वणि प्राप्य मानवः ।
श्रद्धया ब्राह्मणं चैकं भक्त्या चैव प्रभोजयेत् ५५।
एकस्यापि प्रधानस्य अन्नस्यापि प्रजेश्वर ।
जन्मांतरं सुसंप्राप्य नित्यं चान्नं प्रभुंजति ५६।
पूर्वजन्मनि यद्दत्तं भक्त्या पात्रे सकृन्नरैः ।
जन्मांतरं सुसंप्राप्य नित्यमेव भुनक्ति च ५७।
अन्नदानं प्रयच्छंति ब्राह्मणेभ्यो हि नित्यशः ।
मिष्टान्नपानं भुंजंति ते नरा अन्नदायिनः ५८।
अन्नमेव वदंत्येत ऋषयो वेदपारगाः ।
प्राणभूतं न संदेहममृताद्धि समुद्भवम् ५९।
प्राणास्तेन प्रदत्ता हि येन चान्नं समर्पितम् ।
अन्नदानं महाराज देहि त्वं तु प्रयत्नतः ६०।
एवमाकर्ण्य वै राजा जैमिनेस्तु महात्मनः ।
पुनः पप्रच्छ तं विप्रं जैमिनिं ज्ञानपंडितम् ६१।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे चतुर्नवतितमोऽध्यायः ९४।