पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०८१

विकिस्रोतः तः
← अध्यायः ०८० पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ८१
अज्ञातलेखकः
अध्यायः ०८२ →

सुकर्मोवाच-
यथेंद्रोसौ महाप्राज्ञः सदा भीतो महात्मनः ।
ययातेर्विक्रमं दृष्ट्वा दानपुण्यादिकं बहु १।
मेनकां प्रेषयामास अप्सरां दूतकर्मणि ।
गच्छ भद्रे महाभागे ममादेशं वदस्व हि २।
कामकन्यामितो गत्वा देवराजवचो वद ।
येनकेनाप्युपायेन राजानं त्वमिहानय ३।
एवं श्रुत्वा गता सा च मेनका तत्र प्रेषिता ।
समाचष्ट तु तत्सर्वं देवराजस्य भाषितम् ४।
एवमुक्ता गता सा च मेनका तत्प्रचोदिता ।
गतायां मेनकायां तु रतिपुत्री मनस्विनी ५।
राजानं धर्मसंकेतं प्रत्युवाच यशस्विनी ।
राजंस्त्वयाहमानीता सत्यवाक्येन वै पुरा ६।
स्वकरश्चांतरे दत्तो भवनं च समाहृता ।
यद्यद्वदाम्यहं राजंस्तत्तत्कार्यं हि वै त्वया ७।
तदेवं हि त्वया वीर न कृतं भाषितं मम ।
त्वामेवं तु परित्यक्ष्ये यास्यामि पितृमंदिरम् ८।
राजोवाच-
यथोक्तं हि त्वया भद्रे तत्ते कर्त्ता न संशयः ।
असाध्यं तु परित्यज्य साध्यं देवि वदस्व मे ९।
अश्रुबिंदुमत्युवाच-
एतदर्थे महीकांत भवानिह मया वृतः ।
सर्वलक्षणसंपन्नः सर्वधर्मसमन्वितः १०।
सर्वं साध्यमिति ज्ञात्वा सर्वधर्तारमेव च ।
कर्त्तारं सर्वधर्माणां स्रष्टारं पुण्यकर्मणाम् ११।
त्रैलोक्यसाधकं ज्ञात्वा त्रैलोक्येऽप्रतिमं च वै ।
विष्णुभक्तमहं जाने वैष्णवानां महावरम् १२।
इत्याशया मया भर्त्ता भवानंगीकृतः पुरा ।
यस्य विष्णुप्रसादोऽस्ति स सर्वत्र परिव्रजेत् १३।
दुर्लभं नास्ति राजेंद्र त्रैलोक्ये सचराचरे ।
सर्वेष्वेव सुलोकेषु विद्यते तव सुव्रत १४।
विष्णोश्चैव प्रसादेन गगने गतिरुत्तमा ।
मर्त्यलोकं समासाद्य त्वयैव वसुधाधिप १५।
जरापलितहीनास्तु मृत्युहीना जनाः कृताः ।
गृहद्वारेषु सर्वेषु मर्त्यानां च नरर्षभ १६।
कल्पद्रुमा अनेकाश्च त्वयैव परिकल्पिताः ।
येषां गृहेषु मर्त्यानां मुनयः कामधेनवः १७।
त्वयैव प्रेषिता राजन्स्थिरीभूताः सदा कृताः ।
सुखिनः सर्वकामैश्च मानवाश्च त्वया कृताः १८।
गृहैकमध्ये साहस्रं कुलीनानां प्रदृश्यते ।
एवं वंशविवृद्धिश्च मानवानां त्वया कृता १९।
यमस्यापि विरोधेन इंद्रस्य च नरोत्तम ।
व्याधिपापविहीनस्तु मर्त्यलोकस्त्वया कृतः २०।
स्वतेजसाहंकारेण स्वर्गरूपं तु भूतलम् ।
दर्शितं हि महाराज त्वत्समो नास्ति भूपतिः २१।
नरो नैव प्रसूतो हि नोत्पत्स्यति भवादृशः ।
भवंतमित्यहं जाने सर्वधर्मप्रभाकरम् २२।
तस्मान्मया कृतो भर्ता वदस्वैवं ममाग्रतः ।
नर्ममुक्त्वा नृपेंद्र त्वं वद सत्यं ममाग्रतः २३।
यदि ते सत्यमस्तीह धर्ममस्ति नराधिप ।
देवलोकेषु मे नास्ति गगने गतिरुत्तमा २४।
सत्यं त्यक्त्वा यदा च त्वं नैव स्वर्गं गमिष्यसि ।
तदा कूटं तव वचो भविष्यति न संशयः २५।
पूर्वंकृतं हि यच्छ्रेयो भस्मीभूतं भविष्यति ।
राजोवाच-
सत्यमुक्तं त्वया भद्रे साध्यासाध्यं न चास्ति मे २६।
सर्वंसाध्यं सुलोकं मे सुप्रसादाज्जगत्पते ।
स्वर्गं देवि यतो नैमि तत्र मे कारणं शृणु २७।
आगंतुं तु न दास्यंति लोके मर्त्ये च देवताः ।
ततो मे मानवाः सर्वे प्रजाः सर्वा वरानने २८।
मृत्युयुक्ता भविष्यंति मया हीना न संशयः ।
गंतुं स्वर्गं न वाञ्छामि सत्यमुक्तं वरानने २९।
देव्युवाच-।
लोकान्दृष्ट्वा महाराज आगमिष्यसि वै पुनः ।
पूरयस्व ममाद्यत्वं जातां श्रद्धां महातुलाम् ३०।
राजोवाच-।
सर्वमेवं करिष्यामि यत्त्वयोक्तं न संशयः ।
समालोक्य महातेजा ययातिर्नहुषात्मजः ३१।
एवमुक्त्वा प्रियां राजा चिंतयामास वै तदा ।
अंतर्जलचरो मत्स्यः सोपि जाले न बध्यते ३२।
मरुत्समानवेगोपि मृगः प्राप्नोति बंधनम् ।
योजनानां सहस्रस्थमामिषं वीक्षते खगः ३३।
सकंठलग्नपाशं च न पश्येद्दैवमोहितः ।
कालः समविषमकृत्कालः सन्मानहानिदः ३४।
परिभावकरः कालो यत्रकुत्रापि तिष्ठतः ।
नरं करोति दातारं याचितारं च वै पुनः ३५।
भूतानि स्थावरादीनि दिवि वा यदि वा भुवि ।
सर्वं कलयते कालः कालो ह्येक इदं जगत् ३६।
अनादिनिधनो धाता जगतः कारणं परम् ।
लोकान्कालः स पचति वृक्षे फलमिवाहितम् ३७।
न मंत्रा न तपो दानं न मित्राणि न बांधवाः ।
शक्नुवंति परित्रातुं नरं कालेन पीडितम् ३८।
त्रयः कालकृताः पाशाः शक्यंते नातिवर्तितुम् ।
विवाहो जन्ममरणं यदा यत्र तु येन च ३९।
यथा जलधरा व्योम्नि भ्राम्यंते मातरिश्वना ।
तथेदं कर्मयुक्तेन कालेन भ्राम्यते जगत् ४०।
सुकर्मोवाच-।
कालोऽयं कर्मयुक्तस्तु यो नरैः समुपासितः ।
कालस्तु प्रेरयेत्कर्म न तं कालः करोति सः ४१।
उपद्रवा घातदोषाः सर्पाश्च व्याधयस्ततः ।
सर्वे कर्मनियुक्तास्ते प्रचरंति च मानुषे ४२।
सुखस्य हेतवो ये च उपायाः पुण्यमिश्रिताः ।
ते सर्वे कर्मसंयुक्ता न पश्येयुः शुभाशुभम् ४३।
कर्मदा यदि वा लोके कर्मसंबधि बांधवाः ।
कर्माणि चोदयंतीह पुरुषं सुखदुःखयोः ४४।
सुवर्णं रजतं वापि यथा रूपं विनिश्चितम् ।
तथा निबध्यते जंतुः स्वकर्मणि वशानुगः ४५।
पंचैतानीह सृज्यंते गर्भस्थस्यैव देहिनः ।
आयुः कर्म च वित्तं च विद्यानिधनमेव च ४६।
यथा मृत्पिंडतः कर्ता कुरुते यद्यदिच्छति ।
तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ४७।
देवत्वमथ मानुष्यं पशुत्वं पक्षिता तथा ।
तिर्यक्त्वं स्थावरत्वं च प्राप्यते च स्वकर्मभिः ४८।
स एव तत्तथा भुंक्ते नित्यं विहितमात्मना ।
आत्मना विहितं दुःखं चात्मना विहितं सुखम् ४९।
गर्भशय्यामुपादाय भुंजते पूर्वदैहिकम् ।
संत्यजंति स्वकं कर्म न क्वचित्पुरुषा भुवि ५०।
बलेन प्रज्ञया वापि समर्थाः कर्तुमन्यथा ।
सुकृतान्युपभुंजंति दुःखानि च सुखानि च ५१।
हेतुं प्राप्य नरो नित्यं कर्मबंधैस्तु बध्यते ।
यथा धेनुसहस्रेषु वत्सो विंदति मातरम् ५२।
तथा शुभाशुभं कर्म कर्तारमनुगच्छति ।
उपभोगादृते यस्य नाश एव न विद्यते ५३।
प्राक्तनं बंधनं कर्म कोन्यथा कर्तुमर्हति ।
सुशीघ्रमपि धावंतं विधानमनुधावति ५४।
शेते सह शयानेन पुरा कर्म यथाकृतम् ।
उपतिष्ठति तिष्ठंतं गच्छंतमनुगच्छति ५५।
करोति कुर्वतः कर्मच्छायेवानु विधीयते ।
यथा छायातपौ नित्यं सुसंबद्धौ परस्परम् ५६।
तद्वत्कर्म च कर्ता च सुसंबद्धौ परस्परम् ।
ग्रहा रोगा विषाः सर्पाः शाकिन्यो राक्षसास्तथा ५७।
पीडयंति नरं पश्चात्पीडितं पूर्वकर्मणा ।
येन यत्रोपभोक्तव्यं सुखं वा दुःखमेव वा ५८।
स तत्र बद्ध्वा रज्ज्वा वै बलाद्दैवेन नीयते ।
दैवः प्रभुर्हि भूतानां सुखदुःखोपपादने ५९।
अन्यथा चिंत्यते कर्म जाग्रता स्वपतापि वा ।
अन्यथा स तथा प्राज्ञ दैव एवं जिघांसति ६०।
शस्त्राग्नि विष दुर्गेभ्यो रक्षितव्यं च रक्षति ।
अरक्षितं भवेत्सत्यं तदेवं दैवरक्षितम् ६१।
दैवेन नाशितं यत्तु तस्य रक्षा न दृश्यते ।
यथा पृथिव्यां बीजानि उप्तानि च धनानि च ६२।
तथैवात्मनि कर्माणि तिष्ठंति प्रभवंति च ।
तैलक्षयाद्यथा दीपो निर्वाणमधिगच्छति ६३।
कर्मक्षयात्तथा जंतुः शरीरान्नाशमृच्छति ।
कर्मक्षयात्तथा मृत्युस्तत्त्वविद्भिरुदाहृतः ६४।
विविधाः प्राणिनस्तस्य मृत्यो रोगाश्च हेतवः ।
तथा मम विपाकोयं पूर्वं कृतस्य नान्यथा ६५।
संप्राप्तो नात्र संदेहः स्त्रीरूपोऽयं न संशयः ।
क्व मे गेहं समायाता नाटका नटनर्तकाः ६६।
तेषां संगप्रसंगेन जरा देहं समाश्रिता ।
सर्वं कर्मकृतं मन्ये यन्मे संभावितं ध्रुवम् ६७।
तस्मात्कर्मप्रधानं च उपायाश्च निरर्थकाः ।
पुरा वै देवराजेन मदर्थे दूतसत्तमः ६८।
प्रेषितो मातलिर्नाम न कृतं तस्य तद्वचः ।
तस्य कर्मविपाकोऽयं दृश्यते सांप्रतं मम ६९।
इति चिंतापरो भूत्वा दुःखेन महतान्वितः ।
यद्यस्याहि वचः प्रीत्या न करोमि हि सर्वथा ७०।
सत्यधर्मावुभावेतौ यास्यतस्तौ न संशयः ।
सदृशं च समायातं यद्दृष्टं मम कर्मणा ७१।
भविष्यति न संदेहो दैवो हि दुरतिक्रमः ।
एवं चिंतापरो भूत्वा ययातिः पृथिवीपतिः ७२।
कृष्णं क्लेशापहं देवं जगाम शरणं हरिम् ।
ध्यात्वा नत्वा ततः स्तुत्वा मनसा मधुसूदनम् ७३।
त्राहि मां शरणं प्राप्तस्त्वामहं कमलाप्रिय ७४।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे एकाशीतितमोऽध्यायः ८१।