पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०६३
← अध्यायः ०६२ | पद्मपुराणम्/खण्डः २ (भूमिखण्डः) अध्यायः ६३ अज्ञातलेखकः |
अध्यायः ०६४ → |
सुकर्मोवाच-
तयोश्चापि द्विजश्रेष्ठ मातापित्रोश्च स्नातयोः ।
पुत्रस्यापि हि सर्वांगे पतंत्यंबुकणा यदा १।
सर्वतीर्थसमं स्नानं पुत्रस्यापि सुजायते ।
पतितं विकलं वृद्धमशक्तं सर्वकर्मसु २।
व्याधितं कुष्ठिनं तातं मातरं च तथाविधाम् ।
उपाचरति यः पुत्रस्तस्य पुण्यं वदाम्यहम् ३।
विष्णुस्तस्य प्रसन्नात्मा जायते नात्र संशयः ।
प्रयाति वैष्णवं लोकं यदप्राप्यं हि योगिभिः ४।
पितरौ विकलौ दीनौ वृद्धावेतौ गुरू सुतः ।
महागदेन संप्राप्तौ परित्यजति पापधीः ५।
पुत्रो नरकमाप्नोति दारुणं कृमिसंकुलम् ।
वृद्धाभ्यां च समाहूतो गुरूभ्यामिह सांप्रतम् ६।
न प्रयाति सुतो भूत्वा तस्य पापं वदाम्यहम् ।
विष्ठाशी जायते मूढो ग्रामघ्रोणी न संशयः ७।
यावज्जन्मसहस्रं तु पुनः श्वा चाभिजायते ।
पुत्रगेहेस्थितौ वृद्धौ माता च जनकस्तथा ८।
अभोजयित्वा तावन्नं स्वयमत्ति च यः सुतः ।
मूत्रं विष्ठां स भुंजीत यावज्जन्मसहस्रकम् ९।
कृष्णसर्पो भवेत्पापी यावज्जन्मशतद्वयम् ।
मातरंपितरं वृद्धमवज्ञाय प्रवर्त्तते १०।
ग्राहोपि जायते दुष्टो जन्मकोटिशतैरपि ।
तावेतौ कुत्सते पुत्रः कटुकैर्वचनैरपि ११।
स च पापी भवेद्व्याघ्रः पश्चादृक्षः प्रजायते ।
मातरंपितरं पुत्रो यो न मन्येत दुष्टधीः १२।
कुंभीपाके वसेत्तावद्यावद्युगसहस्रकम् ।
नास्ति मातृसमं तीर्थं पुत्राणां च पितुः समम् १३।
तारणाय हितायैव इहैव च परत्र च ।
तस्मादहं महाप्राज्ञ पितृदेवं प्रपूजये १४।
मातृदेवं सर्वदेव योगयोगी तथाभवम् ।
मातृपितृप्रसादेन संजातं ज्ञानमुत्तमम् १५।
त्रिलोकीयं समस्ता तु संयाता मम वश्यताम् ।
अर्वाचीनगतिं जाने देवस्यास्य महात्मनः १६।
वासुदेवस्य तस्यैव पराचीनां महामते ।
सर्वं ज्ञानं समुद्भूतं पितृमातृप्रसादतः १७।
को न पूजयते विद्वान्पितरं मातरं तथा ।
सांगोपांगैरधीतैस्तैः श्रुतिशास्त्रसमन्वितैः १८।
वेदैरपि च किं विप्रा पिता येन न पूजितः ।
माता न पूजिता येन तस्य वेदा निरर्थकाः १९।
यज्ञैश्च तपसा विप्र किं दानैः किं च पूजनैः ।
प्रयाति तस्य वैफल्यं न माता येन पूजिता २०।
न पिता पूजितो येन जीवमानो गृहे स्थितः ।
एष पुत्रस्य वै धर्मस्तथा तीर्थं नरेष्विह २१।
एष पुत्रस्य वै मोक्षस्तथा जन्मफलं शुभम् ।
एष पुत्रस्य वै यज्ञो दानमेव न संशयः २२।
पितरं पूजयेन्नित्यं भक्त्या भावेन तत्परः ।
तस्य जातं समस्तं तद्यदुक्तं पूर्वमेव हि २३।
दानस्यापि फलं तेन तीर्थस्यापि न संशयः ।
यज्ञस्यापि फलं प्राप्तं माता येनाप्युपासिता २४।
पिता येन सुभक्त्या च नित्यमेवाप्युपासितः ।
तस्य सर्वा सुसंसिद्धा यज्ञाद्याः पुण्यदाः क्रियाः २५।
एतदर्थं समाज्ञातं धर्मशास्त्रं श्रुतं मया ।
पितृभक्तिपरो नित्यं भवेत्पुत्रो हि पिप्पल २६।
तुष्टे पितरि संप्राप्तं यदुराज्ञा पुरा सुखम् ।
रुष्टे पितरि च प्राप्तं महत्पापं पुरा शृणु २७।
रुरुणा पौरवेणापि पित्रा शप्तेन भूतले ।
एवं ज्ञानं मया चाप्तं द्वावेतौ यदुपासितौ २८।
एतयोश्च प्रसादेन प्राप्तं फलमनुत्तमम् २९।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थ-माहात्म्ये त्रिषष्टितमोऽध्यायः ६३ ।