पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०५१

विकिस्रोतः तः

ब्राह्मण्युवाच-
गते तस्मिन्दुराचारे गोभिले पापचेतसि ।
पद्मावती रुरोदाथ दुःखेन महतान्विता १।
तस्यास्तु रुदितं श्रुत्वा सख्यः सर्वा द्विजोत्तम ।
पप्रच्छुस्तां राजकन्यां ताः सर्वाश्च वराननाः २।
कस्माद्रोदिषि भद्रं ते कथयस्व हि चेष्टितम् ।
क्व गतोऽसौ महाराजो माथुराधिपतिस्तव ३।
येन त्वं हि समाहूता प्रियेत्युक्त्वा वदस्व नः ।
ता उवाच सुदुःखेन रोदमाना पुनः पुनः ४।
तया आवेदितं सर्वं यज्जातं दोषसंभवम् ।
ताभिर्नीता पितुर्गेहं वेपमाना सुदुःखिता ५।
मातुः समक्षं तस्यास्तु आचचक्षुस्तदा स्त्रियः ।
समाकर्ण्य ततो देवी गता सा भर्तृमंदिरम् ६।
भर्तारं श्रावयामास सुतावृत्तांतमेव हि ।
समाकर्ण्य ततो राजा महादुःखी अजायत ७।
यानाच्छादनकं दत्वा परिवारसमन्विताम् ।
मथुरां प्रेषयामास गता सा प्रियमंदिरम् ८।
सुतादोषं समाच्छाद्य पितामाता द्विजोत्तम ।
उग्रसेनस्तु धर्मात्मा पद्मावतीं समागताम् ९।
स दृष्ट्वा मुमुदे चाशु उवाचेदं वचः पुनः ।
त्वया विना न शक्तोस्मि जीवितुं हि वरानने १०।
बहुप्रभासि मे प्रीता गुणशीलैस्तु सर्वदा ।
भक्त्या सत्येन ते कांते पतिदैवत्यकैर्गुणैः ११।
समाभाष्य प्रियां भार्यां पद्मावतीं नरेश्वरः ।
तया सार्धं स वै रेमे उग्रसेनो नृपोत्तमः १२।
ववृधे दारुणो गर्भः सर्वलोकभयप्रदः ।
पद्मावती विजानाति तस्य गर्भस्य कारणम् १३।
स्वोदरे वर्द्धमानस्य चिंतयंती दिवानिशम् ।
अनेन किमु जातेन लोकनाशकरेण वै १४।
अनेनापि न मे कार्यं दुष्टपुत्रेण सांप्रतम् ।
औषधीं पृच्छते सा तु गर्भपातस्य सर्वतः १५।
नारी महौषधीं सा हि विंदंती च दिने दिने ।
गर्भस्य पातनायैव उपाया बहुशः कृताः १६।
ववृधे दारुणो गर्भः सर्वलोकभयंकरः ।
तामुवाच ततो गर्भः पद्मावतीं च मातरम् १७।
कस्मात्त्वं व्यथसे मातरौषधीभिर्दिनेदिने ।
पुण्येन वर्द्धते चायुः पापेनाल्पं तु जीवितम् १८।
आत्मकर्मविपाकेन जीवंति च म्रियंति च ।
आमगर्भाः प्रयांत्यन्ये अपक्वास्तु महीतले १९।
जातमात्रा म्रियंतेऽन्ये कति ते यौवनान्विताः ।
बाला वृद्धाश्च तरुणा आयुषोवशतां गताः २०।
सर्वे कर्मविपाकेन जीवंति च म्रियंति च ।
ओषध्यो मंत्रदेवाश्च निमित्ताः स्युर्न संशयः २१।
मामेव हि न जानासि भवती यादृशो ह्यहम् ।
दृष्टः श्रुतस्त्वया पूर्वं कालनेमिर्महाबलः २२।
दानवानां महावीर्यस्त्रैलोक्यस्य भयप्रदः ।
देवासुरे महायुद्धे हतोहं विष्णुना पुरा २३।
साधयितुं च तद्वैरमागतोऽस्मि तवोदरम् ।
साहसं च श्रमं मातर्मा कुरुष्व दिन दिने २४।
एवमुक्त्वा द्विजश्रेष्ठ मातरं विरराम सः ।
मातोद्यमं परित्यज्य महादुःखादभूत्तदा २५।
दशाब्दाश्च गता यावत्तावद्वृद्धिमवाप्तवान् ।
पश्चाज्जज्ञे महातेजाः कंसोभूत्स महाबलः २६।
येन संत्रासिता लोकास्त्रैलोक्यस्य निवासिनः ।
यो हतो वासुदेवेन गतो मोक्षं न संशयः २७।
एवं श्रुतं मया कांत भविष्यं तु भविष्यति ।
पुराणेष्वेव सर्वेषु निश्चितं कथितं तव २८।
पितृगेहेस्थिता कन्या नाशमेवं प्रयाति सा ।
गृहावासाय मे कांत कन्या मोहं न कारयेत् २९।
इमां दुष्टां महापापां परित्यज्य स्थिरो भव ।
प्राप्तव्यं तु महापापं दुःखं दारुणमेव च ३०।
लोके श्रेयःकरं कांत तद्भुंक्ष्व त्वं मया सह ।
शूकर्युवाच-
एतद्वाक्यं सुमंत्रं तु श्रुत्वा स हि द्विजोत्तमः ३१।
त्यागे मतिं चकारासौ समाहूता ह्यहं तदा ।
सकलं वस्त्रशृंगारं मम दत्तं शुभे शृणु ३२।
तवैव दुर्नयैर्विप्रः शिवशर्मा द्विजोत्तमः ।
गतो वै मतिमान्दुष्टे कुलदुष्टप्रचारिणि ३३।
यत्र ते तिष्ठते भर्ता तत्र गच्छ न संशयः ।
तव यद्रोचते स्थानं यथादिष्टं तथा कुरु ३४।
एवमुक्त्वा महाभागे पितृमातृकुटुंबकैः ।
परित्यक्ता गता शीघ्रं निर्लज्जाहं वरानने ३५।
न लभाम्यहमेवापि वासस्थानं सुखं शुभे ।
भर्त्सयंति च मां लोकाः पुंश्चलीयं समागता ३६।
अटमाना गता देशात्कुलमानेन वर्जिता ।
देशे गुर्जरके पुण्ये सौराष्ट्रे शिवमंदिरे ३७।
वनस्थलेति विख्यातं नगरं वृद्धिसंकुलम् ।
अतीव पीडिता देवि क्षुधयाहं तदा शृणु ३८।
कर्परं हि करे गृह्य भिक्षार्थमुपचक्रमे ।
गृहिणां द्वारदेशेषु प्रविशामि सुदुःखिता ३९।
मम रूपं विपश्यंति लोकाः कुत्संति भामिनि ।
न ददंते च मे भिक्षां पापा चेयं समागता ४०।
एवं दुःखसमाहारा दारिद्र्यपरिपीडिता ।
अटंत्या च मया दृष्टं गृहमेकमनुत्तमम् ४१।
तुंगप्राकारसंवेष्टं वेदशालासमन्वितम् ।
वेदध्वनिसमाकीर्णं बहुविप्रसमाकुलम् ४२।
धनधान्यसमाकीर्णं दासीदासैरलंकृतम् ।
प्रविवेश गृहं रम्यं लक्ष्मीमुदितमेव तत् ४३।
तद्गृहं सर्वतोभद्रं तस्यैव शिवशर्मणः ।
भिक्षां देहीत्युवाचाथ सुदेवा दुःखपीडिता ४४।
शिवशर्माथ शुश्राव भिक्षाशब्दं द्विजोत्तमः ।
मंगलां नाम वै भार्यां लक्ष्मीरूपां वराननाम् ४५।
तां हसन्प्राह धर्मात्मा शिवशर्मा महामतिः ।
इयं हि दुर्बला प्राप्ता भिक्षार्थं द्वारमागता ४६।
समाहूय प्रिये चैनां देहि त्वं भोजनं शुभे ।
कृपया परयाविष्टा ज्ञात्वा मां तु समागताम् ४७।
प्रोवाच मंगला कांतं दास्यामि प्रिय भोजनम् ।
एवमुक्त्वा च भर्तारं मंगला मंगलान्विता ४८।
पुनर्मां भोजयामास मिष्टान्नेन सुदुर्बलाम् ।
मामुवाच स धर्मात्मा शिवशर्मा महामुनिः ४९।
का त्वमत्र समायाता कस्य वा भ्रमसे जगत् ।
केन कार्येण सर्वत्र कथयस्व ममाग्रतः ५०।
एवमाकर्ण्य तद्वाक्यं भर्तुश्चैव महात्मनः ।
स्वरेण लक्षितः कांतो मया वै पापया तदा ५१।
व्रीडयाधोमुखीजाता दृष्टो भर्ता यदा मया ।
मंगला चारुसर्वांगी भर्तारमिदमब्रवीत् ५२।
का चेयं हि समाचक्ष्व त्वां दृष्ट्वा हि विलज्जति ।
कथयस्व प्रसादेन का च एषा भविष्यति ५३।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे
एकपंचाशत्तमोऽध्यायः ५१।