पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०४६
षट्चत्वारिंशोऽध्यायः
सुकलोवाच-
श्वसंतीं शूकरीं दृष्ट्वा पतितां पुत्रवत्सलाम् ।
सुदेवावकृपयाविष्टा गत्वा तां दुःखितां प्रति १।
अभिषिच्य मुखं तस्याः शीतलेनोदकेन च ।
पुनः सर्वांगमेवापि दुःखितां रणशालिनीम् २।
पुण्येन शीततोयेन सा उवाचाभिषिंचतीम् ।
उवाच मानुषीं वाचं सुस्वरं नृपतिप्रियाम् ३।
सुखं भवतु ते देवि अभिषिक्ता त्वया यदि ।
संपर्काद्दर्शनात्तेद्य गतो मे पापसंचयः ४।
तदाकर्ण्य महद्वाक्यमद्भुताकारसंयुतम् ।
चित्रमेतन्मया दृष्टं कृतं तेऽनामयं वचः ५।
पशुजातिमतीचेयं सौष्ठवं भाषते स्फुटम् ।
स्वरव्यंजनसंपन्नं संस्कृतमुत्तमं मम ६।
हर्षेण विस्मयेनापि कृत्वा साहसमुत्तमम् ।
तत्रस्था सा महाभागा तं पतिं वाक्यमब्रवीत् ७।
पश्य राजन्नपूर्वेयं संस्कृतं भाषते महत् ।
पशुयोनिगता चेयं यथा वै मानुषो वदेत् ८।
तदाकर्ण्य ततो राजा सर्वज्ञानवतां वरः ।
अद्भुतमद्भुताकारं यन्न दृष्टं श्रुतं मया ९।
तामुवाच ततो राजा सुदेवां सुप्रियां तदा ।
पृच्छ चैनां शुभां कांते का चेयं तु भविष्यति १०।
श्रुत्वा तु नृपतेर्वाक्यं सा पप्रच्छ च सूकरीम् ।
का भविष्यसि त्वं भद्रे चित्रं ते दृश्यते बहु ११।
पशुयोनिगता त्वं वै भाषसे मानुषं वचः ।
सौष्ठवं ज्ञानसंपन्नं वद मे पूर्वचेष्टितम् १२।
भर्तुश्चापि महाराज भटस्यास्य महात्मनः ।
कोयं धर्मो महावीर्यो गतः स्वर्गं पराक्रमैः १३।
आत्मनश्च स्वभर्तुश्च सर्वं पूर्वानुगं वद ।
एवमुक्त्वा महाभागा विरराम नृपप्रिया १४।
शूकर्युवाच-
यदि पृच्छसि मां भद्रे ममास्य च महात्मनः ।
तत्सर्वं ते प्रवक्ष्यामि चरितं पूर्वचेष्टितम् १५।
अयमेष महाप्राज्ञो गंधर्वो गीतपंडितः ।
रंगविद्याधरो नाम सर्वशास्त्रार्थकोविदः १६।
मेरुं गिरिवरश्रेष्ठं चारुकंदरनिर्झरम् ।
तमाश्रित्य महातेजाः पुलस्त्यो मुनिसत्तमः १७।
तपश्चचार तेजस्वी निर्व्यलीकेन चेतसा ।
विद्याधरस्तत्र गतः स्वेच्छया स महाप्रभो १८।
तमाश्रित्य गिरिश्रेष्ठं गीतमभ्यसते तदा ।
स्वरतालसमोपेतं सुस्वरं चारुहासिनि १९।
गीतं श्रुत्वा मुनिस्तस्य ध्यानाच्चलितमानसः ।
गायंतं तमुवाचेदं गीतविद्याधरं प्रति २०।
भवद्गीतेन दिव्येन देवा मुह्यंति नान्यथा ।
सुस्वरेण सुपुण्येन तालमानेन पंडित २१।
लययुक्तेन भावेन मूर्च्छना सहितेन च ।
मे मनश्चलितं ध्यानाद्गीतेनानेन सुव्रत २२।
इदं स्थानं परित्यज्य अन्यस्थानं व्रजस्व तत् ।
गीतविद्याधर उवाच-
आत्मज्ञानसमं गीतमन्यस्थानं व्रजामि किम् २३।
दुःखं ददे न कस्यापि सुखदो नृषु सर्वदा ।
गीतेनानेन दिव्येन सर्वास्तुष्यंति देवताः २४।
शंभुश्चापि समानीतो गीतध्वनिरतो द्विज ।
गीतं सर्वरसं प्रोक्तं गीतमानंददायकम् २५।
शृंगाराद्यारसाः सर्वे गीतेनापि प्रतिष्ठिताः ।
शोभामायांति गीतेन वेदाश्चत्वार उत्तमाः २६।
गीतेन देवताः सर्वास्तोषमायांति नान्यथा ।
तदेवं निन्दसे गीतं मामेवं परिचालयेः २७।
अन्यायोऽयं महाभाग तवैव इह दृश्यते ।
पुलस्त्य उवाच-
सत्यमुक्तं त्वयाद्यैव गीतार्थं बहुपुण्यदम् २८।
शृणु त्वं मामकं वाक्यं मानं त्यज महामते ।
नाहं गीतं प्रकुत्सामि गीतं वंदामि नान्यथा २९।
विद्याश्चतुर्दशैवैता एकीभावेन भावदाः ।
प्राणिनां सिद्धिमायांति मनसा निश्चलेन च ३०।
तपश्च तद्वन्मंत्राश्च सुसिद्ध्यंत्येकचिंतया ।
हृषीकाणां महावर्गश्चपलो मम संमतः ३१।
विषयेष्वेव सर्वेषु नयत्यात्मानमुच्चकैः ।
चालयित्वा मनस्तस्माद्ध्यानादेव न संशयः ३२।
यत्र शब्दं न रूपं च युवती नैव तिष्ठति ।
मुनयस्तत्र गच्छंति तपःसिद्ध्यर्थमेव हि ३३।
अयं गीतः पवित्रस्ते बहुसौख्यप्रदायकः ।
न पश्येम वयं वीर तिष्ठामो वनसंस्थिताः ३४।
अन्यत्स्थानं प्रयाहि त्वं नोवा वयं व्रजामहे ।
गीतविधाधर उवाच-
इंद्रियाणां बलं वर्गं जितं येन महात्मना ३५।
स जयी कथ्यते योगी स च वीरः ससाधकः ।
शब्दं श्रुत्वाथ वा दृष्ट्वा रूपमेवं महामते ३६।
चलते नैव यो ध्यानात्स धीरस्तपसाधकः ।
भवांस्तु तेजसा हीन इंद्रियैर्विजितो यतः ३७।
स्वर्गेपि नास्ति सामर्थ्यं मम गीतस्य धर्षणे ।
वर्जयंति वनं सर्वे हीनवीर्या न संशयः ३८।
अयं साधारणो विप्र वनदेशो न संशयः ।
देवानां सर्वजीवानां यथा मम तथा तव ३९।
कथं गच्छाम्यहं त्यक्त्वा वनमेवमनुत्तमम् ।
यूयं गच्छंतु तिष्ठंतु यद्भव्यं तत्तु नान्यथा ४०।
एवमाभाष्य तं विप्रं गीतविद्याधरस्तदा ।
समाकर्ण्य ततस्तेन मुनिना तस्य उत्तरम् ४१।
चिंतयामास मेधावी किं कृत्वा सुकृतं भवेत् ।
क्षमां कृत्वा जगामाथ अन्यत्स्थानं द्विजोत्तमः ४२।
तपश्चचार धर्मात्मा योगासनगतः सदा ।
कामं क्रोधं परित्यज्य मोहं लोभं तथैव च ४३।
सर्वेन्द्रियाणि संयम्य मनसा सममेव च ।
एवं स्थितस्तदा योगी पुलस्त्यो मुनिसत्तमः ४४।
सुकलोवाच-
गते तस्मिन्महाभागे पुलस्त्ये मुनिपुंगवे ।
कालादिष्टेन तेनापि गीतविद्याधरेण च ४५।
चिंतितं सुचिरं कालं न दृष्टोयं भयान्मम ।
क्व गतस्तिष्ठते वापि कुरुते किं कथं च सः ४६।
ज्ञात्वा पद्मात्मजसुतमेकांतवनशालिनम् ।
गतो वराहरूपेण तस्याश्रममनुत्तमम् ४७।
आसनस्थं महात्मानं तेजोज्वालासमाविलम् ।
दृष्ट्वा चकार वै क्षोभं तस्य विप्रस्य भामिनि ४८।
धर्षयेन्नियतं विप्रं तुंडाग्रेण कुचेष्टया ।
पशुं ज्ञात्वा महाराज क्षमते तस्य दुष्कृतम् ४९।
मूत्रयेत्पुरतः कृत्वा विष्ठां च कुरुते ततः ।
नृत्यते क्रीडते तत्र पतति प्रोच्चलेत्पुनः ५०।
पशुं ज्ञात्वा परित्यक्तो मुनिना तेन भूपते ।
एकदा तु तथायाते तेन रूपेण वै पुनः ५१।
अट्टाट्टहासेन पुनर्हास्यमेवं कृतं तदा ।
रोदनं च कृतं तत्र गीतं गायति सुस्वरम् ५२।
तथा तमागतं विप्रो गीतविद्याधरं नृप ।
चेष्टितं तस्य वै दृष्ट्वा घोणिरेष भवेन्नहि ५३।
ज्ञात्वा तस्य तु वृत्तांतं मामेवं परिचालयेत् ।
पशुं ज्ञात्वा मया त्यक्तो दुष्ट एष सुनिर्घृणः ५४।
एवं ज्ञात्वा महात्मानं गंधर्वाधममेव हि ।
चुकोप मुनिशार्दूलस्तं शशाप महामतिः ५५।
यस्माच्छूकररूपेण मामेवं परिचालयेः ।
तस्माद्व्रज महापाप पापयोनिं तु शौकरीम् ५६।
शप्तस्तेनापि विप्रेण गतो देवं पुरंदरम् ।
तमुवाच महात्मानं कंपमानो वरानने ५७।
शृणु वाक्यं सहस्राक्ष तव कार्यं कृतं मया ।
तप एव हि कुर्वन्सन्दारुणं मुनिपुंगवः ५८।
तस्मात्तपःप्रभावात्तु चालितः क्षोभितो मया ।
शप्तस्तेनास्मि विप्रेण देवरूपं प्रणाशितम् ५९।
पशुयोनिं गतं शक्र मामेवं परिरक्षय ।
ज्ञात्वा तस्य स वृत्तांतं गीतविद्याधरस्य च ६०।
तेन सार्धंगतश्चेंद्रस्तं मुनिं पर्यभाषत ।
दीयतामनुग्रहो नाथ सिद्धिज्ञोसि द्विजोत्तम ६१।
क्षम्यतां मुनिवर्यास्मिन्क्रियतां शापमोक्षणम् ।
इति संप्रार्थितो विप्रो महेंद्रेणाह हृष्टधीः ६२।
पुलस्त्य उवाच-
वचनात्तव देवेश क्षंतव्यं च मयापि हि ।
भविष्यति महाराज मनुपुत्रो महाबलः ६३।
इक्ष्वाकुर्नाम धर्मात्मा सर्वधर्मानुपालकः ।
तस्य हस्ताद्यदा मृत्युरस्यैव च भविष्यति ६४।
तदैष वै स्वकं देहं प्राप्स्यते नात्र संशयः ।
एतत्ते सर्ववृत्तांतं शूकरस्य निवेदितम् ६५।
आत्मनश्च प्रवक्ष्यामि पत्या सार्धं शृणुष्व हि ।
मया च पातकं घोरं कृतं यत्पापया पुरा ६६।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे।
षट्चत्वारिंशोऽध्यायः ४६।