सामग्री पर जाएँ

पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०४३

विकिस्रोतः तः

त्रयश्चत्वारिंशत्तमोऽध्यायः 2.43
सुकलोवाच-
एवं ते शूकराः सर्वे युद्धाय समुपस्थिताः ।
पुरः स्थितस्य ते राज्ञो ह्यवतस्थुश्च लुब्धकाः १।
महावराहो राजेंद्र गिरिसानुं समाश्रितः ।
महता यूथभावेन व्यूहं कृत्वा प्रतिष्ठति २।
कपिलः स्थूलपीनांगो महादंष्ट्रो महामुखः ।
दुःसहः शूकरो राजन्गर्जते चातिभैरवम् ३।
तानपश्यन्महाराजः शालतालवनाश्रयान् ।
तेषां तद्वचनं श्रुत्वा मनुपुत्रः प्रतापवान् ४।
गृह्यतां शूर वाराहो विध्यतां बलदर्पितः ।
एवमाभाष्य तान्वीरो मनुपुत्रः प्रतापवान् ५।
अथ ते लुब्धकाः सर्वे मृगया मदमोहिताः ।
संनद्धा दंशिताः सर्वे श्वभिः सार्द्धं प्रजग्मिरे ६।
हर्षेण महताविष्टो राजराजो महाबलः ।
अश्वारूढः सुसैन्येन चतुरंगेण संयतः ७।
गंगातीरं समायातो मेरौ गिरिवरोत्तमे ।
रत्नधातुसमाकीर्णे नानावृक्षैरलंकृते ८।
सुकलोवाच-
यो बलधाम मरीचिचयकरनिकरमयप्रोत्तुंगोऽत्युच्चम् ।
गगनमेव संप्राप्तो नाना नगाचरितशोभो गिरिराजो भाति ९।
योजनबहलविमल गंगाप्रवाह समुच्चरत्तीरवीचीतरंगभंगैर्मुक्ताफलसदृशैर्निर्मलांबुकणैः ।
सर्वत्र प्रक्षालित धवलतलशिलातलोगिरींद्र सुःश्रियायुक्तः १०।
देवैश्चारणकिन्नरैः परिवृतो गंधर्वविद्याधरैः सिद्धैरप्सरसांगणैर्मुनिजनैर्नागेंद्र विद्याधरैः ।
श्रीखंडैर्बहुचंदनैस्ससरलैः शालैस्तमालैर्गिरी रुद्रा क्षैर्वरसिद्धिदायकघनैः कल्पद्रुमैः शोभते ११।
नानाधातुविचित्रो वै नानारत्नविचित्रितैः ।
विमानैः कांचनैर्दंडैः कलत्रैरुपशोभते १२।
नालिकेरवनैर्दिव्यैः पूगवृक्षैर्विराजते ।
दिव्यपुन्नागबकुलैः कदलीखंडमंडितैः १३।
पुष्पकैश्चंपकैरद्रि पाःटलैः केतकैस्तथा ।
नानावल्लीवितानैश्च पुष्पितैः पद्मकैस्तथा १४।
नानावर्णैः सुपुष्पैश्च नानावृक्षैरलंकृतः ।
दिव्यवृक्षैः समाकीर्णः स्फाटिकस्य शिलातलैः १५।
योगियोगीन्द्र संसिद्धैः कंदरांतर्निवासिभिः ।
निर्झरैश्चैव रम्यैश्च बहुप्रस्रवणैर्गिरिः १६।
नदीप्रवाहसंह्रष्टैः संगमैरुपशोभते ।
ह्रदैश्च पल्वलैः कुंडैर्निर्मलोदकधारिभिः १७।
गिरिराजो विभात्येकः सानुभिः सह संस्थितैः ।
शरभैश्चैव शार्दूलैर्मृगयूथैरलंकृतः १८।
महामत्तैश्च मातंगैर्महिषैरुरुभिः सदा ।
अनेकैर्दिव्यभावैश्च गिरिराजो विभाति सः १९।
अयोध्याधिपतिर्वीर इक्ष्वाकुर्मनुनंदनः ।
तया सुभार्यया युक्तश्चतुरंगबलेन च २०।
पुरतो लुब्धका यांति शूराः श्वानश्च शीघ्रगाः ।
यत्रास्ते शूकरः शूरो भार्यया सहितो बली २१।
बहुभिः शूकरैर्गुप्तो गुरुभिः शिशुभिस्ततः ।
मेरुभूमिं समाश्रित्य गंगातीरं समंततः २२।
सुकलोवाच-।
तामुवाच वराहस्तु सुप्रियां हर्षसंयुतः ।
प्रिये पश्य समायातः कोशलाधिपतिर्बली २३।
मामुद्दिश्य महाप्राज्ञो मृगयां क्रीडते नृपः ।
युद्धमेव करिष्यामि सुरासुरप्रहर्षकम् २४।
अथ भूपो महातेजा बाणपाणिर्धनुर्धरः ।
सुदेवां सत्यधर्मांगीं तामुवाच प्रहर्षितः २५।
पश्य प्रिये महाकोलं गर्जमानं महाबलम् ।
परिवारसमायुक्तं दुःसहं मृगघातिभिः २६।
अद्यैवाहं हनिष्यामि सुबाणैर्निशितैः प्रिये ।
मामेव हि महाशूरो युद्धाय समुपाश्रयेत् २७।
एवमुक्त्वा प्रियो भार्यां लुब्धकान्वाक्यमब्रवीत् ।
यथा शूरो महाशूराः प्रेषयध्वं हि शूकरम् २८।
अथ ते प्रेषिताः शूरा बलतेजः पराक्रमाः ।
गर्जमानाः प्रधावंति बलतेजः पराक्रमाः २९।
कोलं प्रतिगताः सर्वे वायुवेगेन सांप्रतम् ।
विध्यंति बाणजालैस्ते निशितैर्वनचारकाः ३०।
नाना शस्त्रैरथास्त्रैश्च वाराहं वीररूपिणम् ३१।
सुकलोवाच-
पतंति बाणतोमरा विमुक्ता लुब्धकैः शरा घनागिरिंप्रवर्षिणो यथातथा धरांतरे ।
हतो दृढप्रहारिभिः स निर्जितस्ततस्तथा शतैस्तु यूथपालकः स कोलः संगरंगतः ३२।
स्वपुत्रपौत्रबांधवैः परांश्च संहरेत्स वै पतंति ते स्वदंष्ट्रया हताहवेऽवलुब्धकाः ।
पतंति पादहस्तकाः स्थितस्य वेगभ्रामणैः सलुब्धगर्जमेवतं वराहोऽपश्यदागतम् ३३।
स्वतेजसा विनाशितं मुखाग्रदंष्ट्रया हतं ।
गतः स यत्र भूपतिः स वांछतेनसंगरम् ३४।
इक्ष्वाकुनाथं सुमहत्प्रसह्य संत्रास्य क्रुद्धः स हि शूकरेशः ।
युद्धं वने वांछति तेन सार्द्धमिक्ष्वाकुणा संगरहर्षयुक्तः ३५।
वाराहः पुनरेव युद्धकुशलः संवांछते संगरं तुंडाग्रेण सुतीक्ष्णदंतनखरैः क्रुद्धो धरां क्षोभयन् ।
हुंकारोच्चारगर्वात्प्रहरति विमलं भूपतिं तं च राजञ्ज्ञात्वा विष्णुपराक्रमं मनुसुतस्त्वानन्दरोमांचितः ३६।
दृष्ट्वा शूकरपौरुषं यमतुलं मेने पतिर्वावराड्देवारिं मनसा विचिन्त्य सहसा वाराहरूपेण वै ।
संप्रेक्ष्यैव महाबलं बहुतरं युक्तं त्वरेर्वारणं सैन्यं कोलविनाशनाय सहसा संगृह्य संगृह्यताम् ३७।
प्रेषिताश्च वारणा रथाश्च वेगवत्तराः सुबाणखड्गधारिणो भुशुंडिभिश्च मुद्गरैः ।
सपाशपाणिलुब्धका नदंति तत्र तत्परा निवारितो न तिष्ठतो हयागजाश्च यद्गताः ३८।
क्वचित्क्वचिन्न दृश्यते क्वचित्क्वचित्प्रदृश्यते क्वचिद्भयं प्रदर्शयेत्क्वचिद्धयान्प्रमर्दयेत् ३९।
मर्दयित्वा भटान्वीरान्वाराहो रणदुर्जयः ।
शब्दं चकारदुर्धषं क्रोधारुणविलोचनः ४०।
कोशलाधिपतिर्वीरस्तं दृष्ट्वा रणदुर्जयम् ।
युध्यमानं महाकायं मुचंतं मेघवत्स्वनम् ४१।
गर्जतिसमरं विचरति विलसति वीरान्स्वतेजसा धीरः ।
तडिदिव मुखेषु दंष्ट्रा तस्य विभात्युल्लसत्येव ४२।
मनुपुत्रस्तथा दृष्ट्वा कोलं च निशितैः शरैः ।
प्रतिभिन्नमेकैकं शस्त्राहतं च बंधुभिः ४३।
नरपतिरुवाच सैन्याः किमिह न गृह्णंतु ओजसा शूराः ।
युध्यध्वं तत्र निशितैर्बाणैस्तीक्ष्णैरनेनापि ४४।
समाकर्ण्य ततो वाक्यं क्रुद्धस्यापि महात्मनः ।
ततस्ते सैनिकाः सर्वे युद्धाय समुपस्थिताः ४५।
अनेकैर्भटसाहस्रैर्वने तं समरे स्थितम् ।
दिक्षु सर्वासु संहत्य बिभिदुः शूकरं रणे ४६।
विद्धश्च कैश्चित्तदा बाणजालैः सुयोधैश्च संग्रामभूमौ विशालैः ।
क्वचिच्चक्रघातैः क्वचिद्वज्रपातैर्हतं दुर्जयं संगरे तं महांतैः ४७।
ततः पौरुषैः क्रोधयुक्तः स कोलः सुविच्छिद्य पाशान्रणे प्रस्थितः सः ।
महाशूकरैः सार्धमेव प्रयातस्ततः शोणितस्यापि धाराभिषिक्तः ४८।
करोति प्रहारं च तुंडेन वीरहयानां द्विपानां च चिच्छेद वीरः ।
स्वदंष्ट्राग्रभागेन तीक्ष्णेन वीरान्पदातीन्हि संपातयेद्रोषभावैः ४९।
जघानास्य शुंडं गजस्यापि रुष्टो भटान्हतान्पादनखैस्तु हृष्टः ५०।
ततस्ते शूकराः सर्वे लुब्धकाश्च परस्परम् ।
युयुधुः संगरं कृत्वा क्रोधारुणविलोचनाः ५१।
लुब्धकैश्च हताः कोलाः कोलैश्चापि सुलुब्धकाः ।
निहताः पतिता भूमौ क्षतजेनापि सारुणाः ५२।
जीवं त्यक्त्वा हताः कोलैर्लुब्धकाः पतिता रणे ।
मृताश्च शूकरास्तत्र श्वानः प्राणांश्च तत्यजुः ५३।
यत्रयत्र मृता भूमौ पतिता मृगघातकाः ।
बहवः शूकरा राज्ञा खड्गपातैर्निपातिताः ५४।
कति नष्टा हताः कोला भीता दुर्गेषु संस्थिताः ।
कुंजेषु कंदरांतेषु गुहांतेषु नृपोत्तम ५५।
लुब्धकाश्च मृताः केचिच्छिन्ना दंष्ट्राग्रसूकरैः ।
प्राणांस्त्यक्त्वा गताः स्वर्गं खंडशो विदलीकृताः ५६।
वागुराः पाशजालाश्च कुटकाः पंजरास्तथा ।
नाड्यश्च पतिता भूमौ यत्रतत्र समंततः ५७।
एको दयितया सार्धं वाराहः परितिष्ठति ।
पौत्रकैः पंचसप्तभिर्युद्धार्थं बलदर्पितः ५८।
तमुवाच तदा कांतं शूकरं शूकरी पुनः ।
गच्छ कांत मयासार्द्धमेभिस्तु बालकैः सह ५९।
प्राह प्रीतो वराहस्तां विवस्तां सुप्रियामिति ।
क्व गच्छामि प्रभग्नोहं स्थानं नास्ति महीतले ६०।
मयि नष्टे महाभागे कोलयूथं विनंक्ष्यति ।
द्वयोश्च सिंहयोर्मध्ये जलं पिबति शूकरः ६१।
द्वयोः शूकरयोर्मध्ये सिंहो नैव पिबत्यपः ।
एवं शूकरजातीषु दृश्यते बलमुत्तमम् ६२।
तदहं नाशयाम्येव यदा भग्नो व्रजाम्यहम् ।
जाने धर्मं महाभागे बहुश्रेयोविधायकम् ६३।
कस्माल्लोभाद्भयाद्वापि युध्यमानः प्रणश्यति ।
रणतीर्थं परित्यज्य सस्यात्पापी न संशयः ६४।
निशितं शस्त्रसंव्यूहं दृष्ट्वा हर्षं प्रगच्छति ।
अवगाह्यामरीं सिंधुं तीर्थपारं प्रगच्छति ६५।
स याति वैष्णवं लोकं पुरुषांश्च समुद्धरेत् ।
समायांतं च तदहं कथं भग्नो व्रजामि वै ६६।
योधनं शस्त्रसंकीर्णं प्रवीरानन्ददायकम् ।
दृष्ट्वा प्रयाति संहृष्टस्तस्य पुण्यफलं शृणु ६७।
पदेपदे महत्स्नानं भागीरथ्याः प्रजायते ।
रणाद्भग्नो गृहं याति यो लोभाच्च प्रिये शृणु ६८।
मातृदोषं प्रकाशेत स्त्रीजातः परिकथ्यते ।
अत्र यज्ञाश्च तीर्थाश्च अत्र देवा महौजसः ६९।
पश्यंति कौतुकं कांते मुनयः सिद्धचारणाः ।
त्रैलोक्यं वर्तते तत्र यत्र वीरप्रकाशनम् ७०।
समराद्भग्नं प्रपश्यंति सर्वे त्रैलोक्यवासिनः ।
शपंति निर्घृणं पापं प्रहसन्ति पुनःपुनः ७१।
दुर्गतिं दर्शयेत्तस्य धर्मराजो न संशयः ।
सम्मुखः समरे युद्धे स्वशिरः शोणितं पिबेत् ७२।
अश्वमेधफलं भुंक्ते इंद्रलोकं प्रगच्छति ।
यदा जयति संग्रामे शत्रूञ्छूरो वरानने ७३।
तदा प्रभुंजते लक्ष्मीं नानाभोगान्न संशयः ।
यदा तत्र त्यजेत्प्राणान्सम्मुखः सन्निराश्रयः ७४।
स गच्छेत्परमं स्थानं देवकन्यां प्रभुंजते ।
एवं धर्मं विजानामि कथं भग्नो व्रजाम्यहम् ७५।
अनेन समरे युद्धं करिष्ये नात्र संशयः ।
मनोः पुत्रेण धीरेण राज्ञा इक्ष्वाकुणा सह ७६।
डिंभान्गृहीत्वा याहि त्वं सुखं जीव वरानने ।
तस्य श्रुत्वा वचः प्राह बद्धाहं तव बंधनैः ७७।
स्नेहमानरसाख्यैश्च रतिक्रीडनकैः प्रिय ।
पुरतस्ते सुतैः सार्द्धं प्राणांस्त्यक्ष्यामि मानद ७८।
एवमेतौ सुसंभाष्य परस्परहितैषिणौ ।
युद्धाय निश्चितौ भूत्वा समालोकयतो रिपून् ७९।
कोशलाधिपतिं वीरं तमिक्ष्वाकुं महामतिम् ८०।
यथैव मेघः परिगर्जते दिवि प्रावृट्सुकालेषु तडित्प्रकाशैः ।
तथैव संगर्जति कांतया समं समाह्वयेद्राजवरं खुराग्रैः ८१।
तं गर्जमानं ददृशे महात्मा वाराहमेकं पुरुषार्थयुक्तम् ।
ससार अश्वस्य जवेनयुक्तः ससम्मुखं तस्य नृवीरधीरः ८२।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे त्रयश्चत्वारिंशत्तमोऽध्यायः ४३।