पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०३५

विकिस्रोतः तः
← अध्यायः ३४ पद्मपुराणम्
अध्यायः ३५
वेदव्यासः
अध्यायः ३६ →

रंभोवाच-
ब्रह्मा अव्यक्तसंभूतस्तस्माज्जज्ञे प्रजापतिः ।
अत्रिर्नाम स धर्मात्मा तस्य पुत्रो महामनाः १।
अंगो नाम अयं भद्रे नंदनं वनमागतः ।
इंद्रस्य संपदं दृष्ट्वा लीलातेजसमुत्तमाम् २।
कृता स्पृहा अनेनापि इंद्रस्य सदृशे पदे ।
ईदृशो हि यदा पुत्रो मम स्याद्धर्मसंयुतः ३।
सुश्रेयो मे भवेज्जन्म यशः कीर्ति समन्वितम् ।
आराधितो हृषीकेशस्तपोभिर्नियमैस्तथा ४।
सुप्रसन्ने हृषीकेशे वरं याचितवानयम् ।
इंद्रस्य सदृशं पुत्रं विष्णुतेजः पराक्रमम् ५।
वैष्णवं सर्वपापघ्नं देहि मे मधुसूदन ।
दत्तवान्स तदा पुत्रमीदृशं सर्वधारकम् ६।
तदाप्रभृति विप्रेंद्रः पुण्यां कन्यां प्रपश्यति ।
यथा त्वं चारुसर्वांगी तथायं परिपश्यति ७।
एनं गच्छ वरारोहे अस्मात्पुत्रो भविष्यति ।
पुण्यात्मा पुण्यधर्मज्ञो विष्णुतेजः पराक्रमः ८।
एतत्ते सर्वमाख्यातं तथाहं पृच्छिता त्वया ।
अयं भर्ता भवत्यर्हो भवेदेव न संशयः ९।
सुशंखस्यापि यः शापो वृथा सोऽपि भविष्यति ।
अस्माज्जाते महाभागे पुत्रे धर्मप्रचारिणि १०।
भविष्यसि सुखी भद्रे सत्यं सत्यं वदाम्यहम् ।
सुक्षेत्रे कृषिकारस्तु बीजं वपति तत्परः ११।
स तथा भुंजते देवि यथा बीजं तथा फलम् ।
अन्यथा नैव जायेत तत्सर्वं सदृशं भवेत् १२।
अयमेष महाभागस्तपस्वी पुण्यवीर्यवान् ।
अस्य वीर्यात्समुत्पन्नो अस्यैवगुणसंपदा १३।
युक्तः पुत्रो महातेजाःसर्वदेहभृतां वरः ।
भविष्यति महाभाग्यो युक्तात्मा योगतत्ववित् १४।
एवं हि वाक्यं तु निशम्य बाला रंभाप्रियोक्तं शिवदायकं तत् ।
विचिंत्य बुद्ध्येह सुनीथया तदा तत्त्वार्थमेतत्परिसत्यमेव हि १५।
इति श्रीपद्मपुराणे भूमिखंडेवेनोपाख्याने पंचत्रिंशोऽध्यायः ३५।