सामग्री पर जाएँ

पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०२९

विकिस्रोतः तः
← अध्यायः २८ पद्मपुराणम्
अध्यायः २९
वेदव्यासः
अध्यायः ३० →

पृथुरुवाच-
हते चैव महापापे एकस्मिन्पापचारिणि ।
लोकाः सुखेन जीवंति साधवः पुण्यदर्शिनः १।
तस्मादेकं प्रहर्तव्यं पापिष्ठं पापचेतनम् ।
तस्मात्त्वां हि हनिष्यामि सर्वसत्त्वप्रणाशिनीम् २।
त्वया बीजानि सर्वाणि लुप्तान्येतानि सांप्रतम् ।
ग्रासं कृत्वा स्थिरीभूत्वा प्रजां हत्वा क्व यास्यसि ३।
हते पापे दुराचारे सुखं जीवंतिसाधवः ।
तस्मात्पापं प्रहंतव्यं सत्यमेवं न संशयः ४।
पालितव्यं प्रयत्नेन यस्माद्धर्मः प्रवर्द्धते ।
भवत्या तु महत्पापं प्रजासंक्षयकारकम् ५।
एकस्यार्थेन यो हन्यादात्मनो वा परस्य वा ।
लोकोपतापकं हत्वा न भवेत्तस्य पातकम् ६।
सुखमेष्यंति बहवो यस्मिंस्तु निहते शुभे ।
वसुधे निहते दुष्टे पातकं नोपपातकम् ७।
प्रजानिमित्तं त्वामेव हनिष्यामि न संशयः ।
यदि मे पुण्यसंयुक्तं वचनं न करिष्यति ८।
जगतोऽस्य हितार्थाय साधु चैव वसुंधरे ।
हनिष्ये त्वां शितैर्बाणैर्मद्वाक्यात्तु पराङ्मुखीम् ९।
स्वीयेन तेजसा चैव पुण्यां त्रैलोक्यवासिनीम् ।
प्रजां चैव धरिष्यामि धर्मेणापि न संशयः १०।
मच्छासनं समास्थाय धर्मयुक्तं वसुंधरे ।
इमाः प्रजा आज्ञया मे संजीवय सदैव हि ११।
एवं मे शासनं भद्रे अद्य यर्हि करिष्यसि ।
ततः प्रीतोऽस्मि ते नित्यं गोपायिष्यामि सर्वदा १२।
त्वामेव हि न संदेह अन्ये चैव नृपोत्तमाः ।
धेनुरूपेण सा पृथ्वी बाणांचितकलेवरा १३।
उवाचेदं पृथुं वैन्यं धर्माधारं महामतिम् ।
धरण्युवाच-।
तवादेशं महाराज सत्यपुण्यार्थसंयुतम् १४।
प्रजानिमित्तमत्यर्थं विधास्यामि न संशयः ।
उद्यमेनापि पुण्येन उपायेन नरेश्वर १५।
समारंभाः प्रसिद्ध्यंति पुण्याश्चैवाप्युपक्रमाः ।
उपायं पश्य राजेंद्र येन त्वं सत्यवान्भवेः १६।
धारयेथाः प्रजाश्चेमा येन सर्वाः प्रवर्द्धये ।
संलग्नाश्चोत्तमा बाणा ममांगे ते शिलाशिताः १७।
समुद्धर स्वयं राजंश्छल्यंति भृशमेव ते ।
समां कुरु महाराज तिष्ठेन्मयि यथा पयः १८।
सूत उवाच-।
धनुषोग्रेण ताञ्छैलान्नानारूपान्गुरूंस्तथा ।
उत्सारयंस्ततः सर्वां समरूपां चकार सः १९।
तदाप्रभृति ते शैला वृद्धिमापुर्द्विजोत्तमाः ।
तस्या अंगात्स्वयं बाणान्स्वकीयान्नृपनंदनः २०।
समुद्धृत्य ततो वैन्यः प्रीतेन मनसा तदा ।
गर्ताश्च कंदराश्चैव बाणाघातैः समीकृताः २१।
एवं पृथ्वद्यंसमां सर्वां चकार पुण्यवर्द्धनः ।
समीकृत्य महाभागो वत्सं तस्या व्यकल्पयत् २२।
मनुं स्वायंभुवं पूर्वं परिचिंत्य पुनः पुनः ।
अतीतेष्वथ सर्वेषु मन्वंतरेषु सत्तमाः २३।
विषमत्वं गता भूमिः पंथा नासीच्च कुत्रचित् ।
समानि विषमाण्येवं स्वयमासन्द्विजोत्तमाः २४।
पूर्वं मनोश्चाक्षुषस्य प्राप्ते चैवांतरे तदा ।
जाते पूर्वविसर्गे च विषमे च धरातले २५।
ग्रामाणां च पुराणां च पत्तनानां तथैव च ।
देशानां क्षेत्रपन्नानां मर्यादा न हि दृश्यते २६।
कृषिर्नैव न वाणिज्यं न गोरक्षा प्रवर्तते ।
नानृतं भाषते कश्चिन्न लोभो न च मत्सरः २७।
नाभिमानं च वै पापं न करोति कदा किल ।
वैवस्वतस्य संप्राप्ते अंतरे द्विजसत्तम २८।
वैन्यस्य संभवात्पूर्वं प्रजानामेव संभवः ।
इमाः प्रजा द्विजाः सर्वा निवासं समरोचयन् २९।
क्वचिद्भूमौ गिरौ क्वापि नदीतीरेषु वै तदा ।
कुंजेषु सर्वतीर्थेषु सागरस्य तटेषु च ३०।
निवासं चक्रिरे सर्वाः प्रजाः पुण्येन वै तदा ।
तासामाहारः संजातः फलमूलमधुस्तथा ३१।
महता कृच्छ्रेण तासामाहारश्च द्विजोत्तमाः ।
पृथुर्वैन्यः समालोक्य प्रजानां कष्टमेव हि ३२।
स्वायंभुवो मनुर्वत्सः कल्पितस्तेन भूभुजा ।
स्वपाणिः कल्पितस्तेन पात्रमेवं महामते ३३।
स पृथुः पुरुषव्याघ्रो दुदोह वसुधां तदा ।
सर्वसस्यमयं क्षीरं ससर्वान्नं गुणान्वितम् ३४।
तेन पुण्येन चान्नेन सुधाकल्पेन ताः प्रजाः ।
तृप्तिं नयंति देवान्वै प्रजाः पितॄंस्तथापरान् ३५।
प्रसादात्तस्य वैन्यस्य सुखं जीवंति ताः प्रजाः ।
देवेभ्यश्च पितृभ्यश्च दत्वा चान्नं प्रजास्ततः ३६।
ब्राह्मणेभ्यो विशेषेणअतिथिभ्यस्तथैव च ।
पश्चाद्भुंजंति पुण्यास्ताः प्रजाः सर्वा द्विजोत्तमाः ३७।
यज्ञैश्चान्ये यजंत्येव तर्पयंति जनार्दनम् ।
तेन चान्नेन देवेशं तृप्तिं गच्छंति देवताः ३८।
पुनर्वर्षति पर्जन्यः प्रेषितो माधवेन च ।
तस्मात्पुण्या महौषध्यः संभवंति सुपुण्यदाः ३९।
सस्यजातानि सर्वाणि पृथुर्वैन्यः प्रजापतिः ।
तेनान्नेन प्रजाः सर्वा वर्तंतेऽद्यापि नित्यशः ४०।
ऋषिभिश्चैव मिलितैर्दुग्धा चेयं वसुंधरा ।
पुनर्विप्रैर्महाभाग्यैः सत्यवद्भिः सुरैस्तथा ४१।
सोमो वत्सस्वरूपोभूद्दोग्धा देवगुरुः स्वयम् ।
ऊर्जं क्षीरं पयः कल्पं येन जीवंति चामराः ४२।
तेषां सत्येन पुण्येन सर्वे जीवंति जंतवः ।
सत्यपुण्ये प्रवर्तंते ऋषिदुग्धा वसुंधरा ४३।
अथातः संप्रवक्ष्यामि यथा दुग्धा इयं धरा ।
पितृभिश्च पुरा वत्स विधिना येन वै तदा ४४।
सुपात्रं राजतं कृत्वा स्वधा क्षीरं सुधान्वितम् ।
परिकल्प्य यमं वत्सं दोग्धा चांतक एव सः ४५।
नागैः सर्पैस्ततो दुग्धा तक्षकं वत्समेव च ।
अलाबुपात्रमादाय विषं क्षीरं द्विजोत्तमाः ४६।
नागानां तु तथा दोग्धा धृतराष्ट्रः प्रतापवान् ।
सर्पा नागा द्विजश्रेष्ठास्तेन वर्तंति चातुलाः ४७।
नागा वर्तंति तेनापि ह्यत्युग्रेण द्विजोत्तमाः ।
विषेण घोररूपेण सर्पाश्चैव भयानकाः ४८।
तेनैव वर्तयंत्युग्रा महाकाया महाबलाः ।
तदाहारास्तदाचारास्तद्वीर्यास्तत्पराक्रमाः ४९।
अथातः संप्रवक्ष्यामि यथा दुग्धा वसुंधरा ।
असुरैर्दानवैः सर्वैः कल्पयित्वा द्विजोत्तमाः ५०।
पात्रमत्रान्नसदृशमायसं सर्वकामिकम् ।
क्षीरं मायामयं कृत्वा सर्वारातिविनाशनम् ५१।
तेषामभूत्स वै वत्सो विरोचनः प्रतापवान् ।
ऋत्विग्द्विमूर्द्धा दैत्यानां मधुर्दोग्धा महाबलः ५२।
तया हि मायया दैत्याः प्रवर्त्तंते महाबलाः ।
महाप्रज्ञा महाकाया महातेजः पराक्रमाः ५३।
तद्बलं पौरुषं तेषां तेन जीवंति दानवाः ।
तयैते माययाद्यापि सर्वमाया द्विजोत्तमाः ५४।
प्रवर्तंते मितप्रज्ञास्ते तदेषामिदं बलम् ।
तथा तु दुग्धा यक्षैः सा सर्वाधारासु मेदिनी ५५।
इति शुश्रुम विप्रेंद्राः पुराकल्पे महात्मभिः ।
अंतर्धानमयं क्षीरमयस्पात्रे सुविस्तरे ५६।
वैश्रवणो महाप्राज्ञस्तदा वत्सः प्रकल्पितः ।
मणिधरस्य पिता पुण्यः प्राज्ञो बुद्धिमतां वरः ५७।
दोग्धा रजतनाभस्तु तस्याश्चासीन्महामतिः ।
सर्वज्ञः सर्वधर्मज्ञो यक्षराजसुतो बली ५८।
अष्टबाहुर्महातेजा द्विशीर्षः सुमहातपाः ।
यक्षावर्तंत तेनापि सर्वदैव द्विजोत्तमाः ५९।
पुनर्दुग्धा इयं पृथ्वी राक्षसैश्च महाबलैः ।
तथा चैषा पिशाचैश्च सातुरैर्दग्धवारिभिः ६०।
उत्प्लुतं नृकपालं तं शावपात्रमयः कृतम् ।
सुप्रजां भोक्तुकामास्ते तीव्रकोपपराक्रमाः ६१।
दोग्धा रजतनाभस्तु तेषामासीन्महाबलः ।
सुमाली नाम वत्सश्च शोणितं क्षीरमेव च ६२।
रक्षांसि यातुधानाश्च पिशाचाश्च महाबलाः ।
यक्षास्तेन च जीवंति भूतसङ्घाश्च दारुणाः ६३।
गंधर्वैरप्सरोभिश्च पुनर्दुग्धा वसुंधरा ।
कृत्वा वत्सं सुविद्वांसं तैश्च चित्ररथं पुनः ६४।
दुदुहुः पद्मपात्रे तु गांधर्वं गीतसंकुलम् ।
सुरुचिर्नाम गंधर्वस्तेषामासीन्महामतिः ६५।
दोग्धा पुण्यतमश्चैव तस्याश्च द्विजसत्तमाः ।
शुचिगीतं महात्मानः सुक्षीरं दुदुहुस्तदा ६६।
गंधर्वास्तेन जीवंति अन्याश्चाप्सरसस्तथा ।
पर्वतैश्च महापुण्यैर्दुग्धा चेयं वसुंधरा ६७।
रत्नानि विविधान्येव ओषधीश्चामृतोपमाः ।
वत्सश्चैव महाभागो हिमवान्परिकल्पितः ६८।
मेरुर्दोग्धा च संजातः पात्रं कृत्वा तु शैलजम् ।
तेन क्षीरेण संवृद्धाः शैलाः सर्वे महौजसः ६९।
पुनर्दुग्धा महावृक्षैः पुण्यैः कल्पद्रुमादिभिः ।
पालाशं पात्रामानिन्युश्छिन्नदग्धप्ररोहणम् ७०।
शालो दुदोह पुष्पांगः प्लक्षो वत्सोऽभवत्तदा ।
गुह्यकैश्चारणैः सिद्धैर्विद्याधरगणैस्तदा ७१।
दुग्धा चेयं सर्वधात्री सर्वकामप्रदायिनी ।
यं यमिच्छंति ये लोकाः पात्रवत्सविशेषणैः ७२।
तैस्तैस्तेषां ददात्येव क्षीरं सद्भावमीदृशम् ।
इयं धात्री विधात्री तु इयं श्रेष्ठा वसुंधरा ७३।
सर्वकामदुघा धेनुरियं पुण्यैरलंकृता ।
इयं ज्येष्ठा प्रतिष्ठा तु इयं सृष्टिरियं प्रजा ७४।
पावनी पुण्यदा पुण्या सर्वसस्य प्ररोहिणी ।
चराचरस्य सर्वस्य प्रतिष्ठा योनिरेव च ७५।
महालक्ष्मीरियं विद्या सर्वविश्वमयी सदा ।
सर्वकामदुघा दोग्ध्री सर्वबीजप्ररोहिणी ७६।
सर्वेषां श्रेयसां माता सर्वलोकधरा इयम् ।
पंचानामपि भूतानां प्रकाशो रूपमेव च ७७।
असीदियं समुद्रांता मेदिनीति परिश्रुता ।
मधुकैटभयोः कृत्स्ना मेदसा समभिप्लुता ७८।
तेनेयं मेदिनी नाम प्रोच्यते ब्रह्मवादिभिः ।
ततोभ्युपगमात्प्राज्ञ पृथोर्वैन्यस्य सत्तमाः ७९।
दुहितृत्वमनुप्राप्ता देवी पृथ्वीति चोच्यते ।
तेन राज्ञा द्विजश्रेष्ठाः पालितेयं वसुंधरा ८०।
ग्रामाधारं गृहाणां च पुरपत्तनमालिनी ।
सस्याकरवती स्फीता सर्वतीर्थमयी द्विजाः ८१।
एवं वसुमती देवी सर्वलोकमयी सदा ।
एवं प्रभावो राजेंद्रः पुराणे परिपठ्यते ८२।
पृथुर्वैन्यो महाभागः सर्वकर्मप्रकाशकः ।
यथा विष्णुर्यथा ब्रह्मा यथा रुद्रः सनातनः ८३।
नमस्कार्यास्त्रयो देवा देवाद्यैर्ब्रह्मवादिभिः ।
ब्राह्मणैर्ऋषिभिः सर्वैर्नमस्कार्यो नृपोत्तमः ८४।
वर्णानामाश्रमाणां यः स्थापकः सर्वलोकधृक् ।
पार्थिवैश्च महाभागैः पार्थिवत्वमिहेप्सुभिः ८५।
आदिराजो नमस्कार्यः पृथुर्वैन्यः प्रतापवान् ।
धनुर्वेदार्थिभिर्योधैः सदैव जयकांक्षिभिः ८६।
नमस्कार्यो महाराजो वृत्तिदाता महीभृताम् ।
एवं पात्रविशेषाश्च मया ख्याता द्विजोत्तमाः ८७।
वत्सानां सुविशेषाश्च दोग्धॄणां भवदग्रतः ।
क्षीरस्यापि विशेषं तु यथोद्दिष्टं हि भूभुजा ८८।
समाख्यातं तथाग्रे च भवतां वै यथार्थतः ।
धन्यं यशस्यमारोग्यं पुण्यं पापप्रणाशनम् ८९।
पृथोर्वैन्यस्य चरितं यः शृणोति द्विजोत्तमाः ।
तस्य भागीरथी स्नानमहन्यहनि जायते ९०।
सर्वपापविशुद्धात्मा विष्णुलोकं प्रयाति सः ९१।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे
पृथूपाख्याने एकोनत्रिंशोऽध्यायः २९।