पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०२५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

सूत उवाच-
इयं हि का गायति चारुलोचना विलासभावैः परिविश्वमेव ।
अतीव बाला शुशुभे मनोहरा संपूर्णभावैः परिमोहयेज्जनम् १।
दृष्ट्वा स रंभां कमलायताक्षीं पीनस्तनीं चर्चितकुंकुमांगीम् ।
पद्माननां कामगृहं ममैषा नो वा रतिश्चारुमनोहरेयम् २।
संपूर्णभावां परिरूपयुक्तां कामांगशीलामतिशीलभावाम् ।
यास्याम्यहं वश्यमिहैव अस्या मनोभवेनाद्य इहैव प्रेषितः ३।
इतीव दैत्यः सुविचिंतयान्वितः कामेन मुग्धो बहुकालनोदितः ।
समातुरस्तत्र जगाम सत्वरमुवाच तां दीनमनाः सुलोचनाम् ४।
कस्यासि वा सुंदरि केन प्रेषिता किं नाम ते पुण्यतमं वदस्व मे ।
तवैव रूपेण महातितेजसा मुग्धोस्मि बाले मम वश्यतां व्रज ५।
एवमुक्ता विशालाक्षी वृत्रं कामाकुलं प्रति ।
अहं रंभा महाभाग क्रीडार्थं वनमुत्तमम् ६।
सखीसार्धं समायाता नंदनं वनमुत्तमम् ।
त्वं तु को वा किमर्थं हि मम पार्श्वं समागतः ७।
वृत्र उवाच-
श्रूयतामभिधास्यामि योहं बाले समागतः ।
हुताशनात्समुत्पन्नः कश्यपस्य सुतः शुभे ८।
सखाहं देवदेवस्य इंद्र स्यापि वरानने ।
ऐंद्रं पदं वरारोहे अर्धं मे भुक्तिमागतम् ९।
अहं वृत्रः कथं देवि मामेवं न तु विंदसि ।
त्रैलोक्यं वशमायातं यस्यैव वरवर्णिनि १०।
अहं शरणमायातः कामाद्रक्ष वरानने ।
भजस्व मां विशालाक्षि कामेनाकुलितं प्रिये ११।
रंभोवाच-
वशगा हं तवैवाद्य भविष्यामि न संशयः ।
यं यं वदाम्यहं वीर तं तं कार्यं त्वयैव हि १२।
एवमस्तु महाभागे तं तं सर्वं करोम्यहम् ।
एवं संबंधकं कृत्वा तया सह महाबलः १३।
तस्मिन्वने महापुण्ये रेमे दानवसत्तमः ।
तस्या गीतेन नृत्येन हास्येन ललितेन च १४।
अतिमुग्धो महादैत्यः स तस्याः सुरतेन च ।
तमुवाच महाभागं वृत्रं दानवसत्तमम् १५।
सुरापानं कुरुष्वेह पिबस्व मधुमाधवीम् ।
तामुवाच विशालाक्षीं रंभां शशिनिभाननाम् १६।
पुत्रोहं ब्राह्मणस्यापि वेदवेदांगपारगः ।
सुरापानं कथं भद्रे करिष्यमि विनिंदितम् १७।
तया तु रंभया देव्या प्रीत्या दत्ता सुरा हठात् ।
तस्या दाक्षिण्यभावेन सुरापानं कृतं तदा १८।
अतीवमुग्धं सुरया ज्ञानभ्रष्टो यदाभवत् ।
तदंतरे सुरेंद्रेण वज्रेण निहतस्तदा १९।
ब्रह्महत्यादिकैः पापैः स लिप्तो वृत्रहा ततः ।
ब्राह्मणास्तु ततः प्रोचुरिंद्र पापं कृतं त्वया २०।
अस्माद्वाक्यात्तु विश्वस्तो वृत्रो नाम महाबलः ।
हतो विश्वासभावेन एवं पापं त्वया कृतम् २१।
इंद्र उवाच-
येन केनाप्युपायेन हंतव्योरिः सदैव हि ।
देवब्राह्मणहंतारं यज्ञानां धर्मकंटकम् २२।
निहतं दानवं दुष्टं त्रैलोक्यस्यापि नायकम् ।
तदर्थं कुपिता यूयमेतन्न्यायस्य लक्षणम् २३।
विचारमेवं कर्त्तव्यं भवद्भिर्द्विजसत्तमाः ।
पश्चात्कोपं प्रकर्त्तव्यमन्यायं मम चिंत्यताम् २४।
एवं संबोधिता विप्रा इंद्रेणापि महात्मना ।
ब्रह्मादिभिः सुरैः सर्वैर्बोधितास्ते च सत्तमाः २५।
जग्मुः स्वस्थानमेवं हि निहते धर्मकंटके २६।
इति श्रीपद्मपुराणे भूमिखंडे वृत्रासुरवधोनाम पंचविंशोऽध्यायः २५।