पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०२४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

सूत उवाच-
हतं श्रुत्वा दितिः पुत्रं सुबलं बलमेव च ।
रुदितं करुणं कृत्वा हा हा कष्टं भृशं मम १।
एवं सुकरुणं कृत्वा बहुकालं तपस्विनी ।
सा गता कश्यपं कांतं तमुवाच यशस्विनी २।
तव पुत्रो महापाप इंद्रः सुरगणेश्वरः ।
सागरोपगतं दृष्ट्वा बलं मे ब्रह्मलक्षणम् ३।
वज्रेण घातयामास संध्यामास्यंतमेव हि ।
एवं श्रुत्वा ततः क्रुद्धो मरीचितनयस्तदा ४।
क्रोधेन महताविष्टः प्रजज्वालेव वह्निना ।
अवलुंच्य जटामेकां शुच्यग्नौ स द्विजोत्तमः ५।
इंद्रस्यैव वधार्थाय पुत्रमुत्पादयाम्यहम् ।
तस्मात्कुंडात्समुत्पन्नो हुताशनमुखादपि ६।
कृष्णांजनचयोपेतः पिंगाक्षो भीषणाकृतिः ।
दंष्ट्राकरालवक्त्रांतो जगतां भयदायकः ७।
महाचर्वरिको घोरः खड्गचर्मधरस्तथा ।
सर्वांगतेजसा दीप्तो महामेघोपमो बली ८।
उवाच कश्यपं विप्रमादेशो मम दीयताम् ।
कस्मादुत्पादितो विप्र भवता कारणं वद ९।
तमहं साधयिष्यामि प्रसादात्तव सुव्रत ।
कश्यप उवाच-
अस्या मनोरथं पुत्र पूरयस्व ममैव हि १०।
अदित्यास्त्वं महाप्राज्ञ जहि इंद्रं दुरात्मकम् ।
निहते देवराजे हि ऐंद्रं पदं प्रभुंक्ष्व च ११।
एवं तेन समादिष्टः कश्यपेन महात्मना ।
वृत्रस्तु उद्यमं चक्रे तस्येंद्रस्य वधाय च १२।
धनुर्वेदस्य चाभ्यासं स चक्रे पौरुषान्वितः ।
बलं वीर्यं तथा क्षात्रं तेजो धैर्यसमन्वितम् १३।
दृष्ट्वा हि तस्य दैत्यस्य सहस्राक्षो भयातुरः ।
उपायं चिंतितं तस्य वृत्रस्यापि दुरात्मनः १४।
वधार्थं देवदेवेन समाहूय महामुनीन् ।
सप्तर्षीन्प्रेषयामास वृत्रं दैत्येश्वरं प्रति १५।
भवंतस्तत्र गच्छंतु यत्र वृत्रः स तिष्ठति ।
संधिं कुर्वंतु वै तेन सार्द्धं मम मुनीश्वराः १६।
एवं तेन समादिष्टा मुनयः सप्त ते तदा ।
वृत्रासुरं ततः प्रोचुः सहस्राक्ष प्रचालिताः १७।
सख्यं कर्तुं प्रयच्छेत्स क्रियतां दैत्यसत्तम ।
ऋषयः सप्ततत्त्वज्ञा ऊचुर्वृत्रं महाबलम् १८।
सहस्राक्षो महाप्राज्ञो भवता सह सत्तम ।
मैत्रमिच्छति वै कर्तुं तत्कथं न करोषि किम् १९।
अर्धमैंद्रं पदं वीर सत्वं भुंक्ष्व सुखेन वै ।
वर्तंत्वर्द्धेन इंद्रस्तु असुरा देवतास्तथा २०।
सुखं वर्तंतु ते सर्वे वैरं चैव विसृज्य वै ।
वृत्र उवाच-
यदि सत्येन देवेंद्रो मैत्रमिच्छति सत्तमः २१।
सत्यमाश्रित्य चैवाहं करिष्ये नात्र संशयः ।
छद्म चैवं पुरस्कृत्य इंद्रो द्रोहं समाचरेत् २२।
तदा किं क्रियते विप्रा इत्यर्थे प्रत्ययं हि किम् ।
ऋषयस्त्विंद्रमाचख्युरित्यर्थं प्रत्ययं वद २३।
तन्नस्त्वं सत्यतां ब्रूहि यदि सख्यमिहेच्छसि ।
इंद्र उवाच-
यद्यऽसत्येन वर्तामि भवद्भिः सह छद्मना २४।
ब्रह्महत्यादिकैः पापैर्लिप्येहं नात्र संशयः ।
छद्म चैवं पुरस्कृत्य इंद्रो द्रोहं समाचरेत् २५।
ब्रह्महत्यादिकैः पापैर्लिप्येहं नात्र संशयः ।
इत्युवाच महाप्राज्ञ त्वामेवं स पुरंदरः २६।
एतेन प्रत्ययेनापि सख्यं कुरु महामते ।
वृत्र उवाच-
भवतां शिष्टमार्गेण सत्येनानेन तस्य च २७।
मैत्रमेवं करिष्यामि तेन सार्द्धं द्विजोत्तमाः ।
वृत्रमिंद्रस्यसंस्थानं नीतं ब्राह्मणपुङ्गवैः २८।
इन्द्रस्तमागतं दृष्ट्वा वृत्रं मित्रार्थमुद्यतः ।
सिंहासनात्समुत्थाय अर्घमादाय सत्वरः २९।
ददौ तस्मै स धर्मात्मा वृत्राय द्विजसत्तम ।
अर्धं भुंक्ष्व महाप्राज्ञ ऐंद्रमेतन्महत्पदम् ३०।
वर्तितव्यं सुखेनापि आवाभ्यां दैत्यसत्तम ।
एवं विश्वासयन्दैत्यं वृत्र मैत्रेण वै तदा ३१।
गतेषु तेषु विप्रेषु स्वस्थानं द्विजसत्तम ।
छिद्रं पश्यति दुष्टात्मा वृत्रस्यापि सदैव हि ३२।
सावधानत्वमिंद्रोपि दिवारात्रौ प्रचिंतयेत् ।
तस्यच्छिद्रं न पश्येत वृत्रस्यापि महात्मनः ३३।
उपायं चिंतयामास तस्यैव वधहेतवे ।
रंभा संप्रेषिता तेन मोहयस्व महासुरम् ३४।
येनकेनाप्युपायेन यथा हत्वा लभे सुखम् ।
तथा कुरुष्व कल्याणि संमोहाय सुरद्विषः ३५।
वनं पुण्यं महादिव्यं पुण्यपादपसेवितम् ।
बहुवृक्षफलोपेतं मृगपक्षिसमाकुलम् ३६।
विमानमंदिरैर्दिव्यैः सर्वत्र परिशोभितम् ।
दिव्यगंधर्वसंगीतं भ्रमराकुलितं सदा ३७।
कोकिलानां रुतैः पुण्यैः सर्वत्र मधुरायतैः ।
शिखिसारंगनादैश्च सर्वत्र सुसमाकुलम् ३८।
दिव्यैस्तु चंदनैर्वृक्षैः सर्वत्र समलंकृतम् ।
वापीकुंडतडागैश्च जलपूर्णैर्मनोहरैः ३९।
कमलैः शतपत्रैश्च पुष्पितैः समलंकृतम् ।
देवगंधर्वसंसिद्धैश्चारणैश्चैव किन्नरैः ४०।
मुनिभिः शुशुभे दिव्यैर्दिव्योद्यानवरेण च ।
अप्सरोगणसंकीर्णं नानाकौतुकमंगलैः ४१।
हेमप्रासादसंबाधं दंडच्छत्रैश्च चामरैः ।
कलशैश्च पताकाभिः सर्वत्रसमलंकृतम् ४२।
वेदध्वनिसमाकीर्णं गीतध्वनिसमाकुलम् ।
एवं नंदनमासाद्य सा रंभा चारुहासिनी ४३।
अप्सरोभिः समं तत्र क्रीडत्येवं विलासिनी ।
सूत उवाच-
एकदा तु स वृत्रो वै कालाकृष्टो गतो वनम् ४४।
कतिभिर्दानवैः सार्द्धं मुदया परया युतः ।
अलक्ष्ये भ्रमते पार्श्वं तस्यैव च महात्मनः ४५।
देवराजोपि विप्रेंद्रश्छिद्रान्वेषी द्विषां किल ।
स हि वृत्रो महाप्राज्ञो विश्वस्तः सर्वकर्मसु ४६।
इंद्रं मित्रं परं जानन्भयं चक्रे न तस्य सः ।
भ्रममाणो वनं पश्येत्सर्वत्र परमं शुभम् ४७।
सुरम्यं कौतुकवनं वनितागणसंकुलम् ।
चंदनस्यापि वृक्षस्य छायां शीतां सुपुण्यदाम् ४८।
समाश्रित्य विशालाक्षी रंभा तत्र प्रदीव्यति ।
सखीभिस्तु महाभागा दोलारूढा यशस्विनी ४९।
गायते सुस्वरं गीतं सर्वविश्वप्रमोहनम् ।
तत्र वृत्रः समायातः कामाकुलितमानसः ५०।
दोलारूढां समालोक्य रंभां चारुसुलोचनाम् ५१।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे वृत्रवंचनंनाम चतुर्विंशोऽध्यायः २४।