सामग्री पर जाएँ

पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०२३

विकिस्रोतः तः

ऋषय ऊचुः-
विचित्रेयं कथा पुण्या धन्या यशोविधायिनी ।
सर्वपापहरा प्रोक्ता भवता वदतां वर १।
सृष्टिसंबंधमेतन्नस्तद्भवान्वक्तुमर्हति ।
पूर्वमेव यथासृष्टिर्विस्तरात्सूतनंदन २।
सूत उवाच-
विस्तरेण प्रवक्ष्यामि सृष्टिसंहारकारणम् ।
श्रुतमात्रेण यस्यापि नरः सर्वज्ञतां व्रजेत् ३।
हिरण्यकश्यपेनापि व्यापितं भुवनत्रयम् ।
तपसाराध्य प्रबह्माणं वरं प्राप्तं सुदुर्लभम् ४।
तस्माद्देवान्महाभागादमरत्वं तथैव च ।
देवाँल्लोकान्स संव्याप्य प्रभुत्वं स्वयमर्जितम् ५।
ततो देवाः सगंधर्वा मुनयो वेदपारगाः ।
नागाश्च किन्नराः सिद्धा यक्षाश्चैव तथापरे ६।
ब्रह्माणं तु पुरस्कृत्य जग्मुर्नारायणं प्रभुम् ।
क्षीरसागरसंसुप्तं योगनिद्रां गतं प्रभुम् ७।
तं संबोध्य महास्तोत्रैर्देवाः प्रांजलयस्तथा ।
संबुद्धे सति देवेशे वृत्तं तस्य दुरात्मनः ८।
आचचक्षुर्महाप्राज्ञ समाकर्ण्य जगत्पतिः ।
नृसिंहरूपमास्थाय हिरण्यकशिपुं व्यहन् ९।
पुनर्वाराहरूपेण हिरण्याक्षो महाबलः ।
उद्धृता वसुधा पुण्या असुरो घातितस्तदा १०।
अन्यांश्चघातयामास दानवान्घोरदर्शनान् ।
एवं चैतेषु नष्टेषु दानवेषु महत्सु च ११।
अन्येषु तेषु नष्टेषु दितिपुत्रेषु वै तदा ।
पुनः स्थानेषु प्राप्तेषु देवेषु च महत्सु च १२।
यज्ञेष्वेव प्रवृत्तेषु सर्वेषु धर्मकर्मसु ।
सुस्थेषु सर्वलोकेषु सा दितिर्दुःखपीडिता १३।
पुत्रशोकेन संतप्ता हाहाभूता विचेतना ।
भर्तारं सूर्यसंकाशं तपस्तेजः समन्वितम् १४।
दातारं च महात्मानं भर्तारं कश्यपं तदा ।
भक्त्या प्रणम्य विप्रेन्द्र तमुवाच महामतिम् १५।
भगवन्नष्टपुत्राहं कृता देवेन चक्रिणा ।
दैतेया दानवाः सर्वे देवैश्चैव निपातिताः १६।
पुत्रशोकानलेनाहं संतप्ता मुनिसत्तम ।
ममानंदकरं पुत्रं सर्वतेजोहरं विभो १७।
सुबलं चारुसर्वांगं देवराजसमप्रभम् ।
बुद्धिमंतं सुसर्वज्ञं ज्ञातारं सर्वपंडितम् १८।
तपस्तेजः समायुक्तं सबलं चारुलक्षणम् ।
ब्रह्मण्यं ज्ञानवेत्तारं देवब्राह्मणपूजकम् १९।
जेतारं सर्वलोकानां ममानंदकरं द्विज ।
सर्वलक्षणसंपन्नं पुत्रं मे देहि त्वं विभो २०।
एवमाकर्ण्य वै तस्याः कश्यपो वाक्यमुत्तमम् ।
कृपाविष्टमनास्तुष्टो दुःखिताया द्विजोत्तम २१।
तामुवाच महाभाग कृपणां दीनमानसाम् ।
तस्याः शिरसि संन्यस्य स्वहस्तं भावतत्परः २२।
भविष्यति महाभागे यादृशो वांछितः सुतः ।
एवमुक्त्वा जगामासौ मेरुं गिरिवरोत्तमम् २३।
तपस्तेपे निरालंबः साधयन्परमव्रतः ।
एतस्मिन्नंतरे सा तु दधार गर्भमुत्तमम् २४।
सा दितिः सर्वधर्मज्ञा चारुकर्मा मनस्विनी ।
शतवर्षप्रमाणं सा शुचि स्वांता बभूव ह २५।
तया वै जनितः पुत्रो ब्रह्मतेजः समन्वितः ।
अथ कश्यप आयातो हर्षेण महतान्वितः २६।
चकार नाम मेधावी तस्य पुत्रस्य सत्तमः ।
बलमित्यब्रवीत्पुत्रं नामतः सदृशो महान् २७।
एवं नाम चकाराथ व्रतबंधं चकार सः ।
प्राह पुत्र महाभाग ब्रह्मचर्यं प्रसाधय २८।
एवमेवं करिष्यामि तव वाक्यं द्विजोत्तम ।
वेदस्याध्ययनं कुर्यां ब्रह्मचर्येण सत्तम २९।
एवं वर्षशतं साग्रं गतं तस्य तपस्यतः ।
मातुः समक्षमायातस्तपस्तेजः समन्वितः ३०।
तपोवीर्यमयं दिव्यं ब्रह्मचर्यं महात्मनः ।
दितिः पश्यति पुत्रस्य हर्षेण महतान्विता ३१।
तमुवाच महात्मानं बलं पुत्रं तपस्विनम् ।
मेधाविनं महात्मानं प्रज्ञाज्ञानविशारदम् ३२।
त्वयि जीवति मेधाविन्प्रजीवंति सुता मम ।
हिरण्यकशिपाद्यास्ते ये हताश्चक्रपाणिना ३३।
वैरं साधय मे वत्स जहि देवान्रिपून्रणे ।
सा दनुस्तमुवाचेदं बलं पुत्रं महाबलम् ३४।
आदाविंद्रं हि देवेंद्रं द्रुतं सूदय पुत्रक ।
पश्चाद्देवा निपात्यंतां ततो गरुडवाहनः ३५।
तयोराकर्ण्य सा देवी अदितिः पतिदेवता ।
दुःखेन महताविष्टा पुत्रमिंद्रमभाषत ३६।
दितिपुत्रो महाकायो वर्द्धते ब्रह्मतेजसा ।
देवानां हि वधार्थाय तपस्तेपे निरंजने ३७।
एवं जानीहि देवेश यदि क्षेममिहेच्छसि ।
एवमाकर्ण्य तद्वाक्यं स मातुः पाकशासनः ३८।
चिंतामवाप दुःखेन महतीं देवराट्तदा ।
महाभयेन संत्रस्तश्चिंतयामास वै ततः ३९।
कथमेनं हनिष्यामि देवधर्मविदूषकम् ।
इति निश्चित्य देवेशो बलस्य निधनं प्रति ४०।
एकदा हि बलः सोपि संध्यार्थं सिंधुमाश्रितः ।
कृष्णाजिनेन दिव्येन दंडकाष्ठेन राजितः ४१।
अमलेनापि पुण्येन ब्रह्मचर्येण तेन सः ।
सागरस्योपकंठे तं संध्यासनमुपागतम् ४२।
जपमानं सुशांतं तं ददृशे पाकशासनः ।
वज्रेण तेन दिव्येन ताडितो दितिनंदनः ४३।
बलं निपतितं दृष्ट्वा गतसत्वं गतं भुवि ।
हर्षेण महताविष्टो देवराण्मुमुदे तदा ४४।
एवं निपात्य तं दैत्यं दितिनंदनमेव च ।
राज्यं चकार धर्मात्मा सुखेन पाकशासनः ४५।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे बलदैत्यवधोनाम त्रयोविंशोऽध्यायः २३।