पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०२१

विकिस्रोतः तः
← अध्यायः ०२० पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः २१
अज्ञातलेखकः
अध्यायः ०२२ →

सूत उवाच-
एकदा व्यास देवोऽसौ ब्रह्माणं जगतः पतिम् ।
सुव्रताख्यानकं सर्वं पप्रच्छातीव विस्मितः १।
व्यास उवाच-
लोकात्मँल्लोकविन्यास देवदेव महाप्रभो ।
सुव्रतस्याथ चरितं श्रोतुमिच्छामि सांप्रतम् २।
ब्रह्मोवाच-
पाराशर्यमहाभाग श्रूयतां पुण्यमुत्तमम् ।
सुव्रतस्य सुविप्रस्य तपश्चर्यासमन्वितम् ३।
सुव्रतो नाम मेधावी बाल्यादपि स चिंतयन् ।
गर्भे नारायणं देवं दृष्टवान्पुरुषोत्तमम् ४।
स पूर्वकर्माभ्यासेन हरेर्ध्यानं गतस्तदा ।
शंखचक्रधरं देवं पद्मनाभं सुपुण्यदम् ५।
ध्यायते चिंतयेत्सो हि गीते ज्ञाने प्रपाठने ।
एवं देवं हरिं ध्यायन्सदैव द्विजसत्तमः ६।
क्रीडत्येवं सदा डिंभैः सार्द्धं च बालकोत्तमः ।
बालकानां स्वकं नाम हरेश्चैव महात्मनः ७।
चकार स हि मेधावी पुण्यात्मा पुण्यवत्सलः ।
समाह्वयति वै मित्रं हरेर्नाम्ना महामतिः ८।
भोभोः केशव एह्येहि एहि माधवचक्रधृक् ।
क्रीडस्व च मया सार्धं त्वमेव पुरुषोत्तम ९।
सममेवं प्रगंतव्यमावाभ्यां मधुसूदन ।
एवमेव समाह्वानं नामभिश्च हरेर्द्विजः १०।
क्रीडने पठने हास्ये शयने गीतप्रेक्षणे ।
याने च ह्यासने ध्याने मंत्रे ज्ञाने सुकर्मसु ११।
पश्यत्येवं वदत्येवं जगन्नाथं जनार्दनम् ।
स ध्यायते तमेकं हि विश्वनाथं महेश्वरम् १२।
तृणे काष्ठे च पाषाणे शुष्के सार्द्रे हि केशवम् ।
पश्यत्येवं स धर्मात्मा गोविंदं कमलेक्षणम् १३।
आकाशे भूमिमध्ये तु पर्वतेषु वनेषु च ।
जले स्थले च पाषाणे जीवेष्वेव महामतिः १४।
नृसिंहं पश्यते विप्रः सुव्रतः सुमनासुतः ।
बालक्रीडां समासाद्य रमत्येवं दिनेदिने १५।
गीतैश्च गायते कृष्णं सुरागैर्मधुराक्षरैः ।
तालैर्लयसमायुक्तैः सुस्वरैर्मूर्च्छनान्वितैः १६।
सुव्रत उवाच-
ध्यायंति वेदविदुषः सततं सुरारिं यस्यांगमध्ये सकलं हि विश्वम् ।
योगेश्वरं सकलपापविनाशनं च व्रजामि शरणं मधुसूदनस्य १७।
लोकेषु यो हि सकलेष्वनुवर्तते यो लोकाश्च यस्मिन्निवसंति सर्वे ।
दोषैर्विहीनमखिलैः परमेश्वरं तं तस्यैव पादयुगलं सततं नमामि १८।
नारायणं गुणनिधानमनंतवीर्यं वेदांतशुद्धमतयः प्रपठंति नित्यम् ।
संसारसागरमनंतमगाधदुर्गमुत्तारणार्थमखिलं शरणं प्रपद्ये १९।
योगींद्र मानससरोवरराजहंसं शुद्धं प्रभावमखिलं सततं हि यस्य ।
तस्यैव पादयुगलं विमलं विशालं दीनस्य मेऽसुररिपो कुरु तस्य रक्षाम् २०।
ध्यायेऽखिलस्य भुवनं स्वपतिं च देवं दुःखांधकारदलनार्थमिहैव चंद्रम् ।
लोकस्य पालनकृते परिणीतधर्मं सत्यान्वितं सकललोकगुरुं सुरेशम् २१।
गायाम्यहं सुरसगीतकतालमानैः श्रीरंगमेकमनिशं भुवनस्य देवम् ।
अज्ञाननाशकमलं च दिनेशतुल्यमानंदकंदमखिलं महिमा समेतम् २२।
संपूर्णमेवममृतस्यकलानिधानं तं गीतकौशलमनन्यरसैः प्रगाये ।
युक्तं स्वयोगकरणैः परमार्थदृष्टिं विश्वं स पश्यति चराचरमेव नित्यम् २३।
पश्यंति नैव यमिहाथ सुपापलोकास्तं केशवं शरणमेवमुपैति नित्यम् २४।
कराभ्यां वाद्यमानस्तु तालं तालसमन्वितम् ।
गीतेनगायते कृष्णं बालकैः सह मोदते २५।
एवं क्रीडारतो नित्यं बालभावेन वै तदा ।
सुव्रतः सुमनापुत्रो विष्णुध्यानपरायणः २६।
क्रीडमानं प्राह माता सुव्रतं चारुलक्षणम् ।
भोजनं कुरु मे वत्स क्षुधा त्वां परिपीडयेत् २७।
तामुवाच पुनः प्राज्ञः सुमना मातरं पुनः ।
महामृतेन तृप्तोस्मि हरिध्यानरसेन वै २८।
भोजनासनमारूढो मिष्टमन्नं प्रपश्यति ।
इदमन्नं स्वयं विष्णुरात्मा ह्यन्नं समाश्रितः २९।
आत्मरूपेण यो विष्णुरनेनान्नेन तृप्यतु ।
क्षीरसागरसंवासो यस्यैव परिसंस्थितः ३०।
जलेनानेन पुण्येन तृप्तिमायातु केशवः ।
तांबूलचंदनैर्गंधैरेभिः पुष्पैर्मनोहरैः ३१।
आत्मस्वरूपेण तृप्तस्तृप्तिमायातु केशवः ।
शयने याति धर्मात्मा तदा कृष्णं प्रचिंतयेत् ३२।
योगनिद्रान्वितं कृष्णं तमहं शरणं गतः ।
भोजनाच्छादनेष्वेवमासने शयने द्विजः ३३।
चिंतयेद्वासुदेवं तं तस्मै सर्वं प्रकल्पयेत् ।
तारुण्यं प्राप्य धर्मात्मा कामभोगान्विहाय वै ३४।
स युक्तः केशवध्याने वैडूर्यपर्वतोत्तमे ।
यत्र सिद्धेश्वरं लिंगं वैष्णवं पापनाशनम् ३५।
रुद्रमोंकारसंज्ञं च ध्यात्वा चैव महेश्वरम् ।
ब्रह्मणा वर्द्धितं देवं नर्मदादक्षिणे तटे ३६।
सिद्धेश्वरं समाश्रित्य तपोभावं व्यचिंतयत् ३७।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे ऐंद्रे सुमनोपाख्याने एकविंशोऽध्यायः २१।