पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०१५

विकिस्रोतः तः

सोमशर्मोवाच-
पापिनां मरणं भद्रे कीदृशैर्लक्षणैर्युतम् ।
तन्मे त्वं विस्तराद्ब्रूहि यदि जानासि भामिनि १।
सुमनोवाच-
श्रूयतामभिधास्यामि तस्मात्सिद्धाच्छ्रुतं मया ।
पापिनां मरणे कांत यादृशं लिंगमेव च २।
महापातकिनां चैव स्थानं चेष्टां वदाम्यहम् ।
विण्मूत्रामेध्यसंयुक्तां भूमिं पापसमन्विताम् ३।
सतां प्राप्य सुदुष्टात्मा प्राणान्दुःखेन मुंचति ।
चांडालभूमिं संप्राप्य मरणं याति दुःस्थितः ४।
गर्दभाचरितां भूमिं वेश्यागेहं समाश्रितः ।
कल्पपालगृहं गत्वा निधनायोपगच्छति ५।
अस्थिचर्मनखैः पूर्णमाश्रितं पापकिल्बिषैः ।
तां प्राप्य च स दुष्टात्मा मृत्युं याति सुनिश्चितम् ६।
अन्यां पापसमाचारां प्राप्य मृत्युं स गच्छति ।
अथ चेष्टां प्रवक्ष्यामि दूतानां तु तमिच्छताम् ७।
भैरवान्दारुणान्घोरानतिकृष्णान्महोदरान् ।
पिंगाक्षान्पीतनीलांश्च अतिश्वेतान्महोदरान् ८।
अत्युच्चान्विकरालांश्च शुष्कमांसवसोपमान् ।
रौद्रदंष्ट्रान्करालांश्च सिंहास्यान्सर्पहस्तकान् ९।
सतान्दृष्ट्वा प्रकंपेत खिद्यते च मुहुर्मुहुः ।
शिवासंनादवद्घोरान्महारावान्महामते १०।
मुंचंति दूतकाः सर्वे कर्णमूले तु तस्य हि ।
गले पाशैः प्रबद्ध्वा ते कटिं बद्ध्वा तथोदरे ११।
समाधृष्य निपात्यंते हाहेति वदते मुहुः ।
म्रियमाणस्य या चेष्टा तामेवं प्रवदाम्यहम् १२।
परद्रव्यापहरणं परभार्याविडंबनम् ।
ऋणं परस्य सर्वस्वं गृहीतं यत्तु पापिभिः १३।
पुनर्नैव प्रदत्तं हि लोभास्वादविमोहतः ।
अन्यदेवं महापापं कुप्रतिग्रहमेव च १४।
कंठमायांति ते सर्वे म्रियमाणस्य तस्य च ।
यानिकानि च पापानि पूर्वमेव कृतानि च १५।
आयांति कंठमूलं ते महापापस्य नान्यथा ।
दुःखमुत्पादयंत्येते कफबंधेन दारुणम् १६।
पीडाभिर्दारुणाभिस्तु कंठो घुरघुरायते ।
रोदते कंपतेऽत्यर्थं मातरं पितरं पुनः १७।
स्मरते भ्रातरं तत्र भार्यां पुत्रान्पुनःपुनः ।
पुनर्विस्मरणं याति महापापेन मोहितः १८।
तस्य प्राणान गच्छंति बहुपीडासमाकुलाः ।
पतते कंपते चैव मूर्च्छते च पुनःपुनः १९।
एवं पीडासमायुक्तो दुःखं भुंक्तेति मोहितः ।
तस्य प्राणाः सुदुःखेन महाकष्टैः प्रचालिताः २०।
अपानमार्गमाश्रित्य शृणु कांत प्रयांति ते ।
एवं प्राणी महामुग्धो लोभमोहसमन्वितः २१।
नीयते यमदूतैस्तु तस्य दुःखं वदाम्यहम् २२।

इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे ऐंद्रे सुमनोपाख्याने पापमरणविवक्षानामपंचदशोऽध्यायः १५।