पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०१३

विकिस्रोतः तः

सोमशर्मोवाच-
लक्षणं ब्रह्मचर्यस्य तन्मे विस्तरतो वद ।
कीदृशं ब्रह्मचर्यं च यदि जानासि भामिनि १।
नित्यं सत्ये रतिर्यस्य पुण्यात्मा तुष्टितां व्रजेत् ।
ऋतौ प्राप्ते व्रजेन्नारीं स्वीयां दोषविवर्जितः २।
स्वकुलस्य सदाचारं कदानैव विमुंचति ।
एतदेव समाख्यातं गृहस्थस्य द्विजोत्तम ३।
ब्रह्मचर्यं मया प्रोक्तं गृहिणामुत्तमं किल ।
यतीनां तु प्रवक्ष्यामि तन्मे निगदतः शृणु ४।
दमसत्यसमायुक्तः पापाद्भीतस्तु सर्वदा ।
भार्यासंगं वर्जयित्वा ध्यानज्ञानप्रतिष्ठितः ५।
यतीनां ब्रह्मचर्यं च समाख्यातं तवाग्रतः ।
तप एव प्रवक्ष्यामि तन्मेनिगदतः शृणु ६।
आचारेण प्रवर्तेत कामक्रोधविवर्जितः ।
प्राणिनामुपकाराय संस्थितउद्यमावृतः ७।
तप एवं समाख्यातं सत्यमेवं वदाम्यहम् ।
परद्रव्येष्वलोलुप्त्वं परस्त्रीषु तथैव च ८।
दृष्ट्वा मतिर्न यस्य स्यात्स सत्यः परिकीर्तितः ।
दानमेव प्रवक्ष्यामि येन जीवंति मानवाः ९।
आत्मसौख्यं प्रतीच्छेद्यः स इहैव परत्र वा ।
अन्नस्यापि महादानं सुखस्यैव ध्रुवस्य वा १०।
ग्रासमात्रं तथा देयं क्षुधार्ताय न संशयः ।
दत्ते सति महत्पुण्यममृतं सोश्नुते सदा ११।
दिनेदिने प्रदातव्यं यथाविभवसंभवम् ।
तृणं शय्यां च वचनं गृहच्छायां सुशीतलाम् १२।
भूमिमापस्तथा चान्नं प्रियवाक्यमनुत्तमम् ।
आसनं वचनालापं कौटिल्येन विवर्जितम् १३।
आत्मनो जीवनार्थाय नित्यमेव करोति यः ।
देवान्पितॄन्समभ्यर्च्य एवं दानं ददाति यः १४।
इहैव मोदते सो वै परत्र हि तथैव च ।
अवंध्यं दिवसं यो वै दानाध्ययनकर्मभिः १५।
प्रकुर्यान्मानुषो भूत्वा स देवो नात्र संशयः ।
नियमं च प्रवक्ष्यामि धर्मसाधनमुत्तमम् १६।
देवानां ब्राह्मणानां च पूजास्वभिरतो हि यः ।
नित्यं नियमसंयुक्तो दानव्रतेषु सुव्रत १७।
उपकारेषु पुण्येषु नियमोऽयं प्रकीर्तितः ।
क्षमारूपं प्रवक्ष्यामि श्रूयतां द्विजसत्तम १८।
पराक्रोशं हि संश्रुत्य ताडिते सति केनचित् ।
क्रोधं न चैव गच्छेत्तु ताडितो न हि ताडयेत् १९।
सहिष्णुः स्यात्स धर्मात्मा नहि रागं प्रयाति च ।
समश्नाति परं सौख्यमिह चामुत्र वापि च २०।
एवं क्षमा समाख्याता शौचमेवं वदाम्यहम् ।
सबाह्याभ्यंतरे यो वै शुद्धो रागविवर्जितः २१।
स्नानाचमनकैरेव व्यवहारेण वर्तते ।
शौचमेवं समाख्यातमहिंसां तु वदाम्यहम् २२।
तृणमपि विना कार्यञ्छेत्तव्यं न विजानता ।
अहिंसानिरतो भूयाद्यथात्मनि तथापरे २३।
शांतिमेव प्रक्ष्यामि शांत्या सुखं समश्नुते ।
शांतिरेव प्रकर्तव्या क्लेशान्नैव परित्यजेत् २४।
भूतवैरं विसृज्यैव मन एवं प्रकारयेत् ।
एवं शांतिः समाख्याता अस्तेयं तु वदाम्यहम् २५।
परस्वं नैव हर्तव्यं परजाया तथैव च ।
मनोभिर्वचनैः कायैर्मन एवं प्रकारयेत् २६।
दममेव प्रवक्ष्यामि तवाग्रे द्विजसत्तम ।
दमनादिंद्रियाणां वै मनसोपि विकारिणः २७।
औद्धत्यं नाशयेत्तेषां स चैतन्यो वशी तदा ।
शुश्रूषां तु प्रवक्ष्यामि धर्मशास्त्रेषु यादृशी २८।
पूर्वाचार्यैर्यथा प्रोक्ता तामेवं प्रवदाम्यहम् ।
वाचा देहेन मनसा गुरुकार्यं प्रसाधयेत् २९।
जायतेऽनुग्रहो यत्र शुश्रूषा सा निगद्यते ।
सांगो धर्मः समाख्यातस्तवाग्रे द्विजसत्तम ३०।
अन्यच्च ते प्रवक्ष्यामि श्रोतुमिच्छसि यत्पते ।
ईदृशे चापि धर्मे तु वर्तते यो नरः सदा ३१।
संसारे तस्य संभूतिः पुनरेव न जायते ।
स्वर्गं गच्छति धर्मेण सत्यंसत्यं वदाम्यहम् ३२।
एवं ज्ञात्वा महाप्राज्ञ धर्ममेव व्रजस्व हि ।
सर्वं हि प्राप्यते कांत यदसाध्यं महीतले ३३।
धर्मप्रसादतस्तस्मात्कुरु वाक्यं ममैव हि ।
भार्यायास्तुवचः श्रुत्वा सोमशर्मा सुबुद्धिमान् ३४।
पुनः प्रोवाच तां भार्यां सुमनां धर्मवादिनीम् ३५।

इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे ऐंद्रे सुमनोपाख्याने त्रयोदशोऽध्यायः १३।