पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०१२

विकिस्रोतः तः
Jump to navigation Jump to search

सुमनोवाच-
ऋणसंबंधिनं पुत्रं प्रवक्ष्यामि तवाग्रतः
ऋणं यस्य गृहीत्वा यः प्रयाति मरणं किल १
अर्थदाता सुतो भूत्वा भ्राता चाथ पिता प्रिया
मित्ररूपेण वर्त्तेत अतिदुष्टः सदैव सः २
गुणं नैव प्रपश्येत स क्रूरो निष्ठुराकृतिः
जल्पते निष्ठुरं वाक्यं सदैव स्वजनेषु च ३
मिष्टंमिष्टं समश्नाति भोगान्भुंजति नित्यशः
द्यूतकर्मरतो नित्यं चौरकर्मणि सस्पृहः ४
गृहद्रव्यं बलाद्भुंक्ते वार्यमाणः स कुप्यति
पितरं मातरं चैव कुत्सते च दिनेदिने ५
द्रावकस्त्रासकश्चैव बहुनिष्ठुरजल्पकः
एवं भुक्त्वाथ तद्द्रव्यं सुखेन परितिष्ठति ६
जातकर्मादिभिर्बाल्ये द्रव्यं गृह्णाति दारुणः
पुनर्विवाहसंबंधान्नानाभेदैरनेकधा ७
एवं संजायते द्रव्यमेवमेतद्ददात्यपि
गृहक्षेत्रादिकं सर्वं ममैव हि न संशयः ८
पितरं मातरं चैव हिनस्त्येव दिनेदिने
सुखंडैर्मुशलैश्चैव सर्वघातैः सुदारुणैः ९
मृते तु तस्मिन्पितरि मातर्येवातिनिष्ठुरः
निःस्नेहो निष्ठुरश्चश्चैव जायते नात्र संशयः १०
श्राद्धकर्माणि दानानि न करोति कदैव सः
एवंविधाश्च वै पुत्राः प्रभवंति महीतले ११
रिपुं पुत्रं प्रवक्ष्यामि तवाग्रे द्विजपुंगव
बाल्ये वयसि संप्राप्ते रिपुत्वे वर्तते सदा १२
पितरं मातरं चैव क्रीडमानो हि ताडयेत्
ताडयित्वा प्रयात्येव प्रहस्यैव पुनःपुनः १३
पुनरायाति संत्रस्तः पितरं मातरं प्रति
सक्रोधो वर्तते नित्यं कुत्सते च पुनःपुनः १४
एवं संवर्तते नित्यं वैरकर्मणि सर्वदा
पितरं मारयित्वा च मातरं च ततः पुनः १५
प्रयात्येवं स दुष्टात्मा पूर्ववैरानुभावतः
अथातः संप्रवक्ष्यामि यस्माल्लभ्यं भवेत्प्रियम् १६
जातमात्रः प्रियं कुर्याद्बाल्ये लालनक्रीडनैः
वयः प्राप्य प्रियं कुर्यान्मातृपित्रोरनन्तरम् १७
भक्त्या संतोषयेन्नित्यं तावुभौ परितोषयेत्
स्नेहेन वचसा चैव प्रियसंभाषणेन च १८
मृते गुरौ समाज्ञाय स्नेहेन रुदते पुनः
श्राद्धकर्माणि सर्वाणि पिंडदानादिकां क्रियाम् १९
करोत्येव सुदुःखार्तस्तेभ्यो यात्रां प्रयच्छति
ऋणत्रयान्वितः स्नेहाद्भुंजापयति नित्यशः २०
यस्माल्लभ्यं भवेत्कांत प्रयच्छति न संशयः
पुत्रो भूत्वा महाप्राज्ञ अनेन विधिना किल २१
उदासीनं प्रवक्ष्यामि तवाग्रे प्रिय सांप्रतम्
उदासीनेन भावेन सदैव परिवर्तते २२
ददाति नैव गृह्णाति न च कुप्यति तुष्यति
नो वा ददाति संत्यज्य उदासीनो द्विजोत्तम २३
तवाग्रे कथितं सर्वं पुत्राणां गतिरीदृशी
यथा पुत्रस्तथा भार्या पिता माताथ बांधवाः २४
भृत्याश्चान्ये समाख्याताः पशवस्तुरगास्तथा
गजा महिष्यो दासाश्च ऋणसंबंधिनस्त्वमी २५
गृहीतं न ऋणं तेन आवाभ्यां तु न कस्यचित्
न्यासमेवं न कस्यापि कृतं वै पूर्वजन्मनि २६
धारयावो न कस्यापि ऋणं कांत शृणुष्वहि
न वैरमस्ति केनापि पूर्वजन्मनि वै कृतम् २७
आवाभ्यां हि न विप्रेंद्र न त्यक्तं हि तथापते
एवं ज्ञात्वा शमं गच्छ त्यज चिंतामनर्थकीम् २८
कस्य पुत्राः प्रिया भार्या कस्य स्वजनबांधवाः
हृतं न चैव कस्यापि नैव दत्तं त्वया पुनः २९
कथं हि धनमायाति विस्मयं व्रज माधव
प्राप्तव्यमेव यत्रैव भवेद्द्रव्यं द्विजोत्तम ३०
अनायासेन हस्ते हि तस्यैव परिजायते
यत्नेन महता चैव द्रव्यं रक्षति मानवः ३१
व्रजमानो व्रजत्येव धनं तत्रैव तिष्ठति
एवं ज्ञात्वा शमं गच्छ जहि चिंतामनर्थकीम् ३२
कस्य पुत्राः प्रिया भार्या कस्य स्वजनबांधवाः
कः कस्य नास्ति संसारे असंबंधाद्द्विजोत्तम ३३
महामोहेन संमूढा मानवाः पापचेतसः
इदं गृहमयं पुत्र इमा नार्यो ममैव हि ३४
अनृतं दृश्यते कांत संसारस्य हि बंधनम्
एवं संबोधितो देव्या भार्यया प्रियया तदा ३५
पुनः प्राह प्रियां भार्यां सुमनां ज्ञानवादिनीम्
सोमशर्मोवाच-
सत्यमुक्तं त्वया भद्रे सर्वसंदेहनाशनम् ३६
तथापि वंशमिच्छंति साधवः सत्यपंडिताः
यथा पुत्रस्य मे चिंता धनस्य च तथा प्रिये ३७
येनकेनाप्युपायेन पुत्रमुत्पादयाम्यहम्
सुमनोवाच-
पुत्रेण लोकाञ्जयति पुत्रस्तारयते कुलम् ३८
सत्पुत्रेण महाभाग पिता माता च जंतवः
एकः पुत्रो वरो विद्वान्बहुभिर्निर्गुणैस्तु किम् ३९
एकस्तारयते वंशमन्ये संतापकारकाः
पूर्वमेव मया प्रोक्तमन्ये संबंधगामिनः ४०
पुण्येन प्राप्यते पुत्रः पुण्येन प्राप्यते कुलम्
सुगर्भः प्राप्यते पुण्यैस्तस्मात्पुण्यं समाचर ४१
जातस्य मृतिरेवास्ति जन्म एव मृतस्य च
सुजन्म प्राप्यते पुण्यैर्मरणं तु तथैव च ४२
सुखं धनचयः कांत भुज्यते पुण्यकर्मभिः
सोमशर्मोवाच-
पुण्यस्याचरणं ब्रूहि तथा जन्मान्यपि प्रिये ४३
सुपुण्यः कीदृशो भद्रे वद पुण्यस्य लक्षणम्
सुमनोवाच-
आदौ पुण्यं प्रवक्ष्यामि यथा पुण्यं श्रुतं मया ४४
पुरुषो वाथवा नारी यथा नित्यं च वर्तते
यथा पुण्यैः समाप्नोति कीर्तिं पुत्रान्प्रियान्धनम् ४५
पुण्यस्य लक्षणं कांत सर्वमेव वदाम्यहम्
ब्रह्मचर्येण सत्येन मखपंचकवर्तनैः ४६
दानेन नियमैश्चापि क्षमाशौचेन वल्लभ
अहिंसया सुशक्त्या च अस्तेयेनापि वर्तनैः ४७
एतैर्दशभिरंगैस्तु धर्ममेवं प्रपूरयेत्
संपूर्णो जायते धर्मो ग्रासैर्भोगो यथोदरे ४८
धर्मं सृजति धर्मात्मा त्रिविधेनैव कर्मणा
तस्य धर्मः प्रसन्नात्मा पुण्यमेवं तु प्रापयेत् ४९
यं यं चिंतयते प्राज्ञस्तं तं प्राप्नोति दुर्लभम्
सोमशर्मोवाच-
कीदृङ्मूर्तिस्तु धर्मस्य कान्यंगानि च भामिनि ५०
प्रीत्या कथय मे कांते श्रोतुं श्रद्धा प्रवर्तते
सुमनोवाच-
लोके धर्मस्य वै मूर्तिः कैर्दृष्टा न द्विजोत्तम ५१
अदृश्यवर्त्मा सत्यात्मा न दृष्टो देवदानवैः
अत्रिवंशे समुत्पन्नो अनसूयात्मजो द्विजः ५२
तेन दृष्टो महाधर्मो दत्तात्रेयेण वै सदा
द्वावेतौ तु महात्मानौ कुर्वाणौ तप उत्तमम् ५३
धर्मेण वर्तमानौ तौ तपसा च बलेन च
इंद्राधिकेन रूपेण प्रशस्तेन भविष्यतः ५४
दशवर्षसहस्रं तौ यावत्तु वनसंस्थितौ
वायुभक्षौ निराहारौ संजातौ शुभदर्शनौ ५५
दशवर्षसहस्रं तु तावत्कालं तपोर्जितम्
सुसाध्यमानयोश्चैव तत्र धर्मः प्रदृश्यते ५६
पंचाग्निः साध्यते द्वाभ्यां तावत्कालं द्विजोत्तम
त्रिकालं साधितं तावन्निराहारं कृतं तथा ५७
जलमध्ये स्थितौ तावद्दत्तात्रेयो यतिस्तथा
दुर्वासास्तु मुनिश्रेष्ठस्तपसा चैव कर्षितः ५८
धर्मं प्रति स धर्मात्मा चुक्रोध मुनिपुंगवः
क्रुद्धे सति महाभाग तस्मिन्मुनिवरे तदा ५९
अथ धर्मः समायातः स्वरूपेण च वै तदा
ब्रह्मचर्यादिभिर्युक्तस्तपोभिश्च स बुद्धिमान् ६०
सत्यं ब्राह्मणरूपेण ब्रह्मचर्यं तथैव च
तपस्तु द्विजवर्योस्ति दमः प्राज्ञो द्विजोत्तमः ६१
नियमस्तु महाप्राज्ञो दानमेव तथैव च
अग्निहोत्रिस्वरूपेण ह्यात्रेयं हि समागताः ६२
क्षमा शांतिस्तथा लज्जा चाहिंसा च ह्यकल्पना
एताः सर्वाः समायाताः स्त्रीरूपास्तु द्विजोत्तम ६३
बुद्धिः प्रज्ञा दया श्रद्धा मेधा सत्कृति शांतयः
पंचयज्ञास्तथा पुण्याः सांगा वेदास्तु ते तदा ६४
स्वस्वरूपधराश्चैव ते सर्वे सिद्धिमागताः
अग्न्याधानादयः पुण्या अश्वमेधादयस्तथा ६५
रूपलावण्यसंयुक्ताः सर्वाभरणभूषिताः
दिव्यमाल्यांबरधरा दिव्यगंधानुलेपनाः ६६
किरीटकुंडलोपेता दिव्याभरणभूषिताः
दीप्तिमंतः सुरूपास्ते तेजोज्वालाभिरावृताः ६७
एवं धर्मः समायातः परिवारसमन्वितः
यत्र तिष्ठति दुर्वासाः क्रोधनः कालवत्तथा ६८
धर्म उवाच-
कस्मात्कोपः कृतो विप्र भवांस्तपस्समन्वितः
क्रोधो हि नाशयेच्छ्रेयस्तप एव न संशयः ६९
सर्वनाशकरस्तस्मात्क्रोधं तत्र विवर्जयेत्
स्वस्थो भव द्विजश्रेष्ठ उत्कृष्टं तपसः फलम् ७०
दुर्वासा उवाच-
भवान्को हि समायात एतैर्द्विजवरैः सह
सप्त नार्यः प्रतिष्ठंति सुरूपाः समलंकृताः ७१
कथयस्व ममाग्रे त्वं विस्तरेण महामते
धर्म उवाच-
अयं ब्राह्मणरूपेण सर्वतेजः समन्वितः ७२
दंडहस्तः सुप्रसन्नः कमंडलुधरस्तथा
तवाग्रे ब्रह्मचर्योयं सोयं पश्य समागतः ७३
अन्यं पश्यस्व वै त्वं च दीप्तिमंतं द्विजोत्तम
कपिलं पिंगलाक्षं च सत्यमेनं द्विजोत्तम ७४
तादृशं पश्य धर्मात्मन्वैश्वदेवसमप्रभम्
यत्तपो हि त्वया विप्र सर्वदेवसमाश्रितम् ७५
एतं पश्य महाभाग तव पार्श्वसमागतम्
प्रसन्नवाग्दीप्तियुक्तः सर्वजीवदयापरः ७६
दम एव तथायं ते यः पोषयति सर्वदा
जटिलः कर्कशः पिंगो ह्यतितीव्रो महाप्रभुः ७७
नाशको हि स पापानां खड्गहस्तो द्विजोत्तम
अभिशांतो महापुण्यो नित्यक्रियासमन्वितः ७८
नियमस्तु समायातस्तव पार्श्वे द्विजोत्तम
अनिर्मुक्तो महादीप्तः शुद्धस्फटिकसन्निभः ७९
पयःकमंडलुकरो दंतकाष्ठधरो द्विजः
शौच एष समायातो भवतः सन्निधाविह ८०
अतिसाध्वी महाभागा सत्यभूषणभूषिता
सर्वभूषणशोभांगी शुश्रूषेयं समागता ८१
अतिधीरा प्रसन्नांगी गौरी प्रहसितानना
पद्महस्ता इयं धात्री पद्मनेत्रा सुपद्मिनी ८२
दिव्यैराभरणैर्युक्ता क्षमा प्राप्ता द्विजोत्तम
अतिशांता सुप्रतिष्ठा बहुमंगलसंयुता ८३
दिव्यरत्नकृता शोभा दिव्याभरणभूषिता
तव शांतिर्महाप्राज्ञ ज्ञानरूपा समागता ८४
परोपकारकरणा बहुसत्यसमाकुला
मितभाषा सदैवासौ अकल्पा ते समागता ८५
प्रसन्ना सा क्षमायुक्ता सर्वाभरणभूषिता
पद्मासना सुरूपा सा श्यामवर्णा यशस्विनी ८६
अहिंसेयं महाभागा भवंतं तु समागता
तप्तकांचनवर्णांगी रक्तांबरविलासिनी ८७
सुप्रसन्ना सुमंत्रा च यत्र तत्र न पश्यति
ज्ञानभावसमाक्रांता पुण्यहस्ता तपस्विनी ८८
मुक्ताभरणशोभाढ्या निर्मला चारुहासिनी
इयं श्रद्धा महाभाग पश्य पश्य समागता ८९
बहुबुद्धिसमाक्रांता बहुज्ञानसमाकुला
सुभोगासक्तरूपा सा सुस्थिता चारुमंगला ९०
सर्वेष्टध्यानसंयुक्ता लोकमाता यशस्विनी
सर्वाभरणशोभाढ्या पीनश्रोणि पयोधरा ९१
गौरवर्णा समायाता माल्यवस्त्रविभूषिता
इयं मेधा महाप्राज्ञ तवैव परिसंस्थिता ९२
हंसचंद्रप्रतीकाशा मुक्ताहारविलंबिनी
सर्वाभरणसंभूषा सुप्रसन्ना मनस्विनी ९३
श्वेतवस्त्रेण संवीता शतपत्रं शयेकृतम्
पुस्तककरा पंकजस्था राजमाना सदैव हि ९४
एषा प्रज्ञा महाभाग भाग्यवंतं समागता
लाक्षारससमावर्णा सुप्रसन्ना सदैव हि ९५
पीतपुष्पकृतामाला हारकेयूरभूषणा
मुद्रिका कंकणोपेता कर्णकुंडलमंडिता ९६
पीतेन वाससा देवी सदैव परिराजते
त्रैलोक्यस्योपकाराय पोषणायाद्वितीयका ९७
यस्याः शीलं द्विजश्रेष्ठ सदैव परिकीर्तितम्
सेयं दया सु संप्राप्ता तव पार्श्वे द्विजोत्तम ९८
इयं वृद्धा महाप्राज्ञ भावभार्या तपस्विनी
मम माता द्विजश्रेष्ठ धर्मोहं तव सुव्रत ९९
इति ज्ञात्वा शमं गच्छ मामेवं परिपालय
दुर्वासा उवाच-
यदि धर्मः समायातो मत्समीपं तु सांप्रतम् १००
एतन्मे कारणं ब्रूहि किं ते धर्म करोम्यहम्
धर्म उवाच-
कस्मात्क्रुद्धोसि विप्रेन्द्र किमेतैर्विप्रियं कृतम् १०१
तन्मे त्वं कारणं ब्रूहि दुर्वासो यदि मन्यसे
दुर्वासा उवाच-
येनाहं कुपितो देव तदिदं कारणं शृणु १०२
दमशौचैः सुसंक्लेशैः शोधितं कायमात्मनः
लक्षवर्षप्रमाणं वै तपश्चर्या मया कृता १०३
एवं पश्यसि मामेवं दया तेन प्रवर्तते
तस्मात्क्रुद्धोस्मि तेद्यैव शापमेवं ददाम्यहम् १०४
एवं श्रुत्वा तदा तस्य तमुवाच महामतिः
धर्म उवाच-
मयि नष्टे महाप्राज्ञ लोको नाशं समेष्यति १०५
दुःखमूलमहं तात निकर्शामि भृशं द्विज
सौख्यं पश्चादहं दद्मि यदि सत्यं न मुंचति १०६
पापोयं सुखमूलस्तु पुण्यं दुःखेन लभ्यते
पुण्यमेवं प्रकुर्वाणः प्राणी प्राणान्विमुंचति १०७
महत्सौख्यं ददाम्येवं परत्र च न संशयः
दुर्वासा उवाच-
सुखं येनाप्यते तेन परं दुःखं प्रपद्यते १०८
तत्तु मर्त्यः परित्यज्य अन्येनापि प्रभुज्यते
तत्सुखं को विजानाति निश्चयं नैव पश्यति १०९
तच्छ्रेयो नैव पश्यामि अन्याय्यं हि कृतं तव
येन कायेन क्रियते भुज्यते नैव तत्सुखम् ११०
अन्येन क्रियते क्लेशमन्येनापि प्रभुज्यते
तत्सुखं को विजानाति चान्यायं धर्ममेव वा १११
अन्येन क्रियते क्लेशमन्येनापि सुखं पुनः
भुनक्ति पुरुषो धर्म तत्सर्वं श्रेयसा युतम् ११२
पुण्यं चैव अनेनापि अनेन फलमश्नुते
क्रियमाणं पुनः पुण्यमन्येन परिभुज्यते ११३
तत्सर्वं हि सुखं प्रोक्तं यत्तथा यस्य लक्षणम्
धर्मशास्त्रोदितं चैव कृतं सर्वत्र नान्यथा ११४
येन कायेन कुर्वंति तेन दुःखं सहन्ति ते
परत्र तेन भुंजंति अनेनापि तथैव च ११५
इति ज्ञात्वा स धर्मात्मा भवान्समवलोकयेत्
यथा चौरा महापापाः स्वकायेन सहंति ते ११६
दुःखेन दारुणं तीव्रं तथा सुखं कथं नहि
धर्म उवाच-
येन कायेन पापाश्च संचरन्ति हि पातकम् ११७
तेन पीडां सहंत्येव पातकस्य हि तत्फलम्
दंडमेकं परं दृष्टं धर्मशास्त्रेषु पंडितैः ११८
तं धर्मपूर्वकं विद्धि एतैर्न्यायैस्त्वमेव हि
दुर्वासा उवाच-
एवं न्यायं न मन्येहं तथैव शृणु धर्मराट् ११९
शापत्रयं प्रदास्यामि क्रुद्धोहं तव नान्यथा
धर्म उवाच-
यदा क्रुद्धो महाप्राज्ञ मामेव हि क्षमस्व च १२०
नैव क्षमसि विप्रेंद्र दासीपुत्रं हि मां कुरु
राजानं तु प्रकर्तव्यं चांडालं च महामुने १२१
प्रसादसुमुखो विप्र प्रणतस्य सदैव हि
दुर्वासाश्च ततः क्रुद्धो धर्मं चैव शशाप ह १२२
दुर्वासा उवाच-
राजा भव त्वं धर्माद्य दासीपुत्रश्च नान्यथा
गच्छ चांडालयोनिं च धर्म त्वं स्वेच्छया व्रज १२३
एवं शापत्रयं दत्त्वा गतोसौ द्विजसत्तमः
अनेनापि प्रसंगेन दृष्टो धर्मः पुरा किल १२४
सोमशर्मोवाच-
धर्मस्तु कीदृशो जातस्तेन शप्तो महात्मना
तद्रूपं तस्य मे ब्रूहि यदि जानासि भामिनि १२५
सुमनोवाच-
भरतानां कुले जातो धर्मो भूत्वा युधिष्ठिरः
विदुरो दासीपुत्रस्तु अन्यं चैव वदाम्यहम् १२६
यदा राजा हरिश्चंद्रो विश्वामित्रेण कर्षितः
तदा चांडालतां प्राप्तः स हि धर्मो महामतिः १२७
एवं कर्मफलं भुक्तं धर्मेणापि महात्मना
दुर्वाससो हि शापाद्वै सत्यमुक्तं तवाग्रतः १२८

इति श्रीपद्मपुराणे भूमिखंडे सोमशर्माख्याने सोमशर्म-सुमनासंवादे द्वादशोऽध्यायः १२