सामग्री पर जाएँ

पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०१०

विकिस्रोतः तः
← अध्यायः ००९ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः १०
अज्ञातलेखकः
अध्यायः ०११ →

ऋषय ऊचुः-
ततस्ते दानवाः सर्वे हिरण्यकशिपूत्तराः ।
युद्धाद्भग्नास्तु किं कुर्युर्व्यवसायं महामते १।
विस्तरेणापि नो ब्रूहि तेषां वृत्तमनुत्तमम् ।
श्रोतुमिच्छामहे सर्वे त्वत्तो वै सांप्रतं द्विज २।
सूत उवाच-
भग्ना रणात्तु ते सर्वे बलहीनास्तु वै तदा ।
गतदर्पाः सुदुःखार्ता दैत्यास्ते पितरं गताः ३।
भक्त्या प्रणम्य ते सर्वे समूचुः कश्यपं तदा ।
दानवा ऊचुः-
भवद्वीर्यात्समुत्पत्तिरस्माकं द्विजसत्तम ४।
देवतानां महाभाग दानवानां तथैव च ।
वयं च दानवाः सर्वे बलवीर्यपराक्रमाः ५।
उपायज्ञाः सुधीराश्च उद्यमेन समन्विताः ।
वयं तु बहवस्तात देवास्त्वल्पास्तथैव च ६।
कथं जयंति ते सर्वे वयं भग्ना महाहवात् ।
तत्किं वै कारणं तात बलतेजः समन्विताः ७।
मत्तनागसहस्राणामेकैकस्य महामते ।
बलमस्ति च दैत्यस्य नास्ति देवेषु तादृशम् ८।
जयश्च दृश्यते तात देवेष्वेव महाहवे ।
तत्सर्वं कथयस्वैव संशयंछेत्तुमर्हसि ९।
कश्यप उवाच-
शृणुध्वं पुत्रकाः सर्वे जयस्यापि च कारणम् ।
यस्माद्धि देवताः सर्वे समरे जयिनोऽभवन् १०।
वीर्यनिर्वापकस्तातो माताक्षेत्रमिदं सदा ।
धारणे पालने चैव पोषणे च यथैव हि ११।
किं कुर्याद्विषमार्थे तु पिता पुत्रे च वै तथा ।
अत्र प्रधानं कर्मैव मामेवं बुद्धिराश्रिता १२।
द्वैविध्यं कर्मसंबंधं पापपुण्यसमुद्भवम् ।
सत्यमेव समाश्रित्य क्रियते धर्म उत्तमः १३।
तपोध्यानसमायुक्तं तारणाय हि तं सुताः ।
पतनाय पातकं प्रोक्तं सर्वदैव न संशयः १४।
बलेन परिवारेण आभिजात्येन पुत्रकाः ।
पुण्यहीनस्य पुंसो वै तद्बलं विकलायते १५।
उन्नता गिरिदुर्गेषु वृक्षाः संति सुपुत्रकाः ।
पतंति वातवेगेन समूलास्तु घनास्तथा १६।
सत्यधर्मविहीनास्ते तथायांति यमक्षयम् ।
साधारणः प्राणिनां च धर्म एष सुपुत्रकाः १७।
येन संतरते जंतुरिह चैव परत्र च ।
तद्युष्माभिः परित्यक्तं सत्यं धर्मसमन्वितम् १८।
अधर्ममास्थितं पुत्रा युष्माभिः सत्यवर्जितैः ।
सत्यधर्मतपोभ्रष्टाः पतिता दुःखसागरे १९।
देवाश्च सत्यसंपन्नाः श्रेयसा च समन्विताः ।
तपः शांतिदमोपेताः सुपुण्या पापवर्जिताः २०।
यत्र सत्यं च धर्मश्च तपः पुण्यं तथैव च ।
यत्र विष्णुर्हृषीकेशो जयस्तत्र प्रदृश्यते २१।
तेषां सहायः संभूतो वासुदेवः सनातनः ।
तस्माज्जयंति ते देवाः सत्यधर्मसमन्विताः २२।
सहायेन बलेनैव पौरुषेण तथैव च ।
भवंतः किल वै पुत्रास्तपः सत्यविवर्जिताः २३।
यस्य विष्णुः सहायश्च तपश्चैव बलं तथा ।
तस्यैव च जयो दृष्ट इति धर्मविदो विदुः २४।
यूयं धर्मविहीनास्तु तपः सत्यविवर्जिताः ।
ऐंद्रं पदं बलेनैव प्राप्तवंतश्च पूर्वतः २५।
तपो विना महाप्राज्ञा धर्मेण यशसा विना ।
बलदर्पगुणैः पुत्रा न प्राप्यमैन्द्रकं पदम् २६।
प्राप्याप्यैंद्रं पदं पुत्रास्ततो भ्रष्टा भवंति हि ।
तस्माद्यूयं प्रकुर्वंतु तपः पुत्राः समन्विताः २७।
अविरोधेन संयुक्ता ज्ञानध्यानसमन्विताः ।
वैरं चैव न कर्तव्यं केशवेन समं कदा २८।
एवंविधा यदा पुत्रा यूयं धन्या भविष्यथ ।
परां सिद्धिं तदा सर्वे प्रयास्यथ न संशयः २९।
एवं संभाषितास्ते तु कश्यपेन महात्मना ।
समाकर्ण्य पितुर्वाक्यं दानवास्ते महौजसः ३०।
प्रणम्य कश्यपं भक्त्या समुत्थाय त्वरान्विताः ।
सुमंत्रं चक्रिरे दैत्याः परस्परसमाहिताः ३१।
हिरण्यकशिपू राजा तानुवाचाथ दानवान् ।
तपश्चैव करिष्यामो दुष्करं सर्वदायकम् ३२।
हिरण्याक्षस्तदोवाच करिष्ये दारुणं तपः ।
ततो बलेन त्रैलोक्यं ग्रहीष्ये नात्र संशयः ३३।
रणे निर्जित्य गोविंदं तमिमं पापचेतसम् ।
व्यापाद्य देवताः सर्वाः पदमैंद्रं व्रजाम्यहम् ३४।
बलिरुवाच-
एवं न युज्यते कर्तुं युष्माभिर्दितिजेश्वराः ।
विष्णुना सह यद्वैरं तद्वैरं नाशकारणम् ३५।
दानधर्मैस्तथा पुण्यैस्तपोभिर्यज्ञयाजनैः ।
तमाराध्य हृषीकेशं सुखं गच्छंति मानवाः ३६।
हिरण्यकशिपुरुवाच-
अहमेवं न करिष्ये हरेराराधनं कदा ।
स्वभावं तु परित्यज्य शत्रुसेवा प्रचर्यते ३७।
मरणादधिकं तं तु मानयंति हि पंडिताः ।
विष्णोः सेवा न वै कार्या मया चान्यैश्च दानवैः ३८।
तमुवाच महात्मानं बलिः पितामहं पुनः ।
धर्मशास्त्रेषु यद्दृष्टं मुनिभिस्तत्त्ववेदिभिः ३९।
राजनीतियुतं मंत्रं शत्रोश्चैव प्रधानतः ।
हीनमात्मानमाज्ञाय रिपुं तं बलिनं तथा ४०।
तस्य पार्श्वे प्रगत्वैव जयकालं प्रतीक्षयेत् ।
दीपच्छायां समाश्रित्य तमो वसति सर्वदा ४१।
स्नेहं दशागतं प्रेक्ष्य दीपस्यापि महाबलम् ।
प्रकाशं याति वेगेन तमश्च वर्द्धते पुनः ४२।
तथा प्रसादयेच्छन्नः स्नेहं निर्दिश्य तत्त्वतः ।
स्नेहं कृत्वासुरैः सार्द्धं धर्मभावैः सुरद्विषः ४३।
पूर्वमुक्तं सुमंत्रं तु मुनिना कश्यपेन हि ।
तेन मंत्रेण राजेंद्र कुरु कार्यं स्वमात्मवान् ४४।
तस्य तद्वचनं श्रुत्वा प्राह दैत्यः प्रतापवान् ।
पौत्र नैवं करिष्येहं मानभंगं तथात्मनः ४५।
अन्ये च बांधवाः सर्वे तमूचुर्नयपंडितम् ।
बलिनोक्तं च यत्पुण्यं देवतानां प्रियंकरम् ४६।
शक्रमानकरं प्रोक्तं दानवानां भयंकरम् ।
करिष्यामो वयं सर्वे तप एवमनुत्तमम् ४७।
तपसा निर्जित्य देवान्हरिष्यामः स्वकं पदम् ।
एवमामंत्र्य ते सर्वे निराकृत्य बलिं तदा ४८।
विष्णोः सार्द्धं महावैरं हृदि कृत्वा महासुराः ।
तपश्चक्रुस्ततः सर्वे गिरिदुर्गेषु सानुषु ४९।
एवं ते दानवाः सर्वे त्यक्तरागाः सुनिश्चिताः ।
कामक्रोधविहीनाश्च निराहारा जितक्लमाः ५०।
इति श्रीपद्मपुराणे भूमिखंडे दैत्यतपश्चर्यावर्णनंनाम दशमोऽध्यायः १०।